सङ्कर्षणोपनिषत्

अथ तद्विष्णोः इति शान्तिः । अथ सङ्कर्षणोपनिषदुच्यते । शेषो ह वै वासुदेवात्सङ्कर्षणो नाम जात आसीत् । सोऽकामयत प्रजाः सृजेयेति । ततः प्रद्युम्न्नसंज्ञं मन आसीत् । तस्मादहंकारनामाऽनिरुद्धः । ततो हिरण्यगर्भोऽजायत । तस्माद्दश प्रजापतयो मरीच्यादय: स्थाणुदक्षकर्दमप्रियव्रतोतानपादादयोऽप्यजायत । तेभ्यः सर्वाणि भूतानि च । तस्माच्छेषादेव सर्वाणि समुत्पद्यन्ते । तस्मिन्नेव प्रलीयन्ते । स एव बहुधा जायमानः सर्वान् परिपाति । स एव काद्रवेयो व्याकरणज्यौतिषादिशास्त्राणि निर्मिमाणो बहुभिर्मुमुक्षुभिरुपास्यमानोऽखिलां भुवमेकस्मिन् शीर्ष्णि सिद्धार्थवद्धारयमाणस्सर्वैर्मुनिभिः संप्रार्थ्यमानः सहस्रशिखरमेरोश्शिरोभिर्वारयमाणो महावायोरहंकारं निराचकार । स भगवान् युगसन्धिकाले स्वेन रूपेण युगे युगे तेनैव जायमानः स्वयमेव सौमित्रिरैक्ष्वाके[वंशे जा]यमा[नो] रक्षांसि सर्वाणि विनिघ्नन् चातुर्वर्ण्यधर्मान् प्रवर्त[यति । ] स एव भगवान् युगसन्धिकाले[शरदभ्रसं]निकाशो रौहिणेयो वासुदेवः सर्वाणि[दा]द्यायुधशास्त्राजन्यमण्डलान्निराचिकीर्ष[ति । ] भूभारमखिलं निचखान । स एव भगवान् [शेषः] युगे तुरीयेऽपि ब्राह्मण्यां जायमा[नो] रामानुजो भूत्वा सर्वा उपनिषद उद्दिधीर्ष[ति ।] सर्वाणि धर्मशास्त्राणि विस्तारयिष्णुः सर्वानपि वैष्णवान् धर्मान् विजृंभयन् सर्वानपि पाषण्डान्निचखान । स एष जग[दाविर्भावतिरोभावहेतुः । स एष सर्वात्मकः । स एष मुमुक्षुभिर्ध्येयः । स एष मोक्षप्रदः एतत्स्मृ[त्या] सर्वेभ्यः पाप्मे[प्म]भ्यो मुच्यते । तन्नाम संकीर्तयन् विष्णुसायुज्यं गच्छति । तदेतद्दिवाऽघीयानो रात्रिकृतं पापं नाशयति । नक्तमधीयानो दिवसकृतं पापं नाशयति । तदेतद्वेदानां रहस्यम् । तदेतदुपनिषदां रहस्यम् । एतदधीयानः सर्वऋतुफलं लभते । शान्तिमेति । मनश्शुद्धिमेति । सर्वतीर्थफलं लभते । य एवं वेद । देहबन्धाद्विमुच्यते । देहबन्धाद्विमुच्यते । इत्येवोपनिषत् ॥
इति सङ्कर्षणोपनिषत् समाप्ता

Settings