श्रीगणेशनवरत्नमाला

Click Settings to choose another script or language.
श्रीकण्ठतनय श्रीश श्रीकर श्रीदलार्चित ।श्रीविनायक सर्वेश श्रियं वासय मे कुले ॥ १ ॥
गजानन गणाधीश द्विजराजविभूषित ।भजे त्वां सच्चिदानन्द ब्रह्मणां ब्रह्मणस्पते ॥ २ ॥
नताधीशाय महते दीनाटविकुठारिणे ।घृणापालितलोकाय वनानां पतये नमः ॥ ३ ॥
धीप्रदाय नमस्तुभ्यमीप्सितार्थप्रदायिने ।दीप्तभूषणभूषाय दिशां च पतये नमः ॥ ४ ॥
पञ्चब्रह्मस्वरूपाय पञ्चपातकहारिणे ।पञ्चतत्त्वात्मने तुभ्यं पशूनां पतये नमः ॥ ५ ॥
तटित्कोटिप्रतीकाशतनवे विश्वसाक्षिणे ।तपस्विध्यायिने तुभ्यं सेनानीभ्यश्च वो नमः ॥ ६ ॥
एकाक्षरस्वरूपाय[चै]कदन्ताय वेधसे ।नैकरूपाय महते मुष्णतां पतये नमः ॥ ७ ॥
नगजावरपुत्राय सुरराजार्चिताय च ।सुगुणाय नमस्तुभ्यं सुमृडीकाय मीढुषे ॥ ८ ॥
महापातकसङ्घातमहारणभयापह ।त्वदीयकृपया देव सर्वानवयजामहे ॥ ९ ॥
नवरत्नमयीं मालां नवाक्षरसमन्विताम् ।तव[भव]भक्त्यायः[ये]पठन्ति तेषां तुष्टो गणाधिप ॥ १० ॥
॥ इति श्रीगणेशनवरत्नमाला सम्पूर्णा ॥