राजश्यामलारहस्योपनिषत्

ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ।
ॐ रत्नसानुशिखरेष्वासीनं श्रीराजश्यामलारहस्योपनिषद्वेत्तारं मतङ्गऋषिं गुरुं कूचिमारः प्रोवाच । मतङ्ग भगवन् गुरो राजश्यामलारहस्योपनिषदं मेऽनुब्रूहि । मतङ्गभगवान् कूचिमारं स होवाच । ते राजश्यामलारहस्योपनिषदमुपदिशामि ।
अथातः श्रीराजश्यामलारहस्योपनिषदं व्याख्यास्यामः । मन्त्रजपाधिकरणन्यासाधिकरणस्तोत्राधिकरणपूजाधिकरणमैथुनाधिकरणैः पञ्चभिर्ब्राह्मणो भोगमोक्षमाप्नोति । गुरोरनुज्ञया श्रीराजश्यामलामन्त्रं नित्यं सहस्रसङ्ख्यया त्रिशतेन वाऽष्टाविंशदुत्तरशतेन वा जप्त्वा मन्त्रसिद्धिर्भवति । शुक्रवारे भार्याजगन्मोहनचक्रे त्रिशतं मन्त्रजपेन मन्त्रसिद्धिः । पुरश्चरणसिद्धिर्भवति । नवाशीतिन्यासानां न्यसनेन देवताशरीरी भवति । नवाशीतिन्यासानां न्यसनेन सर्वदेवैर्नमस्कृतो भवति । नवाशीतिन्यासानां शरीरे न्यसनेन गन्धर्वकन्याभिः पूजितो भवति । नवाशीतिन्यासानां न्यसनेन देवस्त्रीभोगमाप्नोति । रम्भासंभागमाप्नोति । नवाशीतिन्यासानां न्यसनेन देवतारूपमाप्नोति । देवताशरीरी भृत्वा विमानवान् भवति । विमानमारुह्य स्वर्गं गच्छति । स्वर्गं प्राप्य तद्भोगमाप्नोति । जगन्मोहनचक्रे पाटलकुसुमैः सहस्रसङ्ख्यया पूजिता श्रीराजश्यामला कामितार्थप्रदा मङ्गलप्रदा भवति । वर्षर्तौ श्रावणे मासि सर्वरात्रिषु भार्याजगन्मोहनचक्रे चम्पककुसुमैः सहस्रसङ्ख्यया पूजिता श्रीराजश्यामलाऽऽरोग्यप्रदा भवति । तत्र शुक्रवारे पूजितामहालक्ष्मीप्रदा भवति । शुक्रवारयुतायां पौर्णमास्यां भार्याजगन्मोहनचक्रे शतसङ्ख्यया श्रीराजश्यामलाम्बां पूजयन् देहान्तरे रम्भासंभोगमश्नुते । भाद्रपदे मासि महालक्ष्मीव्रतदिनेषु भार्याजगन्मोहनचक्रे श्रीराजश्यामलाम्बां जाजीकुसुमैः पूजयन् मानवो महदैश्वर्यमाप्नोति । शरत्काले सर्वरात्रिषु भार्याजगन्मोहनचक्रे नीलोत्पलैः सहस्रसङ्ख्यया श्यामलां पूजयन् महाभोगमश्नुते । शुक्रवारयुतायां पौर्णमास्यां भार्याजगन्मोहनचक्रे श्रीराजश्यामलां पूजयन् कल्हारैः शचीभोगमश्नुते । हेमन्तकाले सर्वरात्रिषु भार्याजगन्मोहनचक्रे जवन्तीकुसुमैः सहस्रसङ्ख्यया पूजयन् वरुणदेवेन कनकच्छत्री भवति । मार्गशीर्षे पौर्णमास्यां भार्याजगन्मोहनचक्रे कुसुम्भपुष्पैः पूजयन् मानवो देवेन्द्रैश्वर्यमाप्नोति । माध्यां शुक्रवारयुक्तायां भार्याजगन्मोहनचक्रे द्वन्द्वमल्लिकाकुड्मलैः सहस्रसङ्ख्यया पूजयन् मानवो राजस्त्रीसंभोगमाप्नोति । सर्वदा पुष्पिण्यां भार्यायां जगन्मोहनचक्रे वसन्तपुष्पैः पूजयन् मानवो देवतात्वमश्नुते । चतुर्थ्यां शुक्रवारयुक्तायां भार्याजगन्मोहनचक्रे देवतां श्यामलां जपन् परशिवत्वमाप्नोति । श्रीराजश्यामलाम्बायाः पञ्चदशस्तोत्राणां पारायणेन देवतासन्तुष्टिर्भवति । मङ्गलप्रदा राजवशंकरी च भवति । देवतासान्निध्यमाप्नोति । सन्निधानेन सर्वनिवृत्तिर्भवति । सर्वमङ्गलमाप्नोति । सर्वदेवनमस्कृतो भवति । सर्वे राजानो वश्या भवन्ति । रम्भादिभिः पूजितो भवति । स्वर्गभोगमाप्नोति । गुरोरनुज्ञया शुक्रवारे दिवा रात्रौ च चम्पकतैलाद्यैः कृतस्नातां सर्वालङ्कारभूषितां शुभ्रवस्त्रधरां श्रीचन्दनविलिप्ताङ्गीं कस्तूरीतिलकोपेतां कुङ्कुमलिप्तकुचभारां पुष्पदामयुक्तधम्मिल्लां ताम्बूलपूरितमुखीं स्वेदबिन्दूल्लसन्मुखीं बिम्बोष्ठीं कुन्दरदनां कम्बुकण्ठीं मज्जुहासां यौवनोन्मत्तां कञ्जलोचनां पृथुनितम्बां राजरम्भोरुं संपूर्णचन्द्रवदनां संभोगेच्छां शुकवाणीं सङ्गीतरसिकां कुरवकरसाञ्चितपाणिपादां वशवर्तिनीं भार्यां पुष्पशय्या-यामुत्तानशायिनीं कृत्वा दर्पणवन्निर्मलं जगन्मोहनचक्रं गन्धद्रव्येण धूपदीपैश्च परिमलीकृतं कुङ्कुममिलितैर्मल्लिकाकुड्मलैः शरसङ्ख्यया पूजयन् ब्राह्मणो देवभोगमाप्नोति । वसन्तनवरात्रिषु भार्याजगन्मोहनचक्रे मल्लिकाकुड्मलैः सहस्रनामभिः रहस्यनामभिश्च पूजिता राजश्यामला राजवशङ्करी भवति । शुक्रवासरयुक्तायां सप्तम्यां रात्रौ भार्याया जगन्मोहनचक्रे प्रथमयामे कल्हारपुष्पैः सहस्रनामभिर्देवतां पूजयन् देवतासालोक्यमाप्नोति । तस्यामेव द्वितीययामे भार्याजगन्मोहनचक्रे पारिजातपुष्पैः सहस्रनामभिः पूजयन् देवतासामीप्यमाप्नोति । तस्यामेव तृतीययामे भार्याजगन्मोहनचक्रे मन्दारपुष्पैः सहस्रनामभिः पूजयन् देवतासारूप्यमाप्नोति । तस्यामेव चतुर्थयामे जगन्मोहनचक्रे चम्पकपुष्पैः सहस्रनामभिः पूजयन् देवतासायुज्यमाप्नोति । सर्वरात्रिषु जगन्मोहनचक्रे मल्लिकाकुड्मलैः पूजिता श्यामला कामितार्थप्रदा भवति । ग्रीष्मकाले सर्वरात्रिषु श्रीचन्दनविलिप्तभार्याजगन्मोहनचक्रं पूजयन् सर्वसिद्धिमाप्नोति । दूर्वाभिः पूजयन् महदायुष्यमश्नुते । अष्टम्यां शुक्रवासरयुक्तायां रात्रौ जगन्मोहको चक्रे राजश्यामलाम्बां श्रीचन्दनेन पूजयन् मानवो गन्धलिप्तो जगन्मोहको भवति । महानवम्यां शुक्रवासरयुक्तायां रात्रौ जगन्मोहनचक्रे कुङ्कुमाक्षतैर्देवतां पूजयित्वा पूजिताक्षतान् राज्ञे निवेदयेत् । राजा दासभावमाप्नोति । त्रयोदश्यां शुक्रवासरयुक्तायां रात्रौ भार्याजगन्मोहनचक्रं पूजयन् मानवः कामसुन्दरो भवति । चन्द्रदर्शनयुक्तायां द्वितीयायां शुक्रवारयुक्तायां भार्याजगन्मोहनचक्रे राजश्यामलाम्बां श्वेतगन्धाक्षतैः श्वेतपुष्पैश्च पूजयन् साधको देहान्ते राजा भवति । सर्वभोगप्रदा सर्वसौभाग्यप्रदा दीर्घायुष्यप्रदा महायोगप्रदा महामङ्गलप्रदा काम्यप्रदा श्रीराजश्यामला देवेन्द्रभोगप्रदा भवति । सर्वकाम्यरहस्यपूजान्ते मैथुनं देवताप्रीतिकरं भवति । मोक्षप्रदं भवति । स एव भोगापवर्गः ।
गुर्वनुज्ञया गुप्तः क्षपणको मुक्तो भवति । एवं कान्तायाः पूजिता स्वर्णचक्रे श्यामला मङ्गलप्रदा भवति । द्रोहिणां नोपदेशः । क्षपणकानां पञ्चाधिकरणैः परो मोक्षो नान्यथेति य एवं वेद । इत्युपनिषत् ॥
इति राजश्यामलारहस्योपनिषत् समाप्ता

Settings