आत्मबोधः

तपोभिः क्षीणपापानां शान्तानां वीतरागिणाम् ।मुमुक्षूणामपेक्ष्योऽयमात्मबोधो विधीयते ॥ १ ॥
बोधोऽन्यसाधनेभ्यो हि साक्षान्मोक्षैकसाधनम् ।पाकस्य वह्निवज्ज्ञानं विना मोक्षो न सिध्यति ॥ २ ॥
अविरोधितया कर्म नाविद्यां विनिवर्तयेत् ।विद्याविद्यां निहन्त्येव तेजस्तिमिरसंघवत् ॥ ३ ॥
अवच्छिन्न इवाज्ञानात्तन्नाशे सति केवलः ।स्वयं प्रकाशते ह्यात्मा मेघापायेंऽशुमानिव ॥ ४ ॥
अज्ञानकलुषं जीवं ज्ञानाभ्यासाद्विनिर्मलम् ।कृत्वा ज्ञानं स्वयं नश्येज्जलं कतकरेणुवत् ॥ ५ ॥
संसारः स्वप्नतुल्यो हि रागद्वेषादिसंकुलः ।स्वकाले सत्यवद्भाति प्रबोधे सत्यसद्भवेत् ॥ ६ ॥
तावत्सत्यं जगद्भाति शुक्तिकारजतं यथा ।यावन्न ज्ञायते ब्रह्म सर्वाधिष्ठानमद्वयम् ॥ ७ ॥
उपादानेऽखिलाधारे जगन्ति परमेश्वरे ।सर्गस्थितिलयान्यान्ति बुद्बुदानीव वारिणि ॥ ८ ॥
सच्चिदात्मन्यनुस्यूते नित्ये विष्णौ प्रकल्पिताः ।व्यक्तयो विविधाः सर्वा हाटके कटकादिवत् ॥ ९ ॥
यथाकाशो हृषीकेश नानोपाधिगतो विभुः ।तद्भेदाद्भिन्नवद्भाति तन्नाशे केवलो भवेत् ॥ १० ॥
नानोपाधिवशादेव जातिनामाश्रमादयः ।आत्मन्यारोपितास्तोये रसवर्णादिभेदवत् ॥ ११ ॥
पञ्चीकृतमहाभूतसंभवं कर्मसंचितम् ।शरीरं सुखदुःखानां भोगायतनमुच्यते ॥ १२ ॥
पञ्चप्राणमनोबुद्धिदशेन्द्रियसमन्वितम् ।अपञ्चीकृतभूतोत्थं सूक्ष्माङ्गं भोगसाधनम् ॥ १३ ॥
अनाद्यविद्यानिर्वाच्या कारणोपाधिरुच्यते ।उपाधित्रितयादन्यमात्मानमवधारयेत् ॥ १४ ॥
पञ्चकोशादियोगेन तत्तन्मय इव स्थितः ।शुद्धात्मा नीलवस्त्रादियोगेन स्फटिको यथा ॥ १५ ॥
वपुस्तुषादिभिः कोशैर्युक्तं युक्त्यवघाततः ।आत्मानमान्तरं शुद्धं विविञ्च्यात्तण्डुलं यथा ॥ १६ ॥
सदा सर्वगतोऽप्यात्मा न सर्ववावभासते ।बुद्धावेवावभासेत स्वच्छेषु प्रतिबिम्बवत् ॥ १७ ॥
देहेन्द्रियमनोबुद्धिप्रकृतिभ्यो विलक्षणम् ।तद्वृत्तिसाक्षिणं विद्यादात्मानं राजवत्सदा ॥ १८ ॥
व्यापृतेष्विन्द्रियेष्वात्मा व्यापारीवाविवेकिनाम् ।दृश्यतेऽभ्रेषु धावत्सु धावन्निव यथा शशी ॥ १९ ॥
आत्मचैतन्यमाश्रित्य देहेन्द्रियमनोधियः ।स्वकीयार्थेषु वर्तन्ते सूर्यालोकं यथा जनाः ॥ २० ॥
देहेन्द्रियगुणान्कर्माण्यमले सच्चिदात्मनि ।अध्यस्यन्त्यविवेकेन गगने नीलतादिवत् ॥ २१ ॥
अज्ञानान्मानसोपाधेः कर्तृत्वादीनि चात्मनि ।कल्प्यन्तेऽम्बुगते चन्द्रे चलनादि यथाम्भसः ॥ २२ ॥
रागेच्छासुखदुःखादि बुद्धौ सत्यां प्रवर्तते ।सुषुप्तौ नास्ति तन्नाशे तस्माद्बुद्धेस्तु नात्मनः ॥ २३ ॥
प्रकाशोऽर्कस्य तोयस्य शैत्यमग्नेर्यथोष्णता ।स्वभावः सच्चिदानन्दनित्यनिर्मलतात्मनः ॥ २४ ॥
