भवानीभुजंगम्

षडाधारपङ्केरुहान्तर्विराज-त्सुषुम्नान्तरालेऽतितेजोल्लसन्तीम् ।सुधामण्डलं द्रावयन्तीं पिबन्तींसुधामूर्तिमीडे चिदानन्दरूपाम् ॥ १ ॥
ज्वलत्कोटिबालार्कभासारुणाङ्गींसुलावण्यशृङ्गारशोभाभिरामाम् ।महापद्मकिञ्जल्कमध्ये विराज-त्त्रिकोणे निषण्णां भजे श्रीभवानीम् ॥ २ ॥
कणत्किङ्किणीनूपुरोद्भासिरत्न-प्रभालीढलाक्षार्द्रपादाब्जयुग्मम् ।अजेशाच्युताद्यैः सुरैः सेव्यमानंमहादेवि मन्मूर्ध्नि ते भावयामि ॥ ३ ॥
सुशोणाम्बराबद्धनीवीविराज-न्महारत्नकाञ्चीकलापं नितम्बम् ।स्फुरद्दक्षिणावर्तनाभिं च तिस्रोवलीरम्ब ते रोमराजिं भजेऽहम् ॥ ४ ॥
लसद्वृत्तमुत्तुङ्गमाणिक्यकुम्भो-पमश्रि स्तनद्वन्द्वमम्बाम्बुजाक्षि ।भजे दुग्धपूर्णाभिरामं तवेदंमहाहारदीप्तं सदा प्रस्तुतास्यम् ॥ ५ ॥
शिरीषप्रसूनोल्लसद्बाहुदण्डै-र्ज्वलद्बाणकोदण्डपाशाङ्कुशैश्च ।चलत्कङ्कणोदारकेयूरभूषो-ज्ज्वलद्भिर्लसन्तीं भजे श्रीभवानीम् ॥ ६ ॥
शरत्पूर्णचन्द्रप्रभापूर्णबिम्बा-धरस्मेरवक्त्रारविन्दां सुशान्ताम् ।सुरत्नावलीहारताटङ्कशोभांमहासुप्रसन्नां भजे श्रीभवानीम् ॥ ७ ॥
सुनासापुटं सुन्दरभ्रूललाटंतवौष्ठश्रियं दानदक्षं कटाक्षम् ।ललाटे लसद्गन्धकस्तूरिभूषंस्फुरच्छ्रीमुखाम्भोजमीडेऽहमम्ब ॥ ८ ॥
चलत्कुन्तलान्तर्भ्रमद्भृङ्गबृन्दंवनस्निग्धधम्मिल्लभूषोज्ज्वलं ते ।स्फुरन्मौलिमाणिक्यबद्धेन्दुरेखा-विलासोल्लसद्दिव्यमूर्धानमीडे ॥ ९ ॥
इति श्रीभवानि स्वरूपं तवेदंप्रपञ्चात्परं चातिसूक्ष्मं प्रसन्नम् ।स्फुरत्वम्ब डिम्भस्य मे हृत्सरोजेसदा वाङ्मयं सर्वतेजोमयं च ॥ १० ॥
गणेशाभिमुख्याखिलैः शक्तिबृन्दै-र्वृतां वै स्फुरच्चक्रराजोल्लसन्तीम् ।परां राजराजेश्वरि त्रैपुरि त्वांशिवाङ्कोपरिस्थां शिवां भावयामि ॥ ११ ॥
त्वमर्कस्त्वमिन्दुस्त्वमग्निस्त्वमाप-स्त्वमाकाशभूवायवस्त्वं महत्त्वम् ।त्वदन्यो न कश्चित्प्रपञ्चोऽस्ति सर्वंत्वमानन्दसंवित्स्वरूपां भजेऽहम् ॥ १२ ॥
श्रुतीनामगम्ये सुवेदागमज्ञामहिम्नो न जानन्ति पारं तवाम्ब ।स्तुतिं कर्तुमिच्छामि ते त्वं भवानिक्षमस्वेदमत्र प्रमुग्धः किलाहम् ॥ १३ ॥
गुरुस्त्वं शिवस्त्वं च शक्तिस्त्वमेवत्वमेवासि माता पिता च त्वमेव ।त्वमेवासि विद्या त्वमेवासि बन्धु-गतिर्मे मतिर्देवि सर्वं त्वमेव ॥ १४ ॥
शरण्ये वरेण्ये सुकारुण्यमूर्तेहिरण्योदराद्यैरगण्ये सुपुण्ये ।भवारण्यभीतेश्च मां पाहि भद्रेनमस्ते नमस्ते नमस्ते भवानि ॥ १५ ॥
इतीमां महच्छ्रीभवानीभुजंगंस्तुतिं यः पठेद्भक्तियुक्तश्च तस्मै ।स्वकीयं पदं शाश्वतं वेदसारंश्रियं चाष्टसिद्धिं भवानी ददाति ॥ १६ ॥
भवानी भवानी भवानी त्रिवार-मुदारं मुदा सर्वदा ये जपन्ति ।न शोकं न मोहं न पापं न भीतिःकदाचित्कथंचित्कुतश्चिज्जनानाम् ॥ १७ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ भवानीभुजंगं संपूर्णम् ॥

Settings