निर्वाणमञ्जरी

अहं नामरो नैव मर्त्यो न दैत्योन गन्धर्वयक्षः पिशाचप्रभेदः ।पुमान्नैव न स्त्री तथा नैव षण्डःप्रकृष्टः प्रकाशस्वरूपः शिवोऽहम् ॥ १ ॥
अहं नैव बालो युवा नैव वृद्धोन वर्णी न च ब्रह्मचारी गृहस्थः ।वनस्थोऽपि नाहं न संन्यस्तधर्माजगज्जन्मनाशैकहेतुः शिवोऽहम् ॥ २ ॥
अहं नैव मेयस्तिरोभूतमायातथैवेक्षितुं मां पृथङ्नास्त्युपायः ।समाश्लिष्टकायत्रयोऽप्यद्वितीयःसदातीन्द्रियः सर्वरूपः शिवोऽहम् ॥ ३ ॥
अहं नैव मन्ता न गन्ता न वक्तान कर्ता न भोक्ता न मुक्ताश्रमस्थः ।यथाहं मनोवृत्तिभेदस्वरूप-स्तथा सर्ववृत्तिप्रदीपः शिवोऽहम् ॥ ४ ॥
न मे लोकयात्राप्रवाहप्रवृत्ति-र्न मे बन्धबुद्ध्या दुरीहानिवृत्तिः ।प्रवृत्तिर्निवृत्त्यास्य चित्तस्य वृत्ति-र्यतस्त्वन्वहं तत्स्वरूपः शिवोऽहम् ॥ ५ ॥
निदानं यदज्ञानकार्यस्य कार्यंविना यस्य सत्त्वं स्वतो नैव भाति ।यदाद्यन्तमध्यान्तरालान्तराल-प्रकाशात्मकं स्यात्तदेवाहमस्मि ॥ ६ ॥
यतोऽहं न बुद्धिर्न मे कार्यसिद्धि-र्यतो नाहमङ्गं न मे लिङ्गभङ्गम् ।हृदाकाशवर्ती गताङ्गत्रयार्तिःसदा सच्चिदानन्दमूर्तिः शिवोऽहम् ॥ ७ ॥
यदासीद्विलासाद्विकारं जगद्य-द्विकाराश्रयं नाद्वितीयत्वतः स्यात् ।मनोबुद्धिचित्ताहमाकारवृत्ति-प्रवृत्तिर्यतः स्यात्तदेवाहमस्मि ॥ ८ ॥
यदन्तर्बहिर्व्यापकं नित्यशुद्धंयदेकं सदा सच्चिदानन्दकन्दम् ।यतः स्थूलसूक्ष्मप्रपञ्चस्य भानंयतस्तत्प्रसूतिस्तदेवाहमस्मि ॥ ९ ॥
यदर्केन्दुविद्युत्प्रभाजालमाला-विलासास्पदं यत्स्वभेदादिशून्यम् ।समस्तं जगद्यस्य पादात्मकं स्था-द्यतः शक्तिभानं तदेवाहमस्मि ॥ १० ॥
यतः कालमृत्युर्बिभेति प्रकामंयतश्चित्तबुद्धीन्द्रियाणां विलासः ।हरिब्रह्मरुद्रेन्द्रचन्द्रादिनाम-प्रकाशो यतः स्यात्तदेवाहमस्मि ॥ ११ ॥
यदाकाशवत्सर्वगं शान्तरूपंपरं ज्योतिराकारशून्यं वरेण्यम् ।यदाद्यन्तशून्यं परं शंकराख्यंयदन्तर्विभाव्यं तदेवाहमस्मि ॥ १२ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ निर्वाणमञ्जरी संपूर्णा ॥

Settings