कालीमेधादीक्षितोपनिषत्

अथाह वै देवानां पत्नीं भजते । तस्योपासकोऽन्यां गच्छन् ॐ अथैनां मेधादीक्षितरूपिणीं भावयेत् । स शिवो भवेत् । स कालीरूपो भवेत् । सोऽयं मेधास्पर्शमणिकालीं दीक्षयेत् । ततश्चिन्तामणिकालीं दीक्षयेत् । ततः सिद्धकाल्यधिकारी भवेत् । ततो विद्याराज्ञीं जपेत् । ततः कामकलाकालीं परारूपिणीं जपेत् । ततश्चरणदीक्षारूपिणीं हंसकालीं यजेत् । रक्तशुक्लमिश्रनिर्वाणरूपिणीं यजेत् । सर्वनिर्वाणदीक्षितो भवेत् । ततः शाम्भवीदीक्षितो भवेत् । गुह्यकाल्यधिष्ठितो भवेत् । शिवो भवेत् । स परारूपो भवेत् । परात् पररूपो भवेत् । परात् परातीतरूपो भवेत् । चित्परारूपो भवेत् । चित्परात् परारूपो भवेत् । चित्परात् परातीतरूपो भवेत् । ब्रह्मविष्णुरुद्रेश्वरसदाशिवमहाकालचित्परायारूपो भवेत् । स ब्रह्मत्वं गच्छति । मेधादीक्षां लभेत् । मेधादीक्षातः परा दीक्षा न विद्यत इत्याह भगवान् शिवः । स्पर्शविद्यया देहशुद्धिर्भवेत् । ततश्चिन्तामणिविद्याधिकारी विद्याराज्ञीं लभेत् । विद्याराज्ञ्यधिकारी तु षोढां जपेत् । तुर्याषोढाधिकारी कामकलां जपेत् । कामकलाधिकारी चरणरूपिणीं जपेत् । हंसदीक्षितो भवेत् । चरणाधिकारी षट्छाम्भवसंपन्नो भवेत् । गुह्यकाल्यधिष्ठितो भवेत् । ततो मेधां चरेत् । जीवको हि भृङ्गत्वं गच्छति । भृङ्गीभूत्वा पट् चक्राणि निर्भिन्द्यात् । ततः परागभुग्भवेत् । परकायप्रवेशवान् वयस्स्थैर्यं चरेत् । कामरूपत्वं गच्छति । षष्टिसिद्धीश्वरो भवेदिति शिवप्रोक्तं वेद ॥
इत्याथर्वणे सौभाग्यकाण्डे कालीमेधादीक्षितोपनिषत् समाप्ता

Settings