अद्वैतानुभूतिः

अहमानन्दसत्यादिलक्षणः केवलः शिवः ।सदानन्दादिरूपं यत्तेनाहमचलोऽद्वयः ॥ १ ॥
अक्षिदोषाद्यथैकोऽपि द्वयवद्भाति चन्द्रमाः ।एकोऽप्यात्मा तथा भाति द्वयवन्मायया मृषा ॥ २ ॥
अक्षिदोषविहीनानामेक एव यथा शशी ।मायादोषविहीनानामात्मैवैकस्तथा सदा ॥ ३ ॥
द्वित्वं भात्यक्षिदोषेण चन्द्रे स्वे मायया जगत् ।द्वित्वं मृषा यथा चन्द्रे मृषा द्वैतं तथात्मनि ॥ ४ ॥
आत्मनः कार्यमाकाशो विनात्मानं न संभवेत् ।कार्यस्य पूर्णता सिद्धा किं पुनः पूर्णतात्मनः ॥ ५ ॥
कार्यभूतो यथाकाश एक एव न हि द्विधा ।हेतुभूतस्तथात्मायमेक एव विजानतः ॥ ६ ॥
एकोऽपि द्वयवद्भाति यथाकाश उपाधितः ।एकोऽपि द्वयवत्पूर्णस्तथात्मायमुपाधितः ॥ ७ ॥
कारणोपाधिचैतन्यं कार्यसंस्थाच्चितोऽधिकम् ।न घटाभ्रान्मृदाकाशः कुत्रचिन्नाधिको भवेत् ॥ ८ ॥
निर्गतोपाधिराकाश एक एव यथा भवेत् ।एक एव तथात्मायं निर्गतोपाधिकः सदा ॥ ९ ॥
आकाशादन्य आकाश आकाशस्य यथा न हि ।एकत्वादात्मनो नान्य आत्मा सिध्यति चात्मनः ॥ १० ॥
मेघयोगाद्यथा नीरं करकाकारतामियात् ।मायायोगात्तथैवात्मा प्रपञ्चाकारतामियात् ॥ ११ ॥
वर्षोपल इवाभाति नीरमेवाभ्रयोगतः ।वर्षोपलविनाशेन नीरनाशो यथा न हि ॥ १२ ॥
आत्मैवायं तथा भाति मायायोगात्प्रपञ्चवत् ।प्रपञ्चस्य विनाशेन स्वात्मनाशो न हि क्वचित् ॥ १३ ॥
जलादन्य इवाभाति जलोत्थो बुद्बुदो यथा ।तथात्मनः पृथगिव प्रपञ्चोऽयमनेकधा ॥ १४ ॥
यथा बुद्बुदनाशेन जलनाशो न कर्हिचित् ।तथा प्रपञ्चनाशेन नाशः स्यादात्मनो न हि ॥ १५ ॥
अहिनिर्ल्वयनीजातः शुच्यादिर्नाहिमाप्नुयात् ।तथा स्थूलादिसंभूतः शुच्यादिर्नाप्नुयादिमम् ॥ १६ ॥
त्यक्तां त्वचमहिर्यद्वदात्मत्वेन न मन्यते ।आत्मत्वेन सदा ज्ञानी त्यक्तदेहत्रयं तथा ॥ १७ ॥
अहिनिर्ल्वयनीनाशादहेर्नाशो यथा न हि ।देहवयविनाशेन नात्मनाशस्तथा भवेत् ॥ १८ ।
तक्रादिलवणोपेतमज्ञैर्लवणवद्यथा ।आत्मा स्थूलादिसंयुक्तो दृष्यते स्थूलकादिवत् ॥ १९ ॥
अयःकाष्ठादिकं यद्वद्वह्निवद्वह्नियोगतः ।भाति स्थूलादिकं सर्वमात्मवत्स्वात्मयोगतः ॥ २० ॥
दाहको नैव दाह्यं स्याद्दाह्यं तद्वन्न दाहकः ।नैवात्मायमनात्मा स्यादनात्मायं न चात्मकः ॥ २१ ॥
प्रमेयादित्रयं सार्थं भानुना घटकुड्यवत् ।येन भाति स एवाहं प्रमेयादिविलक्षणः ॥ २२ ॥
