प्रश्नोत्तररत्नमालिका

कः खलु नालंक्रियतेदृष्टादृष्टार्थसाधनपटीयान् ।अमुया कण्ठस्थितयाप्रश्नोत्तररत्नमालिकया ॥ १ ॥
भगवन्किमुपादेयंगुरुवचनं हेयमपि च किमकार्यम् ।को गुरुरधिगततत्त्वःशिष्यहितायोद्यतः सततम् ॥ २ ॥
त्वरितं किं कर्तव्यंविदुषां संसारसंततिच्छेदः ।किं मोक्षतरोर्बीजंसम्यक्ज्ञानं क्रियासिद्धम् ॥ ३ ॥
कः पध्यतरो धर्मःकः शुचिरिह यस्य मानसं शुद्धम् ।कः पण्डितो विवेकीकिं विषमवधीरणा गुरुषु ॥ ४ ॥
किं संसारे सारंबहुशोऽपि विचिन्त्यमानमिदमेव ।किं मनुजेष्विष्टतमंस्वपरहितायोद्यतं जन्म ॥ ५ ॥
मदिरेव मोहजनकःकः स्नेहः के च दस्यवो विषयाः ।का भववल्ली तृष्णाको वैरी यस्त्वनुद्योगः ॥ ६ ॥
कस्माद्भयमिह मरणा-दन्धादिह को विशिष्यते रागी ।कः शूरो यो ललना-लोचनबाणैर्न च व्यधितः ॥ ७ ॥
पातुं कर्णाञ्जलिभिःकिममृतमिह युज्यते सदुपदेशः ।किं गुरुताया मूलंयदेतदप्रार्थनं नाम ॥ ८ ॥
किं गहनं स्त्रीचरितंकश्चतुरो यो न खण्डितस्तेन ।किं दुःखमसंतोषःकिं लाघवमधमतो याच्ञा ॥ ९ ॥
किं जीवितमनवद्यंकिं जाड्यं पाठतोऽप्यनभ्यासः ।को जागर्ति विवेकीका निद्रा मूढता जन्तोः ॥ १० ॥
नलिनीदलगतजलव-त्तरलं किं यौवनं धनं चायुः ।कथय पुनः के शशिनःकिरणसमाः सज्जना एव ॥ ११ ॥
को नरकः परवशताकिं सौख्यं सर्वसङ्गविरतिर्या ।किं सत्यं भूतहितंप्रियं च किं प्राणिनामसवः ॥ १२ ॥
कोऽनर्थफलो मानःका सुखदा साधुजनमैत्री ।सर्वव्यसनविनाशेको दक्षः सर्वथा त्यागी ॥ १३ ॥
किं मरणं मूर्खत्वंकिं चानर्घं यदवसरे दत्तम् ।आमरणात्किं शल्यंप्रच्छन्नं यत्कृतं पापम् ॥ १४ ॥
कुत्र विधेयो यत्नोविद्याभ्यासे सदौषधे दाने ।अवधीरणा क्व कार्याखलपरयोषित्परधनेषु ॥ १५ ॥
काहर्निशमनुचिन्त्यासंसारासारता न तु प्रमदा ।का प्रेयसी विधेयाकरुणा दीनेषु सज्जने मैत्री ॥ १६ ॥
कण्ठगतैरप्यसुभिःकस्य ह्यात्मा न शक्यते जेतुम् ।मूर्खस्य शङ्कितस्य चविषादिनो वा कृतघ्नस्य ॥ १७ ॥
कः साधुः सद्वृत्तःकमधममाचक्षते त्वसद्वृत्तम् ।केन जितं जगदेत-त्सत्यतितिक्षावता पुंसा ॥ १८ ॥
कस्मै नमांसि देवाःकुर्वन्ति दयाप्रधानाय ।कस्मादुद्वेगः स्या-त्संसारारण्यतः सुधियः ॥ १९ ॥
कस्य वशे प्राणिगणःसत्यप्रियभाषिणो विनीतस्य ।क्व स्थातव्यं न्याय्येपथि दृष्टादृष्टलाभाढ्ये ॥ २० ॥
कोऽन्धो योऽकार्यरतःको बधिरो यो हितानि न शृणोति ।को मूको यः कालेप्रियाणि वक्तुं न जानाति ॥ २१ ॥
किं दानमनाकाङ्क्षकिं मित्रं यो निवारयति पापात् ।कोऽलंकारः शीलंकिं वाचां मण्डनं सत्यम् ॥ २२ ॥
विद्युद्विलसितचपलंकिं दुर्जनसंगतिर्युवतयश्च ।कुलशीलनिष्प्रकम्पाःके कलिकालेऽपि सज्जना एव ॥ २३ ॥
