मन्त्रमातृकापुष्पमालास्तवः

कल्लोलोल्लसितामृताब्धिलहरीमध्ये विराजन्मणि-द्वीपे कल्पकवाटिकापरिवृते कादम्बवाट्युज्ज्वले ।रत्नस्तम्भसहस्रनिर्मितसभामध्ये विमानोत्तमेचिन्तारत्नविनिर्मितं जननि ते सिंहासनं भावये ॥ १ ॥
एणाङ्कानलभानुमण्डललसच्छ्रीचक्रमध्ये स्थितांबालार्कद्युतिभासुरां करतलैः पाशाङ्कुशौ बिभ्रतीम् ।चापं वाणमपि प्रसन्नवदनां कौसुम्भवस्त्रान्वितांतां त्वां चन्द्रकलावतंसमकुटां चारुस्मितां भावये ॥ २ ॥
ईशानादिपदं शिवैकफलदं रत्नासनं ते शुभंपाद्यं कुङ्कुमचन्दनादिभरितैरर्घ्यं सरत्नाक्षतैः ।शुद्धैराचमनीयकं तव जलैर्भक्त्या मया कल्पितंकारुण्यामृतवारिधे तदखिलं संतुष्टये कल्पताम् ॥ ३ ॥
लक्ष्ये योगिजनस्य रक्षितजगज्जाले विशालेक्षणेप्रालेयाम्बुपटीरकुङ्कुमलसत्कर्पूरमिश्रोदकैः ।गोक्षीरैरपि नारिकेलसलिलैः शुद्धोदकैर्मन्त्रितैःस्नानं देवि धिया मयैतदखिलं संतुष्टये कल्पताम् ॥ ४ ॥
ह्रींकाराङ्कितमन्त्रलक्षिततनो हेमाचलात्संचितैरत्नैरुज्ज्वलमुत्तरीयसहितं कौसुम्भवर्णांशुकम् ।मुक्तासंततियज्ञसूत्रममलं सौवर्णतन्तूद्भवंदत्तं देवि धिया मयैतदखिलं संतुष्टये कल्पताम् ॥ ५ ॥
हंसैरप्यतिलोभनीयगमने हारावलीमुज्ज्वलांहिन्दोलद्युतिहीरपूरिततरे हेमाङ्गदे कङ्कणे ।मञ्जीरौ मणिकुण्डले मकुटमप्यर्धेन्दुचूडामणिंनासामौक्तिकमङ्गुलीयकटकौ काञ्चीमपि स्वीकुरु ॥ ६ ॥
सर्वाङ्गे घनसारकुङ्कुमघनश्रीगन्धपङ्काङ्कितंकस्तूरीतिलकं च फालफलके गोरोचनापत्रकम् ।गण्डादर्शनमण्डले नयनयोर्दिव्याञ्जनं तेऽञ्चितंकण्ठाब्जे मृगनाभिपङ्कममलं त्वत्प्रीतये कल्पताम् ॥ ७ ॥
कह्लारोत्पलमल्लिकामरुवकैः सौवर्णपङ्केरुहै-र्जातीचम्पकमालतीवकुलकैर्मन्दारकुन्दादिभिः ।केतक्या करवीरकैर्बहुविधैः कॢप्ताः स्रजो मालिका:संकल्पेन समर्पयामि वरदे संतुष्टये गृह्यताम् ॥ ८ ॥
हन्तारं मदनस्य नन्दयसि यैरङ्गैरनङ्गोज्ज्वलै-र्यैर्भृङ्गावलिनीलकुन्तलभरैर्बध्नासि तस्याशयम् ।तानीमानि तवाम्ब कोमलतराण्यामोदलीलागृहा-ण्यामोदाय दशाङ्गगुग्गुलुघृतैर्धूपैरहं धूपये ॥ ९ ॥
लक्ष्मीमुज्ज्वलयामि रत्ननिवहोद्भास्वत्तरे मन्दिरेमालारूपविलम्बितैर्मणिमयस्तम्भेषु संभावितैः ।चित्रैर्हाटकपुत्रिकाकरधृतैर्गव्यैर्घृतैर्वर्धितै-र्दिव्यैर्दीपगणैर्धिया गिरिसुते संतुष्टये कल्पताम् ॥
ह्रींकारेश्वरि तप्तहाटककृतैः स्थालीसहस्रैर्भृतंदिव्यान्नं घृतसूपशाकभरितं चित्रान्नभेदं तथा ।दुग्धान्नं मधुशर्करादधियुतं माणिक्यपात्रे स्थितंमाषापूपसहस्रमम्ब सफलं नैवेद्यमावेदये ॥ ११ ॥
सच्छायैर्वरकेतकीदलरुचा ताम्बूलवल्लीदलै:पूगैर्भूरिगुणैः सुगन्धिमधुरैः कर्पूरखण्डोज्ज्वलैः ।मुक्ताचूर्णविराजितैर्बहुविधैर्वक्त्राम्बुजामोदनैःपूर्णा रत्नकलाचिका तव मुदे न्यस्ता पुरस्तादुमे ॥ १२ ॥
कन्याभिः कमनीयकान्तिभिरलंकारामलारार्तिकापात्रे मौक्तिकचित्रपङ्क्तिविलसत्कर्पूरदीपालिभिः ।तत्तत्तालमृदङ्गगीतसहितं नृत्यत्पदाम्भोरुहंमन्त्राराधनपूर्वकं सुविहितं नीराजनं गृह्यताम् ॥
लक्ष्मीर्मौक्तिकलक्षकल्पितसितच्छत्रं तु धत्ते रसा-दिन्द्राणी च रतिश्च चामरवरे धत्ते स्वयं भारती ।वीणामेणविलोचनाः सुमनसां नृत्यन्ति तद्रागव-द्भावैराङ्गिकसात्त्विकैः स्फुटरसं मातस्तदाकर्ण्यताम् ॥
ह्रींकारत्रयसंपुटेन मनुनोपास्ये त्रयीमौलिभि-र्वाक्यैर्लक्ष्यतनो तव स्तुतिविधौ को वा क्षमेताम्बिके ।सल्लापाः स्तुतयः प्रदक्षिणशतं संचार एवास्तु तेसंवेशो नमसः सहस्रमखिलं त्वत्प्रीतये कल्पताम् ॥
श्रीमन्त्राक्षरमालया गिरिसुतां यः पूजयेच्चेतसासंध्यासु प्रतिवासरं सुनियतस्तस्यामलं स्यान्मनः ।चित्ताम्भोरुहमण्टपे गिरिसुता नृत्तं विधत्ते रसा-द्वाणी वक्रसरोरुहे जलधिजा गेहे जगन्मङ्गला ॥ १६ ॥
इति गिरिवरपुत्रीपादराजीवभूषाभुवनममलयन्ती सूक्तिसौरभ्यसारैः ।शिवपदमकरन्दस्यन्दिनीयं निबद्धामदयतु कविभृङ्गान्मातृकापुष्पमाला ॥ १७ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ मन्त्रमातृकापुष्पमालास्तवः संपूर्णः ॥

Settings