भानुस्फुरणतो यद्वत्स्फुरतीव घटादिकम् ।स्फुरतीव प्रमेयादिरात्मस्फुरणतस्तथा ॥ २३ ॥
पिष्टादिगुलसंपर्काद्गुलवत्प्रीतिमान्यथा ।आत्मयोगात्प्रमेयादिरात्मवत्प्रीतिमान्भवेत् ॥ २४ ॥
घटनीरान्नपिष्टानामुष्णत्वं वह्नियोगतः ।वह्निं विना कथं तेषामुष्णता स्याद्यथा क्वचित् ॥ २५ ॥
भूतभौतिकदेहानां स्फूर्तिता स्वात्मयोगतः ।विनात्मानं कथं तेषां स्फूर्तिता स्यात्तथा क्वचित् ॥ २६ ॥
नानाविधेषु कुम्भेषु वसत्येकं नभो यथा ।नानाविधेषु देहेषु तद्वदेको वसाम्यहम् ॥ २७ ॥
नानाविधत्वं कुम्भानां न यात्येव यथा नभः ।नानाविधत्वं देहानां तद्वदेव नयाम्यहम् ॥ २८ ॥
यथा घटेषु नष्टेषु घटाकाशो न नश्यति ।तथा देहेषु नष्टेषु नैव नश्यामि सर्वगः ॥ २९ ॥
उत्तमादीनि पुष्पाणि वर्तन्ते सूत्रके यथा ।उत्तमाद्यास्तथा देहा वर्तन्ते मयि सर्वदा ॥ ३० ॥
यथा न संस्पृशेत्सूत्रं पुष्पाणामुत्तमादिता ।तथा नैकं सर्वगं मां देहानामुत्तमादिता ॥ ३१ ॥
पुष्पेषु तेषु नष्टेषु यद्वत्सूत्रं न नश्यति ।तथा देहेषु नष्टेषु नैव नश्याम्यहं सदा ॥ ३२ ॥
पर्यङ्करज्जुरन्ध्रेषु नानेवैकापि सूर्यभा ।एकोऽप्यनेकवद्भाति तथा क्षेत्रेषु सर्वगः ॥ ३३ ॥
रज्जुरन्ध्रस्थदोषादि सूर्यभां न स्पृशेद्यथा ।तथा क्षेत्रस्थदोषादि सर्वगं मां न संस्पृशेत् ॥ ३४ ॥
तद्रज्जुरन्ध्रनाशेषु नैव नश्यति सूर्यभा ।तथा क्षेत्रविनाशेषु नैव नश्यामि सर्वगः ॥ ३५ ॥
देहो नाहं प्रदृश्यत्वाद्भौतिकत्वान्न चेन्द्रियम् ।प्राणो नाहमनेकत्वान्मनो नाहं चलत्वतः ॥ ३६ ॥
बुद्धिर्नाहं विकारित्वात्तमो नाहं जडत्वतः ।देहेन्द्रियादिकं नाहं विनाशित्वाद्घटादिवत् ॥ ३७ ॥
देहेन्द्रियप्राणमनोबुद्ध्यज्ञानानि भासयन् ।अहंकारं तथा भामि चैतेषामभिमानिनम् ॥ ३८ ॥
सर्वं जगदिदं नाहं विषयत्वादिदंधियः ।अहं नाहं सुषुप्त्यादौ अहमः साक्षितः सदा ॥ ३९ ।
सुप्तौ यथा निर्विकारस्तथावस्थाद्वयेऽपि च ।द्वयोर्मात्राभियोगेन विकारीव विभाम्यहम् ॥ ४० ॥
उपाधिनीलरक्ताद्यैः स्फटिको नैव लिप्यते ।तथात्मा कोशजैः सर्वैः कामाद्यैर्नैव लिप्यते ॥ ४१ ॥
फालेन भ्राम्यमाणेन भ्रमतीव यथा मही ।अगोऽप्यात्मा विमूढेन चलतीव प्रदृश्यते ॥ ४२ ॥
देहत्रयमिदं नित्यमात्मत्वेनाभिमन्यते ।यावत्तावदयं मूढो नानायोनिषु जायते ॥ ४३ ॥