चिन्तामणिरिव दुर्लभ-मिह किं कथयामि तच्चतुर्भद्रम् ।किं तद्वदन्ति भूयोविधूततमसो विशेषेण ॥ २४ ॥
दानं प्रियवाक्सहितंज्ञानमगर्वं क्षमान्वितं शौर्यम् ।वित्तं त्यागसमेतंदुर्लभमेतच्चतुर्भद्रम् ॥ २५ ॥
किं शोच्यं कार्पण्यंसति विभवे किं प्रशस्तमौदार्यम् ।कः पूज्यो विद्वद्भिःस्वभावतः सर्वदा विनीतो यः ॥ २६ ॥
कः कुलकमलदिनेशःसति गुणविभवेऽपि यो नम्रः ।कस्य वशे जगदेत-त्प्रियहितवचनस्य धर्मनिरतस्य ॥ । २७ ॥
विद्वन्मनोहरा कासत्कविता बोधवनिता च ।कं न स्पृशति विपत्तिःप्रवृद्धवचनानुवर्तिनं दान्तम् ॥ २८ ॥
कस्मै स्पृहयति कमलात्वनलसचित्ताय नीतिवृत्ताय ।त्यजति च कं सहसा द्विज-गुरुसुरनिन्दाकरं च सालस्यम् ॥ २९ ॥
कुत्र विधेयो वासःसज्जननिकटेऽथवा काश्याम् ।कः परिहार्यो देशःपिशुनयुतो लुब्धभूपश्च ॥ ३० ॥
केनाशोच्यः पुरुषःप्रणतकलत्रेण धीरविभवेनइह भुवने कः शोच्यःसत्यपि विभवे न यो दाता ॥ ३१ ॥
किं लघुताया मूलंप्राकृतपुरुषेषु या याच्ञा ।रामादपि कः शूरःस्मरशरनिहतो न यश्चलति ॥ ३२ ॥
किमहर्निशमनुचिन्त्यंभगवच्चरणं न संसारः ।चक्षुष्मन्तोऽप्यन्धाःके स्युर्ये नास्तिका मनुजाः ॥ ३३ ॥
कः पङ्गुरिह प्रथितोव्रजति च यो वार्धके तीर्थम् ।किं तीर्थमपि च मुख्यंचित्तमलं यन्निवर्तयति ॥ ३४ ॥
किं स्मर्तव्यं पुरुषै-र्हरिनाम सदा न यावनी भाषा ।को हि न वाच्यः सुधियापरदोषश्चानृतं तद्वत् ॥ ३५ ॥
किं संपाद्यं मनुजै-र्विद्या वित्तं बलं यशः पुण्यम् ।कः सर्वगुणविनाशीलोभः शत्रुश्च कः कामः ॥ ३६ ॥
का च सभा परिहार्याहीना या वृद्धसचिवेन ।इह कुत्रावहितः स्या-न्मनुजः किल राजसेवायाम् ॥ ३७ ॥
प्राणादपि को रम्यःकुलधर्मः साधुसङ्गश्च ।का संरक्ष्या कीर्तिःपतिव्रता नैजबुद्धिश्च ॥ ३८ ॥
का कल्पलता लोकेसच्छिष्यायार्पिता विद्या ।कोऽक्षयवटवृक्षः स्या-द्विधिवत्सत्पात्रदत्तदानं यत् ॥ ३९ ॥
किं शस्त्रं सर्वेषांयुक्तिर्माता च का धेनुः ।किं नु बलं यद्धैर्यंको मृत्युर्यदवधानरहितत्वम् ॥ ४० ॥
कुत्र विषं दुष्टजनेकिमिहाशौचं भवेदृणं नॄणाम् ।किमभयमिह वैराग्यंभयमपि किं वित्तमेव सर्वेषाम् ॥ ४१ ॥
का दुर्लभा नराणांहरिभक्तिः पातकं च किं हिंसा ।को हि भगवत्प्रियः स्या-द्योऽन्यं नोद्वेजयेदनुद्विग्नः ॥ ४२ ॥
कस्मात्सिद्धिस्तपसोबुद्धिः क्व नु भूसुरे कुतो बुद्धिः ।वृद्धोपसेवया केवृद्धा ये धर्मतत्त्वज्ञाः ॥ ४३ ॥
संभावितस्य मरणा-दधिकं किं दुर्यशो भवति ।लोके सुखी भवेत्कोधनवान्धनमपि च किं यतश्रेष्ठम् ॥ ४४ ॥
सर्वसुखानां बीजंकिं पुण्यं दुःखमपि कुतः पापात् ।कस्यैश्वर्यं यः किलशंकरमाराधयेद्भक्त्या ॥ ४५ ॥
को वर्धते विनीतःको वा हीयेत यो दृप्तः ।को न प्रत्येतव्योब्रूते यश्चानृतं शश्वत् ॥ ४६ ॥
