पञ्चीकरणम्

अथातः परमहंसानां समाधिविधिं व्याख्यास्यामः ॥
सच्छब्दवाच्यमविद्याशबलं ब्रह्म । ब्रह्मणोऽव्यक्तम् । अव्यक्तान्महत् । महतोऽहंकारः । अहंकारात्पञ्चतन्मात्राणि । पञ्चतन्मात्रेभ्यः पञ्चमहाभूतानि । पञ्चमहाभूतेभ्योऽखिलं जगत् ॥
पञ्चानां भूतानामेकैकं द्विधा विभज्य स्वार्धभागं विहायार्धभागं चतुर्धा विभज्येतरेषु योजिते पञ्चीकरणं मायारूपदर्शनमध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते ॥
ओं पञ्चीकृतपञ्चमहाभूतानि तत्कार्यं सर्वं विराडित्युच्यते । एतत्स्थूलशरीरमात्मनः । इन्द्रियैरर्थोपलब्धिर्जागरितम् । एतदुभयाभिमान्यात्मा विश्वः । एतत्रयमकारः ॥
अपञ्चीकृतपञ्चमहाभूतानि पञ्चतन्मात्राणि, तत्कार्यं च पञ्चप्राणाः दशेन्द्रियाणि मनो बुद्धिश्चेति सप्तदशकं लिङ्गं भौतिकं हिरण्यगर्भ इत्युच्यते । एतत्सूक्ष्मशरीरमात्मनः । करणेषूपसंहृतेषु जागरितसंस्कारजः प्रत्ययः सविषयः स्वप्नइत्युच्यते । तदुभयाभिमान्यात्मा तैजसः । एतत्रयमुकारः ॥
शरीरद्वयकारणमात्माज्ञानं साभासमव्याकृतमित्युच्यते । एतत्कारणशरीरमात्मनः । तच्च न सत् , नासत् । नापि सदसत् । न भिन्नम् , नाभिन्नम् , नापि भिन्नाभिन्नं कुतश्चित् । न निरवयवम् , न सावयवम् , नोभयम् । किं तु केवलब्रह्मैकत्वज्ञानापनोद्यम् । सर्वप्रकारज्ञानोपसंहारे बुद्धेः कारणात्मनावस्थानं सुषुप्तिः । तदुभयाभिमान्यात्मा प्राज्ञः । एतत्रयं मकारः ॥
अकार उकारे, उकारो मकारे, मकार ओंकारेऽहम्येव ॥
अहमात्मा साक्षी केवलश्चिन्मात्रस्वरूपः, नाज्ञानम् , नापि तत्कार्यम् । किं तु नित्यशुद्धबुद्धमुक्तसत्यस्वभावं परमानन्दाद्वयं प्रत्यग्भूतचैतन्यं ब्रह्मैवाहमस्मीत्यभेदेनावस्थानं समाधिः । 'तत्त्वमसि' 'ब्रह्माहमस्मि' 'प्रज्ञानमानन्दं ब्रह्म' 'अयमात्मा ब्रह्म' इत्यादिश्रुतिभ्यः ॥ इति पञ्चीकरणं भवति ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ पथ्चीकरणं संपूर्णम् ॥

Settings