निद्रादेहजदुःखादि जाग्रद्देहं न संस्पृशेत् ।जाग्रद्देहजदुःखादिस्तथात्मानं न संस्पृशेत् ॥ ४४ ॥
जाग्रद्देहवदाभाति निद्रादेहस्तु निद्रया ।निद्रादेहविनाशेन जाग्रद्देहो न नश्यति ॥ ४५ ॥
तथायमात्मवद्भाति जाग्रद्देहस्तु जागरात् ।जाग्रद्देहविनाशेन नात्मा नश्यति कर्हिचित् ॥ ४६ ॥
हित्वायं स्वाप्निकं देहं जाग्रद्देहमपेक्षते ।जाग्रद्देहप्रबुद्धोऽयं हित्वात्मानं यथा तथा ॥ ४७ ॥
स्वप्नभोगे यथैवेच्छा प्रबुद्धस्य न विद्यते ।असत्स्वर्गादिके भोगे नैवेच्छा ज्ञानिनस्तथा ॥ ४८ ॥
भोक्त्रा बहिर्यथा भोग्यः सर्पो दृषदि कल्पितः ।रूपशीलादयश्चात्मभोगा भोग्यवरूपकाः ॥ ४९ ॥
ज्ञस्य नास्त्येव संसारो यद्वदज्ञस्य कर्मिणः ।जानतो नैव भीर्यद्वद्रज्जुसर्पमजानतः ॥ ५० ॥
सैन्धवस्य घनो यद्वज्जलयोगाज्जलं भवेत् ।स्वात्मयोगात्तथा बुद्धिरात्मैव ब्रह्मवेदिनः ॥ ५१ ॥
तोयाश्रयेषु सर्वेषु भानुरेकोऽप्यनेकवत् ।एकोऽप्यात्मा तथा भाति सर्वक्षेत्रेष्वनेकवत् ॥ ५२ ॥
भानोरन्य इवाभाति जलभानुर्जले यथा ।आत्मनोऽन्य इवाभासो भाति बुद्धौ तथात्मनः ॥ ५३ ॥
बिम्बं विना यथा नीरे प्रतिबिम्बो भवेत्कथम् ।विनात्मानं तथा बुद्धौ चिदाभासो भवेत्कथम् ॥ ५४ ॥
प्रतिबिम्बचलत्वाद्या यथा बिम्बस्य कर्हिचित् ।न भवेयुस्तथाभासकर्तृत्वाद्यास्तु नात्मनः ॥ ५५ ॥
जले शैत्यादिकं यद्वज्जलभानुं न संस्पृशेत् ।बुद्धेः कर्मादिकं तद्वच्चिदाभासं न संस्पृशेत् ॥ ५६ ॥
बुद्धेः कर्तृत्वभोक्तृत्वदुःखित्वाद्यैस्तु संयुतः ।चिदाभासो विकारीव शरावस्थाम्बुभानुवत् ॥ ५७ ॥
शरावस्थोदके नष्टे तत्स्थो भानुर्विनष्टवत् ।बुद्धेर्लये तथा सुप्तौ नष्टवत्प्रतिभात्ययम् ॥ ५८ ॥
जलस्थार्कं जलं चोर्मिं भासयन्भाति भास्करः ।आत्माभासं धियं बुद्धेः कर्तृत्वादीनयं तथा ॥ ५९ ॥
मेघावभासको भानुर्मेघच्छन्नोऽवभासते ।मोहावभासकस्तद्वन्मोहच्छन्नो विभात्ययम् ॥ ६० ॥
भास्यं मेघादिकं भानुर्भासयन्प्रतिभासते ।तथा स्थूलादिकं भास्यं भासयन्प्रतिभात्ययम् ॥ ६१ ॥
सर्वप्रकाशको भानुः प्रकाश्यैर्नैव दूष्यते ।सर्वप्रकाशको ह्यात्मा सर्वैस्तद्वन्न दूष्यते ॥ ६२ ॥
मुकुरस्थं मुखं यद्वन्मुखवत्प्रथते मृषा ।बुद्धिस्थाभासकस्तद्वदात्मवत्प्रथते मृषा ॥ ६३ ॥
