अद्वैतपञ्चरत्नम्

नाहं देहो नेन्द्रियाण्यन्तरङ्गोनाहंकारः प्राणवर्गो न बुद्धिः ।दारापत्यक्षेत्रवित्तादिदूरःसाक्षी नित्यः प्रत्यगात्मा शिवोऽहम् ॥ १ ॥
रज्ज्वज्ञानाद्भाति रज्जौ यथाहिःस्वात्माज्ञानादात्मनो जीवभावः ।आप्तोक्त्याहिभ्रान्तिनाशे स रज्जु-र्जीवो नाहं देशिकोक्त्या शिवोऽहम् ॥ २ ॥
आभातीदं विश्वमात्मन्यसत्यंसत्यज्ञानानन्दरूपे विमोहात् ।निद्रामोहात्स्वप्नवत्तन्न सत्यंशुद्धः पूर्णो नित्य एकः शिवोऽहं ॥ ३ ॥
नाहं जातो न प्रवृद्धो न नष्टोदेहस्योक्ताः प्राकृताः सर्वधर्माः ।कर्तृत्वादिश्चिन्मयस्यास्ति नाहं-कारस्यैव ह्यात्मनो मे शिवोऽहम् ॥ ४ ॥
मत्तो नान्यत्किंचिदत्रास्ति विश्वंसत्यं बाह्यं वस्तु मायोपकॢप्तम् ।आदर्शान्तर्भासमानस्य तुल्यं ।मय्यद्वैते भाति तस्माच्छिवोऽहम् ॥ ५ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ अद्वैतपञ्चरत्नं संपूर्णम् ॥

Settings