गुह्यकाल्युपनिषत्

अथर्ववेदमध्ये तु शाखा मुख्यतमा हि षट् ।स्वयंभुवा याः कथिताः पुत्रायाथर्वण पुरा ॥ १ ॥
तासु गुद्योपनिषदस्तिष्ठन्ति वरवर्णिनि ।नामानि शृणु शाखानां तत्राद्या वारतन्तवी ॥ २ ॥
मौञ्जायनी द्वितीया तु तृतीया तार्णबैन्दवी ।चतुर्थी शौनकी प्रोक्ता पञ्चमी पैप्पलादिका ॥ ३ ॥
षष्ठी सौमन्तवी ज्ञेया सारात् सारतमा इमाः ।गुह्योपनिषदो गूढाः सन्ति शाखासु षट्स्वपि ॥ ४ ॥
ता एकीकृत्य सर्वास्तु मयाऽस्यां विनिवेशिताः ।संहितायां साधकानामुद्धाराय वरानने ॥ ५ ॥
तास्ते वदामि यत् प्रोक्तं ध्यानं कुर्वन्ति देवताः ।विराट्ध्यानं हि तज्ज्ञेयं महापातकनाशनम् ॥ ६ ॥
ब्रह्माण्डाद्बहिरूर्ध्वं हि महत्तत्त्वमहङ्कृतिः ।रूपाणि पञ्च तन्मात्राः पुरुषः प्रकृतिर्नव ॥ ७ ॥
महापातालपादान्तलम्बा तम्या जयं स्मरेत् ।ब्रह्माण्डार्धं कपालं हि शिरस्तस्या विभावयेत् ॥ ८ ॥
देवलोको ललाटं च षट्त्रिंशल्लक्षयोजनम् ।मेरुः सीमन्तदण्डोऽस्या ग्रहरत्नसमाकुलः ॥ ९ ॥
अन्तर्वीथी नागवीथी भ्रुवावस्याः प्रकीर्तिते ।शिवलोकश्च वैकुण्ठलोकः कर्णावुभौ मतौ ॥ १० ॥
लोहितं तिलकं ध्यायेन्नासा मन्दाकिनी तथा ।चक्षुषी चन्द्रसूर्यौ च पक्ष्माणि किरणास्तथा ॥ ११ ॥
गण्डौ स्यातां तपोलोकसत्यलोको यथाक्रमम् ।जनोलोकमहर्लोको कपोलौ परिकीर्तितौ ॥ १२ ॥
स्यातां हिमाद्रिकैलासौ तस्या देव्यास्तु कुण्डले ।स्वर्लोकश्च भुवर्लोको देव्या ओष्ठाधरौ मतौ ॥ १३ ॥
दिक्पतीनां ग्रहाणां च लोकाश्चाथ रदावली ।गन्धर्वसिद्धसाध्यानां पितृकिन्निररक्षसाम् ॥ १४ ॥
पिशाचयक्षाप्सरसां मरीचीयायिनां तथा ।विद्याधराणामाज्योप्मपाणां सोमैकपायिनाम् ॥ १५ ॥
सप्तर्षीणां ध्रुवस्यापि लोका ऊर्ध्वरदावली ।मुखं च रोदसी ज्ञेयं द्यौर्लोकश्चिबुकं तथा ॥ १६ ॥
ब्रह्मलोको गलः प्रोक्तो वायवः प्राणरूपिणः ।वनस्पतय ओपध्यो लोमानि परिचक्षते ॥ १७ ॥
विद्युद्दृष्टिरहोरात्रं निमेषोन्मेषसंज्ञकम् ।विश्वं तु हृदयं प्रोक्तं पृथिवी पाठ उच्यते ॥ १८ ॥
तलं तलातलं चैव पातालं सुतलं तथा ।रसातलं नागलोकाः पादाङ्गुल्यः प्रकीर्तिताः ॥ १९ ॥
वेदा वाचः स्यन्दमाना नदा नद्योऽमिता मताः ।कलाः काष्ठा मुहूर्ताश्च ऋतवोऽयनमेव च ॥ २० ॥
पक्षा मासास्तथा चाव्दाश्चत्वारोऽपि युगाः प्रिये ।कफोणिर्मणिबन्धश्च तदूरुकटिबन्धनाः ॥ २१ ॥
प्रपदाश्च स्फिचश्चैव सर्वाङ्गानि प्रचक्षते ।वैश्वानरः कालमृत्युर्जिह्वात्रयमिदं स्मृतम् ॥ २२ ॥
आब्रह्मस्तम्बपर्यन्तं तनुमस्याः प्रचक्षते ।प्रलयो भोजने कालस्तृप्तिस्तेन च नासिका ॥ २३ ॥
ज्ञेयः पार्श्वपरीवर्तो महाकल्पान्तरोद्भवः ।विराड्रूपस्य ते ध्यानमिति संक्षेपतोऽर्पितम् ॥ २४ ॥
