श्रीअरुणाचलाष्टकम्

Click Settings to choose another script or language.
दर्शनादभ्रसदसि जननात्कमलालये ।काश्यां तु मरणान्मुक्तिः स्मरणादरुणाचले ॥ १ ॥
करुणापूरितापाङ्गं शरणागतवत्सलम् ।तरुणेन्दुजटामौलिं स्मरणादरुणाचलम् ॥ २ ॥
समस्तजगदाधारं सच्चिदानन्दविग्रहम् ।सहस्ररथसोपेतं(?)स्मरणाद्रुणाचलम् ॥ ३ ॥
काञ्चनप्रतिमाभासं वाञ्छितार्थफलप्रदम् ।मां च रक्ष सुराध्यक्षं स्मरणादरुणाचलम् ॥ ४ ॥
बद्धचन्द्रजटाजूटमर्धनारीकलेबरम् ।वर्धमानदयाम्भोधिं स्मरणादरुणाचलम् ॥ ५ ॥
काञ्चनप्रतिमाभासं सूर्यकोटिसमप्रभम् ।बद्धव्याघ्रपुरीध्यानं स्मरणादरुणाचलम् ॥ ६ ॥
शिक्षयाखिलदेवारिभक्षितक्ष्वेलकन्धरम् ।रक्षयाखिलभक्तानां स्मरणादरुणाचलम् ॥ ७ ॥
अष्टभूतिसमायुक्तमिष्टकामफलप्रदम् ।शिष्टभक्तिसमयुक्तान् स्मरणादरुणाचलम् ॥ ८ ॥
विनायकसुराध्यक्षं विष्णुब्रह्मेन्द्रसेवितम् ।विमलारुणपादाब्जं स्मरणादरुणाचलम् ॥ ९ ॥
मन्दारमल्लिकाजातिकुन्दचम्पकपङ्कजैः ।इन्द्रादिपूजितां देवीं स्मरणादरुणाचलम् ॥ ९० ॥
सम्पत्करं पार्वतीशं सूर्यचन्द्राग्निलोचनम् ।मन्दस्मितमुखाम्भोजं स्मरणादरुणाचलम् ॥ ११ ॥
॥ इति श्रीअरुणाचलाष्टकं सम्पूर्णम् ॥