Click on words to see what they mean.

ते दूता रामवाक्येन चोदिता लघुविक्रमाः ।प्रजग्मुर्मधुरां शीघ्रं चक्रुर्वासं न चाध्वनि ॥ १ ॥
ततस्त्रिभिरहोरात्रैः संप्राप्य मधुरामथ ।शत्रुघ्नाय यथावृत्तमाचख्युः सर्वमेव तत् ॥ २ ॥
लक्ष्मणस्य परित्यागं प्रतिज्ञां राघवस्य च ।पुत्रयोरभिषेकं च पौरानुगमनं तथा ॥ ३ ॥
कुशस्य नगरी रम्या विन्ध्यपर्वतरोधसि ।कुशावतीति नाम्ना सा कृता रामेण धीमता ॥ ४ ॥
श्राविता च पुरी रम्या श्रावतीति लवस्य च ।अयोध्यां विजनां चैव भरतं राघवानुगम् ॥ ५ ॥
एवं सर्वं निवेद्याशु शत्रुघ्नाय महात्मने ।विरेमुस्ते ततो दूतास्त्वर राजन्निति ब्रुवन् ॥ ६ ॥
श्रुत्वा तं घोरसंकाशं कुलक्षयमुपस्थितम् ।प्रकृतीस्तु समानीय काञ्चनं च पुरोहितम् ॥ ७ ॥
तेषां सर्वं यथावृत्तमाख्याय रघुनन्दनः ।आत्मनश्च विपर्यासं भविष्यं भ्रातृभिः सह ॥ ८ ॥
ततः पुत्रद्वयं वीरः सोऽभ्यषिञ्चन्नराधिपः ।सुबाहुर्मधुरां लेभे शत्रुघाती च वैदिशम् ॥ ९ ॥
द्विधाकृत्वा तु तां सेनां माधुरीं पुत्रयोर्द्वयोः ।धनधान्यसमायुक्तौ स्थापयामास पार्थिवौ ॥ १० ॥
ततो विसृज्य राजानं वैदिशे शत्रुघातिनम् ।जगाम त्वरितोऽयोध्यां रथेनैकेन राघवः ॥ ११ ॥
स ददर्श महात्मानं ज्वलन्तमिव पावकम् ।क्षौमसूक्ष्माम्बरधरं मुनिभिः सार्धमक्षयैः ॥ १२ ॥
सोऽभिवाद्य ततो रामं प्राञ्जलिः प्रयतेन्द्रियः ।उवाच वाक्यं धर्मज्ञो धर्ममेवानुचिन्तयन् ॥ १३ ॥
कृत्वाभिषेकं सुतयोर्युक्तं राघवयोर्धनैः ।तवानुगमने राजन्विद्धि मां कृतनिश्चयम् ॥ १४ ॥
न चान्यदत्र वक्तव्यं दुस्तरं तव शासनम् ।त्यक्तुं नार्हसि मां वीर भक्तिमन्तं विशेषतः ॥ १५ ॥
तस्य तां बुद्धिमक्लीबां विज्ञाय रघुनन्दनः ।बाढमित्येव शत्रुघ्नं रामो वचनमब्रवीत् ॥ १६ ॥
तस्य वाक्यस्य वाक्यान्ते वानराः कामरूपिणः ।ऋक्षराक्षससंघाश्च समापेतुरनेकशः ॥ १७ ॥
देवपुत्रा ऋषिसुता गन्धर्वाणां सुतास्तथा ।रामक्षयं विदित्वा ते सर्व एव समागताः ॥ १८ ॥
ते राममभिवाद्याहुः सर्व एव समागताः ।तवानुगमने राजन्संप्राप्ताः स्म महायशः ॥ १९ ॥
यदि राम विनास्माभिर्गच्छेस्त्वं पुरुषर्षभ ।यमदण्डमिवोद्यम्य त्वया स्म विनिपातिताः ॥ २० ॥
एवं तेषां वचः श्रुत्वा ऋक्षवानररक्षसाम् ।विभीषणमथोवाच मधुरं श्लक्ष्णया गिरा ॥ २१ ॥
यावत्प्रजा धरिष्यन्ति तावत्त्वं वै विभीषण ।राक्षसेन्द्र महावीर्य लङ्कास्थः स्वं धरिष्यसि ॥ २२ ॥
प्रजाः संरक्ष धर्मेण नोत्तरं वक्तुमर्हसि ॥ २३ ॥
तमेवमुक्त्वा काकुत्स्थो हनूमन्तमथाब्रवीत् ।जीविते कृतबुद्धिस्त्वं मा प्रतिज्ञां विलोपय ॥ २४ ॥
मत्कथाः प्रचरिष्यन्ति यावल्लोके हरीश्वर ।तावत्त्वं धारयन्प्राणान्प्रतिज्ञामनुपालय ॥ २५ ॥
तथैवमुक्त्वा काकुत्स्थः सर्वांस्तानृक्षवानरान् ।मया सार्धं प्रयातेति तदा तान्राघवोऽब्रवीत् ॥ २६ ॥
« »