श्रीमल्लिकार्जुनस्तोत्रम्

Click Settings to choose another script or language.
श्रीकण्ठादिसमस्तरुद्रनमितो वामार्धजानिः शिवःप्रालेयाचलहारहीरकुमुदक्षीराब्धितुल्यप्रभः ।विष्वक्सेनविघातमस्तमकुटीरत्नप्रभाभास्वरःश्रीमत्पर्वतमल्लिकार्जुनमहादेवः शिवो मे गतिः ॥ १ ॥
इन्द्राद्यामरयातुधानकरवल्लीवेल्लिताशीविषा-धीशाकर्षितमन्दरागमथिताम्भोराशिजातस्फुर-त्कीलासंहितविस्फुलिङ्गगरलग्रासैकशाम्यद्भयःश्रीमत्पर्वतमल्लिकार्जुनमहादेवः शिवो मे गतिः ॥ २ ॥
उद्यद्भासुरकासरासुरभुजादर्पाद्रिदम्भोलिभृ-त्पटीरामरधेनुनायकककुद्विन्यस्तहस्ताम्बुजः ।नीहाराचलकन्यकावहनपादद्वन्द्वपादोरुहःश्रोमत्पर्वतमल्लिकार्जुनमहादेवः शिवो मे गतिः ॥ ३ ॥
नीरेजासनमुख्यनिर्जरशिरःप्रच्छन्नपादद्वयःसर्वज्ञत्रिपुरासुराहितगणाम्भोदौघझञ्झानिलः ।मार्कण्डेयमहामुनीश्वरनुतप्रख्यातचारित्रकःश्रीमत्पर्वतमल्लिकार्जुनमहादेवः शिवो मे गतिः ॥ ४ ॥
सद्भक्तावलिमानसाम्बुरुहचञ्चच्चञ्चरीको मृडःक्रीडाबन्धुरपाणिहृत्कमलपोतः कर्णगोकर्णराट् ।चक्री चक्रसमस्तभूषणगणः कोलासुरध्वंसकःश्रीमत्पर्वतमल्लिकार्जुनमहादेवः शिवो मे गतिः ॥ ५ ॥
कल्याणाचलकार्मुकप्रथितदुग्धाम्भोधिकन्यामनः-कञ्जातभ्रमरायमाणविलसद्गोविन्दसन्मार्गणः ।धात्रीस्यन्दनभासमाननलिनीजा[प्त]त्रयीसैन्धवःश्रीमत्पर्वतमल्लिकार्जुनमहादेवः शिवो मे गतिः ॥ ६ ॥
गोराजोत्तमवाहनः शशिकलालङ्कारजूटः सदापद्मानायकसायकस्त्रिभुवनाधीशः पशूनां पतिः ।भक्ताभीष्टफलप्रदानचतुरः कारुण्यपाथोनिधिःश्रीमत्पर्वतमल्लिकार्जुनमहादेवः शिवो मे गतिः ॥ ७ ॥
पातालामरवाहिनीवरजलक्रीडासमेतः सदारम्भाकाननवाटिकाविहरणोद्युक्तस्त्रयीगोचरः ।फालाक्षो भ्रमराम्बिकाहृदयपङ्केजातपुष्पन्धयःश्रीमत्पर्वतमल्लिकार्जुनमहादेवः शिवो मे गतिः ॥ ८ ॥
॥ इति श्रीमल्लिकार्जुनस्तोत्रं सम्पूर्णम् ॥