तस्याः स्वरूपविज्ञानं सपर्या परिकीर्तिता ।तदेव हि श्रुतिप्रोक्तमवधारय पार्वति ॥ २५ ॥
यथोर्णनाभिः सूत्राणि सृजत्यपि गिलत्यपि ।यथा पृथिव्यामोषध्यः संभवन्ति गिलन्त्यपि ॥ २६ ॥
पुरुषात् केशलोमानि जायन्ते च क्षरन्त्यपि ।उत्पद्यन्ते विलीयन्ते तथा तस्यां जगत्यपि ॥ २७ ॥
ज्वलतः पावकाद्यद्वत् स्फुलिङ्गाः कोटिकोटिशः ।निर्गत्य च विनश्यन्ति विश्वं तस्यास्तथा प्रिये ॥ २८ ॥
ऋचो यजूंषि सामानि दीक्षा यज्ञाः सदक्षिणाः ।अध्वर्युर्यजमानश्च भुवनानि चतुर्दश ॥ २९ ॥
ब्रह्मविष्ण्वादिका देवा मनुष्याः पशवो यतः ।प्राणापानौ व्रीहयश्च सत्यं श्रद्धा विधिस्तपः ॥ ३० ॥
समुद्रा गिरयो नद्यः सर्वे स्थावरजङ्गमाः ।विसृज्येमानि सर्गादौ त्वं प्रकाशयसे ततः ॥ ३१ ॥
जङ्गमानि विधायान्धे विशत्यप्रतिभूतकम् ।नवद्वारं पुरं कृत्वा गवाक्षाणीन्द्रियाण्यपि ॥ ३२ ॥
सा पश्यत्यत्ति वहति स्पृशति क्रीडतीच्छति ।शृणोति जिघ्रति तथा रमते विरमत्यपि ॥ ३३ ॥
तया मुक्तं पुरं तद्धि मृतमित्यभिधीयते ॥ ३४ ॥
ये तपः क्षीणदोषास्ते नैव पश्यन्ति भाविताम् ।ज्योतिर्मयीं शरीरेऽन्तर्ध्यायमानां महात्मभिः ॥ ३५ ॥
बृहच्च तद्दिव्यमचिन्त्यरूपंसूक्ष्माच्च तत् सूक्ष्मतरं विभाति ।दूरात् सुदूरे तदिहास्ति किञ्चित्पश्येत्त्वहैतन्निहितं गुहायाम् ॥ ३६ ॥
न चक्षुषा गृह्यते नापि वाचानान्यैर्योगैर्न हि सा कर्मणा वा ।ज्ञानप्रसादेन विशुद्धसत्त्वःततस्तु तां पश्यति निष्कलां च ॥ ३७ ॥
यथा नद्यः स्यन्दमानाः समुद्रेगच्छन्त्यस्तं नामरूपे विहाय ।तथा विद्वान् नामरूपाद्विमुक्त:परात् परां जगदम्बामुपैति ॥ ३८ ॥
सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति ।यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण ब्रवीमि ॥ ३९ ॥
सैवैतत् ॥
एषैवालम्बनं श्रेष्ठं सैषैवालम्बनं परम् ।एषैवालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥ ४० ॥
इन्द्रियेभ्यः परा ह्यर्था ह्यर्थेभ्यश्च परं मनः ।मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् परः ॥ ४९ ॥
महतः परमव्यक्तमव्यक्तात् पुरुषः परः ।पुरुषात्तु परा देवी सा काष्ठा सा परा गतिः ॥ ४२ ॥
यथोदकं गिरौ सृष्टं समुद्रेषु विधावति ।एवं धर्मान् पृथक् पश्यंस्तामेवानुविधावति ॥ ४३ ॥
एका गुह्या सर्वभूतान्तरात्माएकं रूपं बहुधा या करोति ।तामात्मस्थां येऽनुपश्यन्ति धीराःतेषां सुखं शाश्वतं नेतरेषाम् ॥ ४४ ॥
न तत्र सूर्यो भाति न चन्द्रतारकंनेमा विद्युतो भान्ति कुतोऽयमग्निः ।तामेव भान्तीमनुभाति सर्वंतस्या भासा सर्वमिदं विभाति ॥ ४५ ॥
यस्याः परं नापरमस्ति किञ्चित्यस्या नाणीयो न ज्यायोऽस्ति किञ्चित् ।वृक्ष इव स्तब्धा दिवि तिष्ठत्येकायदन्तः पूर्णामवगत्य पूर्णः ॥ ४६ ॥
