श्रीअरुणाचलस्तोत्रम्

Click Settings to choose another script or language.
वन्दे शम्भुमुमापतिं सुरगुरुं वन्दे जगत्कारणंवन्दे पन्नगभूषणं मृगधरं वन्दे पशूनां पतिम् ।वन्दे सूर्यशशाङ्कवह्रिनयनं वन्दे मुकुन्दप्रियंवन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ १ ॥
वन्दे सर्वजगद्विहारमतुलं वन्दे करित्वग्धरंवन्दे देवशिखामणिं शशिनिभं वन्दे हरेर्वल्लभम् ।वन्दे नागभुजङ्गभूषणधरं वन्दे शिवं चिन्मयंवन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ २ ॥
वन्दे सोममचिन्त्यमद्वयमजं वन्देऽर्कदर्पापहंवन्दे निर्मलमादिमूलमनिशं वन्दे मखध्वंसिनम् ।वन्दे नित्यनमश्शिवायमभयं वन्देऽतिशान्ताकृतिंवन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ ३ ॥
वन्दे भूरथमम्बुजाक्षविशिखं वन्दे त्रयीघोटकंवन्दे शौलशरासनं फणिगुणं वन्देऽब्धितूणीरकम् ।वन्दे पद्मजसारथिं पुरहरं वन्दे महावैभवंवन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ ४ ॥
वन्दे पञ्चमुखाम्बुजं त्रिनयनं वन्दे ललाटेक्षणंवन्दे व्योमकचं जटासुमकुटं वन्देन्दु[ऽब्ज]गङ्गाधरम् ।वन्दे नागभरं त्रिपुण्ड्रनिटिलं वन्देऽष्टमूर्त्यात्मकंवन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ ५॥
वन्दे तारकपर्वताग्रनिलयं वन्दे सुराधीश्वरंवन्दे शङ्करमप्रमेयमतुलं वन्दे यमद्वेषिणम् ।वन्दे कुण्डलिराजकुण्डलधरं वन्दे सहस्राननंवन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ ६ ॥
वन्देऽनन्तशशिप्रकाशमतुलं वन्देऽर्कतेजोमयंवन्दे पद्मजविष्णुगर्वकुलिशं वन्दे परब्रह्म ओम् ।वन्दे शोणगिरीश्वरं स्वरमयं वन्दे त्रिमूर्त्यात्मकंवन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ ७ ॥
वन्दे कालहरं हरं वृषधरं वन्दे मृडं धूर्जटिंवन्दे सर्वजगत्त्रयामृतनिधिं वन्दे नृसिंहापहम् ।वन्दे विप्रसुरासुरार्चितपदं वन्दे भगाक्षापहंवन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ ८ ॥
वन्दे सूक्ष्ममनन्तमाद्यमनघं वन्देऽन्धकारापहंवन्दे रावणबाणभृङ्गिविनुतं वन्दे सुपर्णावृतम् ।वन्दे शैलसुतार्धभागवपुषं वन्दे त्रियम्बात्मकंवन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ ९ ॥
वन्दे हंसमतीन्द्रियं स्मरहरं वन्दे विरूपेक्षणंवन्दे भूतगणेशमव्ययमजं वन्देऽर्थराजप्रियम् ।वन्दे सुन्दरसौरभेन्द्रगमनं वन्दे त्रिशूलायुधंवन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ १० ॥
वन्दे मन्दकटाक्षलब्ध[दत्त]विभवं वन्दे विरिञ्चस्तुतंवन्देन्द्रा[ऽब्जा]च्युतपूजिताङ्घ्रिकमलं वन्दे वृषेन्द्रध्वजम् ।वन्दे हाटकरत्नभूषणधरं वन्दे भवानीप्रियंवन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ ११ ॥
वन्दे पावनमम्बरात्मममलं वन्दे महादैवतंवन्दे भक्तवराश्रयामरतरं वन्दे नताभीष्टदम् ।वन्देऽपीतकुचाम्बिकेशमनिशं वन्देऽरुणाधीश्वरंवन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ १२ ॥
शान्तं जम्भवरापहं शुभकरं धर्मार्थकामप्रदंधन्यंश्रेयः[पुण्य]फलप्रदं शुचिकरं दारिद्र्यदुःखापहम् ।भूतप्रेतपिशाचराक्षसहरं पा[पघ]मायुष्करंनित्यं शोणगिरेः स्तवं पठति यो मोक्षं लभेच्छाश्वतम् ॥ १३ ॥
॥ इति श्री अरुणाचलस्तोत्रं सम्पूर्णम् ॥