आत्मनः सच्चिदंशश्च बुद्धेर्वृत्तिरिति द्वयम् ।संयोज्य चाविवेकेन जानामीति प्रवर्तते ॥ २५ ॥
आत्मनो विक्रिया नास्ति बुद्धेर्बोधो न जात्विति ।जीवः सर्वमलं ज्ञात्वा ज्ञाता द्रष्टेति मुह्यति ॥ २६ ॥
रज्जुसर्पवदात्मानं जीवं ज्ञात्वा भयं वहेत् ।नाहं जीवः परात्मेति ज्ञातश्चेन्निर्भयो भवेत् ॥ २७ ॥
आत्मावभासयत्येको बुद्ध्यादीनीन्द्रियाणि हि ।दीपो घटादिवत्स्वात्मा जडैस्तैर्नावभास्यते ॥ २८ ॥
स्वबोधे नान्यबोधेच्छा बोधरूपतयात्मनः ।न दीपस्यान्यदीपेच्छा यथा स्वात्मप्रकाशने ॥ २९ ॥
निषिध्य निखिलोपाधीन्नेति नेतीति वाक्यतः ।विद्यादैक्यं महावाक्यैर्जीवात्मपरमात्मनोः ॥ ३० ॥
आविद्यकं शरीरादि दृश्यं बुद्बुदवत्क्षरम् ।एतद्विलक्षणं विद्यादहं ब्रह्मेति निर्मलम् ॥ ३१ ॥
देहान्यत्वान्न मे जन्मजराकार्श्यलयादयः ।शब्दादिविषयैः सङ्गो निरिन्द्रियतया न च ॥ ३२ ॥
अमनस्त्वान्न मे दुःखरागद्वेषभयादयः ।अप्राणो ह्यमनाः शुभ्र इत्यादिश्रुतिशासनात् ॥ ३३ ॥
निर्गुणो निष्क्रियो नित्यो निर्विकल्पो निरञ्जनः ।निर्विकारो निराकारो नित्यमुक्तोऽस्मि निर्मलः ॥ ३४ ॥
अहमाकाशवत्सर्वं बहिरन्तर्गतोऽच्युतः ।सदा सर्वसमः सिद्धो निःसङ्गो निर्मलोऽचलः ॥ ३५ ॥
नित्यशुद्धविमुक्तैकमखण्डानन्दमद्वयम् ।सत्यं ज्ञानमनन्तं यत्परं ब्रह्माहमेव तत् ॥ ३६ ॥
एवं निरन्तरकृता ब्रह्मैवास्मीति वासना ।हरत्यविद्याविक्षेपान्रोगानिव रसायनम् ॥ ३७ ॥
विविक्तदेश आसीनो विरागो विजितेन्द्रियः ।भावयेदेकमात्मानं तमनन्तमनन्यधीः ॥ ३८ ॥
आत्मन्येवाखिलं दृश्यं प्रविलाप्य धिया सुधीः ।भावयेदेकमात्मानं निर्मलाकाशवत्सदा ॥ ३९ ॥
रूपवर्णादिकं सर्वं विहाय परमार्थवित् ।परिपूर्णचिदानन्दस्वरूपेणावतिष्ठते ॥ ४० ॥
ज्ञातृज्ञानज्ञेयभेदः परे नात्मनि विद्यते ।चिदानन्दैकरूपत्वाद्दीप्यते स्वयमेव हि ॥ ४१ ॥
एवमात्मारणौ ध्यानमथने सततं कृते ।उदितावगतिज्वाला सर्वाज्ञानेन्धनं दहेत् ॥ ४२ ॥
अरुणेनेव बोधेन पूर्वं संतमसे हृते ।तत आविर्भवेदात्मा स्वयमेवांशुमानिव ॥ ४३ ॥
आत्मा तु सततं प्राप्तोऽप्यप्राप्तवदविद्यया ।तन्नाशे प्राप्तवद्भाति स्वकण्ठाभरणं यथा ॥ ४४ ॥
स्थाणौ पुरुषवद्भ्रान्त्या कृता ब्रह्मणि जीवता ।जीवस्य तात्त्विके रूपे तस्मिन्दृष्टे निवर्तते ॥ ४५ ॥
तत्त्वस्वरूपानुभवादुत्पन्नं ज्ञानमञ्जसा ।अहं ममेति चाज्ञानं बाधते दिग्भ्रमादिवत् ॥ ४६ ॥
सम्यग्विज्ञानवान्योगी स्वात्मन्येवाखिलं स्थितम् ।एकं च सर्वमात्मानमीक्षते ज्ञानचक्षुषा ॥ ४७ ॥