सर्वाननशिरोग्रीवा सर्वभृतगुहाशया ।सर्वत्रस्था भगवती तस्मात् सर्वगता शिवा ॥ ४७ ॥
सर्वतः पाणिपादान्ता सर्वतोऽक्षिशिरोमुखा ।सर्वतः श्रुतिमत्येषा सर्वमावृत्य तिष्ठति ॥ ४८ ॥
सर्वेन्द्रियगुणाभासा सर्वेन्द्रियविवर्जिता ।सर्वेषां प्रभुरीशानी सर्वेषां शरणं सुहृत् ॥ ४९ ॥
नवद्वारे पुरे देवी हंसी लीलायतां बहिः ।ध्येया सर्वस्य लोकस्य स्थावरस्य चरस्य च ॥ ५० ॥
अपाणिपादा जननी ग्रहीत्रीपश्यत्यचक्षुः सा शृणोत्यकर्णा ।मा वेत्ति वेद्यं न च तस्यास्तु वेत्तानामाहुरग्र्यां महतीं महीयसी ॥ ५१ ॥
सा चैवाग्निः सा च सूर्यः सा वायुः सा च चन्द्रमाः ।सा चैव शुक्रः सा ब्रह्म सा चापः सा प्रजापतिः ।सा चैव स्त्री सा च पुमान् सा कुमारः कुमारिका ॥ ५२ ॥
ऋचो अक्षरे परमे व्योमन्यस्यां देवा अधिरुद्रा निषेदुः ।यस्तां न वेद किमृचा करिष्यतिये तां विदुस्त इमे समासते ॥ ५३ ॥
छन्दांसि यज्ञाः क्रतवो व्रतानिभृतं भव्यं यच्च वेदा वदन्ति ।सर्वं देवी सृजते विश्वमेतत्तस्याश्चान्यो मायया संनिरुद्धः ॥ ५४ ॥
मायां तु प्रकृतिं विद्यात् प्रभुं तस्या महेश्वरीम् ।अस्या अवयवैः सूक्ष्मैर्व्याप्तं सर्वमिदं जगत् ॥ ५५ ॥
या देवानां प्रभवा चोद्भवा चविश्वाधिपा सर्वभूतेषु गूढा ।हिरण्यगर्भं जनयामास पूर्वंसा नो बुद्ध्या शुभया संयुनक्तु ॥ ५६ ॥
सूक्ष्मातिसूक्ष्मं सलिलस्य मध्येविश्वस्य स्रष्ट्रीमनेकाननाख्याम् ।विश्वस्य चैकां परिवेष्टयित्रींज्ञात्वा गुह्यां शान्तिमत्यन्तमेति ॥ ५७ ॥
सा ह्येव काले भुवनस्य गोप्त्रीविश्वाधिपा सर्वभूतेषु गूढा ।यस्यां मुक्ता ब्रह्मर्षयोऽपि देवाःज्ञात्वा तां मृत्युपाशाञ्छिनत्ति ॥ ५८ ॥
घृतात् परं मण्डमिवातिसूक्ष्मंज्ञात्वा कालीं सर्वभूतेषु गूढाम् ।कल्पान्ते वै सर्वसंहारकर्त्रींज्ञात्वा गुह्यां मुच्यते सर्वपापैः ॥ ५९ ॥
एषा देवी विश्वयोनिर्महात्मासदा जनानां हृदि सन्निविष्टा ।हृदा मनीषा मनसाभिकॢप्ताये तां विदुरमृतास्ते भवन्ति ॥ ६० ॥
यदा तमस्तत्र दिवा न रात्रिःन सन्न चासद्भगवत्येव गुह्या ।तदक्षरं तत्सवितुर्वरेण्यंप्रज्ञा च तस्याः प्रसृता परा सा ॥ ६१ ॥
नैनामूर्ध्वं न तिर्यक् च न मध्यं परिजग्रभत् ।न तस्या: प्रतिमाभिश्च तस्या नाम महद्यशः ॥ ६२ ॥
न संदृशे तिष्ठति रूपमस्याःन चक्षुषा पश्यति कश्चिदेनाम् ।हृदा मनीषा मनसाभिकॢप्तांय एनां विदुरमृतास्ते भवन्ति ॥ ६३ ॥
भूयश्च सृष्ट्वा त्रिदशानथेशीसर्वाधिपत्यं कुरुते भवानी ।सर्वा दिशश्चोर्ध्वमधश्च तिर्यक्प्रकाशयन्ती भ्राजते गुह्यकाली ॥ ६४ ॥
नैव स्त्री न पुमानेषा नैव चेयं नपुंसका ।यद्यच्छरीरमादत्ते तेन तेनैव युज्यते ॥ ६५ ॥
