धन्याष्टकम्

तज्ज्ञानं प्रशमकरं यदिन्द्रियाणांतज्ज्ञेयं यदुपनिषत्सुनिश्चितार्थम् ।ते धन्या भुवि परमार्थनिश्चितेहाःशेषास्तु भ्रमनिलये परिभ्रमन्तः ॥ १ ॥
आदौ विजित्य विषयान्मदमोहराग-द्वेषादिशत्रुगणमाहृतयोगराज्याः ।ज्ञात्वा मतं समनुभूय परात्मविद्या-कान्तासुखं वनगृहे विचरन्ति धन्याः ॥ २ ॥
त्यक्त्वा गृहे रतिमधोगतिहेतुभूता-मात्मेच्छयौपनिषदर्थरसं पिबन्तः ।वीतस्पृहा विषयभोगपदे विरक्ताधन्याश्चरन्ति विजनेषु विरक्तसङ्गाः ॥ ३ ॥
त्यक्त्वा ममाहमिति बन्धकरे पदे द्वेमानावमानसदृशाः समदर्शिनश्च ।कर्तारमन्यमवगम्य तदर्पितानिकुर्वन्ति कर्मपरिपाकफलानि धन्याः ॥ ४ ॥
त्यक्त्वैषणात्रयमवेक्षितमोक्षमार्गाभैक्षामृतेन परिकल्पितदेहयात्राः ।ज्योतिः परात्परतरं परमात्मसंज्ञंधन्या द्विजा रहसि हृद्यवलोकयन्ति ॥ ५ ॥
नासन्न सन्न सदसन्न महन्न चाणुन स्त्री पुमान्न च नपुंसकमेकबीजम् ।यैर्ब्रह्म तत्समनुपासितमेकचित्तै-र्धन्या विरेजुरितरे भवपाशबद्धाः ॥ ६ ॥
अज्ञानपङ्कपरिमग्नमपेतसारंदुःखालयं मरणजन्मजरावसक्तम् ।संसारबन्धनमनित्यमवेक्ष्य धन्याज्ञानासिना तदवशीर्य विनिश्चयन्ति ॥ ७ ॥
शान्तैरनन्यमतिभिर्मधुरस्वभावै-रेकत्वनिश्चितमनोभिरपेतमोहैः ।साकं वनेषु विदितात्मपदस्वरूपंतद्वस्तु सम्यगनिशं विमृशन्ति धन्याः ॥ ८ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ धन्याष्टकं संपूर्णम् ॥

Settings