Click on words to see what they mean.

तच्छ्रुत्वा हर्षमापेदे राघवो भ्रातृभिः सह ।वाक्यं चाद्भुतसंकाशं भ्रातॄन्प्रोवाच राघवः ॥ १ ॥
इमौ कुमारौ सौमित्रे तव धर्मविशारदौ ।अङ्गदश्चन्द्रकेतुश्च राज्यार्हौ दृढधन्विनौ ॥ २ ॥
इमौ राज्येऽभिषेक्ष्यामि देशः साधु विधीयताम् ।रमणीयो ह्यसंबाधो रमेतां यत्र धन्विनौ ॥ ३ ॥
न राज्ञां यत्र पीदा स्यान्नाश्रमाणां विनाशनम् ।स देशो दृश्यतां सौम्य नापराध्यामहे यथा ॥ ४ ॥
तथोक्तवति रामे तु भरतः प्रत्युवाच ह ।अयं कारापथो देशः सुरमण्यो निरामयः ॥ ५ ॥
निवेश्यतां तत्र पुरमङ्गदस्य महात्मनः ।चन्द्रकेतोश्च रुचिरं चन्द्रकान्तं निरामयम् ॥ ६ ॥
तद्वाक्यं भरतेनोक्तं प्रतिजग्राह राघवः ।तं च कृत्वा वशे देशमङ्गदस्य न्यवेशयत् ॥ ७ ॥
अङ्गदीया पुरी रम्या अङ्गदस्य निवेशिता ।रमणीया सुगुप्ता च रामेणाक्लिष्टकर्मणा ॥ ८ ॥
चन्द्रकेतोस्तु मल्लस्य मल्लभूम्यां निवेशिता ।चन्द्रकान्तेति विख्याता दिव्या स्वर्गपुरी यथा ॥ ९ ॥
ततो रामः परां प्रीतिं भरतो लक्ष्मणस्तथा ।ययुर्युधि दुराधर्षा अभिषेकं च चक्रिरे ॥ १० ॥
अभिषिच्य कुमारौ द्वौ प्रस्थाप्य सबलानुगौ ।अङ्गदं पश्चिमां भूमिं चन्द्रकेतुमुदङ्मुखम् ॥ ११ ॥
अङ्गदं चापि सौमित्रिर्लक्ष्मणोऽनुजगाम ह ।चन्द्रकेतोस्तु भरतः पार्ष्णिग्राहो बभूव ह ॥ १२ ॥
लक्ष्मणस्त्वङ्गदीयायां संवत्सरमथोषितः ।पुत्रे स्थिते दुराधर्षे अयोध्यां पुनरागमत् ॥ १३ ॥
भरतोऽपि तथैवोष्य संवत्सरमथाधिकम् ।अयोध्यां पुनरागम्य रामपादावुपागमत् ॥ १४ ॥
उभौ सौमित्रिभरतौ रामपादावनुव्रतौ ।कालं गतमपि स्नेहान्न जज्ञातेऽतिधार्मिकौ ॥ १५ ॥
एवं वर्षसहस्राणि दश तेषां ययुस्तदा ।धर्मे प्रयतमानानां पौरकार्येषु नित्यदा ॥ १६ ॥
विहृत्य कालं परिपूर्णमानसाः श्रिया वृता धर्मपथे परे स्थिताः ।त्रयः समिद्धा इव दीप्ततेजसा हुताग्नयः साधु महाध्वरे त्रयः ॥ १७ ॥
« »