Click on words to see what they mean.

अवाङ्मुखमथो दीनं दृष्ट्वा सोममिवाप्लुतम् ।राघवं लक्ष्मणो वाक्यं हृष्टो मधुरमब्रवीत् ॥ १ ॥
न संतापं महाबाहो मदर्थं कर्तुमर्हसि ।पूर्वनिर्माणबद्धा हि कालस्य गतिरीदृशी ॥ २ ॥
जहि मां सौम्य विस्रब्धः प्रतिज्ञां परिपालय ।हीनप्रतिज्ञाः काकुत्स्थ प्रयान्ति नरकं नराः ॥ ३ ॥
यदि प्रीतिर्महाराज यद्यनुग्राह्यता मयि ।जहि मां निर्विशङ्कस्त्वं धर्मं वर्धय राघव ॥ ४ ॥
लक्ष्मणेन तथोक्तस्तु रामः प्रचलितेन्द्रियः ।मन्त्रिणः समुपानीय तथैव च पुरोधसं ॥ ५ ॥
अब्रवीच्च यथावृत्तं तेषां मध्ये नराधिपः ।दुर्वासोऽभिगमं चैव प्रतिज्ञां तापसस्य च ॥ ६ ॥
तच्छ्रुत्वा मन्त्रिणः सर्वे सोपाध्यायाः समासत ।वसिष्ठस्तु महातेजा वाक्यमेतदुवाच ह ॥ ७ ॥
दृष्टमेतन्महाबाहो क्षयं ते लोमहर्षणम् ।लक्ष्मणेन वियोगश्च तव राम महायशः ॥ ८ ॥
त्यजैनं बलवान्कालो मा प्रतिज्ञां वृथा कृथाः ।विनष्टायां प्रतिज्ञायां धर्मो हि विलयं व्रजेत् ॥ ९ ॥
ततो धर्मे विनष्टे तु त्रैलोक्ये सचराचरम् ।सदेवर्षिगणं सर्वं विनश्येत न संशयः ॥ १० ॥
स त्वं पुरुषशार्दूल त्रैलोक्यस्याभिपालनम् ।लक्ष्मणस्य वधेनाद्य जगत्स्वस्थं कुरुष्व ह ॥ ११ ॥
तेषां तत्समवेतानां वाक्यं धर्मार्थसंहितम् ।श्रुत्वा परिषदो मध्ये रामो लक्ष्मणमब्रवीत् ॥ १२ ॥
विसर्जये त्वां सौमित्रे मा भूद्धर्मविपर्ययः ।त्यागो वधो वा विहितः साधूनामुभयं समम् ॥ १३ ॥
रामेण भाषिते वाक्ये बाष्पव्याकुलितेक्षणः ।लक्ष्मणस्त्वरितः प्रायात्स्वगृहं न विवेश ह ॥ १४ ॥
स गत्वा सरयूतीरमुपस्पृश्य कृताञ्जलिः ।निगृह्य सर्वस्रोतांसि निःश्वासं न मुमोच ह ॥ १५ ॥
अनुच्छ्वसन्तं युक्तं तं सशक्राः साप्सरोगणाः ।देवाः सर्षिगणाः सर्वे पुष्पैरवकिरंस्तदा ॥ १६ ॥
अदृश्यं सर्वमनुजैः सशरीरं महाबलम् ।प्रगृह्य लक्ष्मणं शक्रो दिवं संप्रविवेश ह ॥ १७ ॥
ततो विष्णोश्चतुर्भागमागतं सुरसत्तमाः ।हृष्टाः प्रमुदिताः सर्वेऽपूजयनृषिभिः सह ॥ १८ ॥
« »