श्रीदक्षिणामूर्त्यष्टकम्

विश्वं दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतंपश्यन्नात्मनि मायया बहिरिवोद्भूतं यथा निद्रया ।यः साक्षात्कुरुते प्रबोधसमये स्वात्मानमेवाद्वयंतस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ १ ॥
बीजस्यान्तरिवाङ्करो जगदिदं प्रानिर्विकल्पं पुन-र्मायाकल्पितदेशकालकलनावैचित्र्यचित्रीकृतम् ।मायावीव विजृम्भयत्यपि महायोगीव यः स्वेच्छयातस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ २ ॥
यस्यैव स्फुरणं सदात्मकमसत्कल्पार्थगं भासतेसाक्षात्तत्त्वमसीति वेदवचसा यो बोधयत्याश्रितान् ।यत्साक्षात्करणाद्भवेन्न पुनरावृत्तिर्भवाम्भोनिधौतस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ३ ॥
नानाच्छिद्रघटोदरस्थितमहादीपप्रभाभास्वरंज्ञानं यस्य तु चक्षुरादिकरणद्वारा बहिः स्पन्दते ।जानामीति तमेव भान्तमनुभात्येतत्समस्तं जग-त्तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ४ ॥
देहं प्राणमपीन्द्रियाण्यपि चलां बुद्धिं च शून्यं विदुःस्त्रीबालान्धजडोपमास्त्वहमिति भ्रान्ता भृशं वादिनः ।मायाशक्तिविलासकल्पितमहाव्यामोहसंहारिणेतस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ५ ॥
राहुग्रस्तदिवाकरेन्दुसदृशो मायासमाच्छादना-त्सन्मात्रः करणोपसंहरणतो योऽभूत्सुषुप्तः पुमान् ।प्रागस्वाप्समिति प्रबोधसमये यः प्रत्यभिज्ञायतेतस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ६ ॥
बाल्यादिष्वपि जाग्रदादिषु तथा सर्वास्ववस्थास्वपिव्यावृत्तास्वनुवर्तमानमहमित्यन्तः स्फुरन्तं सदा ।स्वात्मानं प्रकटीकरोति भजतां यो मुद्रया भद्रयातस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ७ ॥
विश्वं पश्यति कार्यकारणतया स्वस्वामिसंबन्धतःशिष्याचार्यतया तथैव पितृपुत्राद्यात्मना भेदतः ।स्वप्ने जाग्रति वा य एष पुरुषो मायापरिभ्रामित-स्तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ८ ॥
भूरम्भांस्यनलोऽनिलोऽम्बरमहर्नाथो हिमांशुः पुमा-नित्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्टकम् ।नान्यत्किंचन विद्यते विमृशतां यस्मात्परस्माद्विभो-स्तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ९ ॥
सर्वात्मत्वमिति स्फुटीकृतमिदं यस्मादमुष्मिंस्तवेतेनास्य श्रवणात्तदर्थमननाद्ध्यानाच्च संकीर्तनात् ।सर्वात्मत्वमहाविभूतिसहितं स्यादीश्वरत्वं स्वतःसिध्येत्तत्पुनरष्टधा परिणतं चैश्वर्यमव्याहृतम् ॥ १० ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्रीदक्षिणामूर्त्यष्टकम् संपूर्णम् ॥

Settings