मुकुरस्थस्य नाशेन मुखनाशो भवेत्कथम् ।बुद्धिस्थाभासनाशेन नाशो नैवात्मनः क्वचित् ॥ ६४ ॥
ताम्रकल्पितदेवादिस्ताम्रादन्य इव स्फुरेत् ।प्रतिभास्यादिरूपेण तथात्मोत्थमिदं जगत् ॥ ६५ ॥
ईशजीवात्मवद्भाति यथैकमपि ताम्रकम् ।एकोऽप्यात्मा तथैवायमीशजीवादिवन्मृषा ॥ ६६ ॥
यथेश्वरादिनाशेन ताम्रनाशो न विद्यते ।तथेश्वरादिनाशेन नाशो नैवात्मनः सदा ॥ ६७ ॥
अध्यस्तो रज्जुसर्पोऽयं सत्यवद्रज्जुसत्तया ।तथा जगदिदं भाति सत्यवत्स्वात्मसत्तया ॥ ६८ ॥
अध्यस्ताहेरभावेन रज्जुरेवावशिष्यते ।तथा जगदभावेन सदात्मैवावशिष्यते ॥ ६९ ॥
स्फटिके रक्तता यद्वदुपाधेर्नीलताम्बरे ।यथा जगदिदं भाति तथा सत्यमिवाद्वये ॥ ७० ॥
स्फटिके रक्तता मिथ्या मृषा खे नीलता यथातथा जगदिदं मिथ्या एकस्मिन्नद्वये मयि ॥ ७१ ॥
जीवेश्वरादिभावेन भेदं पश्यति मूढधीः ।निर्भेदे निर्विशेषेऽस्मिन्कथं भेदो भवेद्ध्रुवम् ॥ ७२ ॥
लिङ्गस्य धारणादेव शिवोऽयं जीवतां व्रजेत् ।लिङ्गनाशे शिवस्यास्य जीवतावेशता कुतः ॥ ७३ ॥
शिव एव सदा जीवो जीव एव सदा शिवः ।वेत्त्यैक्यमनयोर्यस्तु स आत्मज्ञो न चेतरः ॥ ७४ ॥
क्षीरयोगाद्यथा नीरं क्षीरवद्दृश्यते मृषा ।आत्मयोगादनात्मायमात्मवद्दृश्यते तथा ॥ ७५ ॥
नीरात्क्षीरं पृथक्कृत्य हंसो भवति नान्यथा ।स्थूलादेः स्वं पृथक्कृत्य मुक्तो भवति नान्यथा ॥ ७६ ॥
क्षीरनीरविवेकज्ञो हंस एव न चेतरः ।आत्मानात्मविवेकज्ञो यतिरेव न चेतरः ॥ ७७ ॥
अध्यस्तचोरजः स्थाणोर्विकारः स्यान्न हि क्वचित् ।नात्मनो निर्विकारस्य विकारो विश्वजस्तथा ॥ ७८ ॥
ज्ञाते स्थाणौ कुतश्चोरचोराभावे भयं कुतः ।ज्ञाते स्वस्मिन्कुतो विश्वं विश्वाभावे कुतोऽखिलम् ॥ ७९ ॥
गुणवृत्तित्रयं भाति परस्परविलक्षणम् ।सत्यात्मलक्षणे यस्मिन्स एवाहं निरंशकः ॥ ८० ॥
देहत्रयमिदं भाति यस्मिन्ब्रह्मणि सत्यवत् ।तदेवाहं परं ब्रह्म देहत्रयविलक्षणः ॥ ८१ ।
जाग्रदादित्रयं यस्मिन्प्रत्यगात्मनि सत्यवत् ।स एवाहं परं ब्रह्म जाग्रदादिविलक्षणः ॥ ८२ ॥
विश्वादिकत्रयं यस्मिन्परमात्मनि सत्यवत् ।स एव परमात्माहं विश्वादिकविलक्षणः ॥ ८३ ॥
विराडादित्रयं भाति यस्मिन्साक्षिणि सत्यवत् ।स एव सच्चिदानन्दलक्षणोऽहं स्वयंप्रभः ॥ ८४ ॥
इति श्रीमत्परमंहसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ अद्वैतानुभूतिः संपूर्णा ॥

Settings