कुत्रानृतेऽप्यपापंयच्चोक्तं धर्मरक्षार्थम् ।को धर्मोऽभिमतो यःशिष्टानां निजकुलीनानाम् ॥ ४७ ॥
साधुबलं किं दैवंकः साधुः सर्वदा तुष्टः ।दैवं किं यत्सुकृतंकः सुकृती श्लाध्यते च यः सद्भिः ॥ ४८ ॥
गृहमेधिनश्च मित्रंकिं भार्या को गृही च यो यजते ।को यज्ञो यः श्रुत्याविहितः श्रेयस्करो नॄणाम् ॥ ४९ ॥
कस्य क्रिया हि सफलायः पुनराचारवाञ्शिष्टः ।कः शिष्टो यो वेद-प्रमाणवान्को हतः क्रियाभ्रष्टः ॥ ५० ॥
को धन्यः संन्यासीको मान्यः पण्डितः साधुः ।कः सेव्यो यो दाताको दाता योऽर्थितृप्तिमातनुते ॥
किं भाग्यं देहवता-मारोग्यं कः फली कृषिकृत् ।कस्य न पापं जपतःकः पूर्णो यः प्रजावान्स्यात् ॥ ५२ ॥
किं दुष्करं नराणांयन्मनसो निग्रहः सततम् ।को ब्रह्मचर्यवान्स्या-द्यश्चास्खलितोर्ध्वरेतस्कः ॥ ५३
का च परदेवतोक्ताचिच्छक्तिः को जगत्भर्ता ।सूर्यः सर्वेषां कोजीवनहेतुः स पर्जन्यः ॥ ५४ ॥
कः शूरो यो भीत-त्राता त्राता च कः स गुरुः ।को हि जगद्गुरुरुक्तःशंभुर्ज्ञानं कुतः शिवादेव ॥ ५५ ॥
मुक्तिं लभेत कस्मा-द्मुकुन्दभक्तेर्मुकुन्दः कः ।यस्तारयेदविद्यांका चाविद्या यदात्मनोऽस्फूर्तिः ॥ ५६ ॥
कस्य न शोको यः स्या-दक्रोधः किं सुखं तुष्टिः ।को राजा रञ्जनकृ-त्कश्च श्वा नीचसेवको यः स्यात् ॥ ५७ ॥
को मायी परमेशःक इन्द्रजालायते प्रपञ्चोऽयम् ।क: स्वप्रनिभो जाग्र-द्व्यवहारः सत्यमपि च किं ब्रह्म ॥ ५८ ॥
किं मिथ्या यद्विद्या-नाश्यं तुच्छं तु शशविषाणादि ।का चानिर्वचनीयामाया किं कल्पितं द्वैतम् ॥ ५९ ॥
किं पारमार्थिकं स्या-दद्वैतं चाज्ञता कुतोऽनादिः ।वपुषश्च पोषकं किंप्रारब्धं चान्नदायि किं चायुः ॥ ६० ॥
को ब्राह्मणैरुपास्योगायत्र्यर्काग्निगोचरः शंभुः ।गायत्र्यामादित्येचाग्नौ शंभौ च किं नु तत्तत्वम् ॥ ६१ ॥
प्रत्यक्षदेवता कामाता पूज्यो गुरुश्च कस्तातः ।कः सर्वदेवतात्माविद्याकर्मान्वितो विप्रः ॥ ६२ ॥
कश्च कुलक्षयहेतुःसंतापः सज्जनेषु योऽकारि ।केषाममोघवचनंये च पुनः सत्यमौनशमशीलाः ॥ ६३ ॥
किं जन्म विषयसङ्गःकिमुत्तरं जन्म पुत्रः स्यात् ।कोऽपरिहार्यो मृत्युःकुत्र पदं विन्यसेच्च दृक्पूते ॥ ६४ ॥
पात्रं किमन्नदानेक्षुधितं कोऽर्च्यो हि भगवदवतारः ।कश्च भगवान्महेशःशंकरनारायणात्मकः ॥ ६५ ॥
फलमपि भगवद्भक्तेःकिं तल्लोकस्वरूपसाक्षात्त्वम् ।मोक्षश्च को ह्यविद्या-स्तमयः कः सर्ववेदभूरथ चोम् ॥ ६६ ॥
इत्येषा कण्ठस्थाप्रश्नोत्तररत्नमालिका येषाम् ।ते मुक्ताभरणा इवविमलाश्चाभान्ति सत्समाजेषु ॥ ६७ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभग- वत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ प्रश्नोत्तररत्नमालिका संपूर्णा ॥

Settings