आत्मैवेदं जगत्सर्वमात्मनोऽन्यन्न किंचन ।मृदो यद्वद्घटादीनि स्वात्मानं सर्वमीक्षते ॥ ४८ ॥
जीवन्मुक्तस्तु तद्विद्वान्पूर्वोपाधिगुणांस्त्यजेत् ।स सच्चिदादिधर्मत्वं भेजे भ्रमरकीटवत् ॥ ४९ ॥
तीर्त्वा महार्णवं हत्वा रागद्वेषादिराक्षसान् ।योगी शान्तिसमायुक्त आत्मा रामो विराजते ॥ ५० ॥
बाह्यानित्यसुखासक्तिं हित्वात्मसुखनिर्वृतः ।घटस्थदीपवच्छश्वदन्तरेव प्रकाशते ॥ ५१ ॥
उपाधिस्थोऽपि तद्धर्मैरलिप्तो व्योमवन्मुनिः ।सर्वविन्मूढवत्तिष्ठेदसक्तो वायुवच्चरेत् ॥ ५२ ॥
उपाधिविलयाद्विष्णौ निर्विशेषं विशेन्मुनिः ।जले जलं वियद्व्योम्नि तेजस्तेजसि वा यथा ॥ ५३ ॥
यल्लाभान्नापरो लाभो यत्सुखान्नापरं सुखम् ।यज्ज्ञानान्नापरं ज्ञानं तद्ब्रह्मेत्यवधारयेत् ॥ ५४ ॥
यद्दृष्ट्रा नापरं दृश्यं यद्भूत्वा न पुनर्भवः ।यज्ज्ञात्वा नापरं ज्ञेयं तद्ब्रह्मेत्यवधारयेत् ॥ ५५ ॥
तिर्यगूर्ध्वमधः पूर्णं सच्चिदानन्दमद्वयम् ।अनन्तं नित्यमेकं यत्तद्ब्रह्मेत्यवधारयेत् ॥ ५६ ॥
अद्वयावृत्तिरूपेण वेदान्तैर्लक्ष्यतेऽव्ययम् ।अखण्डानन्दमेकं यत्तद्ब्रह्मेत्यवधारयेत् ॥ ५७ ॥
अखण्डानन्दरूपस्य तस्यानन्दलवाश्रिताः ।ब्रह्माद्यास्तारतम्येन भवन्त्यानन्दिनोऽखिलाः ॥ ५८ ॥
तद्युक्तमखिलं वस्तु व्यवहारश्चिदन्वितः ।तस्मात्सर्वगतं ब्रह्म क्षीरे सर्पिरिवाखिले ॥ ५९ ॥
अनण्वस्थूलमह्रस्वमदीर्घमजमव्ययम् ।अरूपगुणवर्णाख्यं तद्ब्रह्मेत्यवधारयेत् ॥ ६० ॥
यद्भासा भास्यतेऽर्कादि भास्यैर्यत्तु न भास्यते ।येन सर्वमिदं भाति तद्ब्रह्मेत्यवधारयेत् ॥ ६१ ॥
स्वयमन्तर्बहिर्व्याप्य भासयन्नखिलं जगत् ।ब्रह्म प्रकाशते वह्निप्रतप्तायसपिण्डवत् ॥ ६२ ।
जगद्विलक्षणं ब्रह्म ब्रह्मणोऽन्यन्न किंचन ।ब्रह्मान्यद्भाति चेन्मिथ्या यथा मरुमरीचिका ॥ ६३ ॥
दृश्यते श्रूयते यद्यद्ब्रह्मणोऽन्यन्न तद्भवेत् ।तत्त्वज्ञानाच्च तद्ब्रह्म सच्चिदानन्दमद्वयम् ॥ ६४ ॥
सर्वगं सच्चिदानन्दं ज्ञानचक्षुर्निरीक्षते ।अज्ञानचक्षुर्नेक्षेत भास्वन्तं भानुमन्धवत् ॥ ६५ ॥
श्रवणादिभिरुद्दीप्त-ज्ञानाग्निपरितापितः ।जीवः सर्वमलान्मुक्तःस्वर्णवद्द्योतते स्वयम् ॥ ६६ ॥
हृदाकाशोदितो ह्यात्माबोधभानुस्तमोपहृत् ।सर्वव्यापी सर्वधारीभाति भासयतेऽखिलम् ॥ ६७ ॥
दिग्देशकालाद्यनपेक्ष्य सर्वगंशीतादिहृन्नित्यसुखं निरञ्जनम् ।यः स्वात्मतीर्थं भजते विनिष्क्रियःस सर्ववित्सर्वगतोऽमृतो भवेत् ॥ ६८ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगव- त्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ आत्मबोधः संपूर्णः ॥

Settings