धर्मावहां पापनुदां भगेशींज्ञात्वात्मस्थाममृतां विश्वमातरम् ।तामीश्वराणां परमां महेश्वरींतां देवतानां परदेवतां च ।पतिं पतीनां परमां पुरस्तात्विद्यावतां गुह्यकालीं मनीषाम् ॥ ६६ ॥
तस्या न कार्यं करणं च विद्यतेन तत्समा चाप्यधिका च दृश्यते ।परास्याः शक्तिर्विविधैव श्रूयतेस्वाभाविकी ज्ञानबलक्रिया च ॥ ६७ ॥
कश्चिन्न तस्याः पतिरस्ति लोकेन चेशिता नैव तस्याश्च लिङ्गम् ।सा कारणं कारणकारणाधिपानास्याश्च कचिज्जनिता न चाधिपः ॥ ६८ ॥
एका देवी सर्वभूतेषु गूढाव्याप्नोत्येतत् सर्वभृतान्तरस्था ।कर्माध्यक्षा सर्वभूताधिवासासाक्षिण्येषा केवला निर्गुणा च ॥ ६९ ॥
वशिन्येका निष्क्रियाणां बहूनांएकं बीजं बहुधा या करोति ।नानारूपा दशवक्त्रं विधत्तेनानारूपान् या च बाहुन् बिभर्ति ॥ ७० ॥
नित्या नित्यानां चेतना चेतनानांएका बहूनां विदधाति कामान् ।तत्कारणं साङ्ख्ययोगाधिगम्यंज्ञात्वा देवीं मुच्यते सर्वपाशैः ॥ ७१ ॥
या वै विष्णुं पालने संनियुङ्क्तेरुद्रं देवं संहृतौ चापि गुह्या ।तां वै देवीमात्मबुद्धिप्रकाशांमुमुक्षुर्वै शरणमहं प्रपद्ये ॥ ७२ ॥
निष्कलां निष्क्रियां शान्तां निरवद्यां निरञ्जनाम् ।बह्वाननकरां देवीं गुह्यामेकां समाश्रये ॥ ७३ ॥
इयं हि गुह्योपनिपत् सुगूढाया ब्रह्मा देवता विश्वयोनिः ।एतां जपंश्चान्वहं भक्तियुक्तःसत्यं सत्यं ह्यमृतः संबभूव ॥ ७४ ॥
वेदवेदान्तयोर्गुह्यं पुराकल्पे प्रचोदितम् ।नाप्रशान्ताय दातव्यं नाशिष्याय च वै पुनः ॥ ७५ ॥
यस्य देव्यां परा भक्तिर्यथा देव्यां तथा गुरौ ।तस्यैते कथिता ह्यर्थाः प्रकाशन्तं महात्मनः ॥ ७६ ॥
महाकाल उवाच ---
गुह्योपनिपदित्येषा गोप्यात् गोप्यतरा सदा ।चतुर्भ्यश्चापि वेदेभ्य एकीकृत्यात्र योजिता ॥ ७७ ॥
उपदिष्टा च सर्गादौ सर्वानिव दिवौकसः ।एवंविधं च यद्ध्यानमेवंरूपं च कीर्तितम् ॥ ७८ ॥
सा सपर्या परिज्ञेया विधानमधुना शृणु ।सोऽहमस्मीति प्रथमं सोऽहमस्मि द्वितीयकम् ॥ ७९ ॥
तदस्म्यहं तृतीयं च महावाक्यत्रयं भवेत ।आद्यान्येतानि वाक्यानि छन्दांसि परिचक्षते ॥ ८० ॥
देवता गुह्यकाली च रजःसत्त्वतमोगुणाः ।सर्वेषां प्रणवो बीजं हंसः शक्तिः प्रकीर्तिता ॥ ८१ ॥
मकारश्चाप्यकारश्च ह्युकारश्चेति कीलकम् ।एभिर्वाक्यत्रयैः सर्वं कर्म प्रोतं विधानतः ॥ ८२ ॥
अनुक्षणं जपंश्चैव निश्चयः परिकीर्तितः ।द्वितीयोपासकानां हि परिपाटीयमीरिता ॥ ८३ ॥
एवं चाप्यातुरो यस्तु मनुष्यो भक्तिभावितः ।विमुक्तः सर्वपापेभ्यः कैवल्यायोपकल्पते ।सर्वाभिः सिद्धिभिस्तस्य किं कार्यं कमलानने ॥ ८४ ॥
इति श्रीमहाकालसंहितायां गुह्यकाल्युपनिषत् समाप्ता

Settings