Click on words to see what they mean.

कस्यचित्त्वथ कालस्य सुमाली नाम राक्षसः ।रसातलान्मर्त्यलोकं सर्वं वै विचचार ह ॥ १ ॥
नीलजीमूतसंकाशस्तप्तकाञ्चनकुण्डलः ।कन्यां दुहितरं गृह्य विना पद्ममिव श्रियम् ।अथापश्यत्स गच्छन्तं पुष्पकेण धनेश्वरम् ॥ २ ॥
तं दृष्ट्वामरसंकाशं गच्छन्तं पावकोपमम् ।अथाब्रवीत्सुतां रक्षः कैकसीं नाम नामतः ॥ ३ ॥
पुत्रि प्रदानकालोऽयं यौवनं तेऽतिवर्तते ।त्वत्कृते च वयं सर्वे यन्त्रिता धर्मबुद्धयः ॥ ४ ॥
त्वं हि सर्वगुणोपेता श्रीः सपद्मेव पुत्रिके ।प्रत्याख्यानाच्च भीतैस्त्वं न वरैः प्रतिगृह्यसे ॥ ५ ॥
कन्यापितृत्वं दुःखं हि सर्वेषां मानकाङ्क्षिणाम् ।न ज्ञायते च कः कन्यां वरयेदिति पुत्रिके ॥ ६ ॥
मातुः कुलं पितृकुलं यत्र चैव प्रदीयते ।कुलत्रयं सदा कन्या संशये स्थाप्य तिष्ठति ॥ ७ ॥
सा त्वं मुनिवरश्रेष्ठं प्रजापतिकुलोद्भवम् ।गच्छ विश्रवसं पुत्रि पौलस्त्यं वरय स्वयम् ॥ ८ ॥
ईदृशास्ते भविष्यन्ति पुत्राः पुत्रि न संशयः ।तेजसा भास्करसमा यादृशोऽयं धनेश्वरः ॥ ९ ॥
एतस्मिन्नन्तरे राम पुलस्त्यतनयो द्विजः ।अग्निहोत्रमुपातिष्ठच्चतुर्थ इव पावकः ॥ १० ॥
सा तु तां दारुणां वेलामचिन्त्य पितृगौरवात् ।उपसृत्याग्रतस्तस्य चरणाधोमुखी स्थिता ॥ ११ ॥
स तु तां वीक्ष्य सुश्रोणीं पूर्णचन्द्रनिभाननाम् ।अब्रवीत्परमोदारो दीप्यमान इवौजसा ॥ १२ ॥
भद्रे कस्यासि दुहिता कुतो वा त्वमिहागता ।किं कार्यं कस्य वा हेतोस्तत्त्वतो ब्रूहि शोभने ॥ १३ ॥
एवमुक्ता तु सा कन्या कृताञ्जलिरथाब्रवीत् ।आत्मप्रभावेन मुने ज्ञातुमर्हसि मे मतम् ॥ १४ ॥
किं तु विद्धि हि मां ब्रह्मञ्शासनात्पितुरागताम् ।कैकसी नाम नाम्नाहं शेषं त्वं ज्ञातुमर्हसि ॥ १५ ॥
स तु गत्वा मुनिर्ध्यानं वाक्यमेतदुवाच ह ।विज्ञातं ते मया भद्रे कारणं यन्मनोगतम् ॥ १६ ॥
दारुणायां तु वेलायां यस्मात्त्वं मामुपस्थिता ।शृणु तस्मात्सुतान्भद्रे यादृशाञ्जनयिष्यसि ॥ १७ ॥
दारुणान्दारुणाकारान्दारुणाभिजनप्रियान् ।प्रसविष्यसि सुश्रोणि राक्षसान्क्रूरकर्मणः ॥ १८ ॥
सा तु तद्वचनं श्रुत्वा प्रणिपत्याब्रवीद्वचः ।भगवन्नेदृशाः पुत्रास्त्वत्तोऽर्हा ब्रह्मयोनितः ॥ १९ ॥
अथाब्रवीन्मुनिस्तत्र पश्चिमो यस्तवात्मजः ।मम वंशानुरूपश्च धर्मात्मा च भविष्यति ॥ २० ॥
एवमुक्ता तु सा कन्या राम कालेन केनचित् ।जनयामास बीभत्सं रक्षोरूपं सुदारुणम् ॥ २१ ॥
दशशीर्षं महादंष्ट्रं नीलाञ्जनचयोपमम् ।ताम्रौष्ठं विंशतिभुजं महास्यं दीप्तमूर्धजम् ॥ २२ ॥
जातमात्रे ततस्तस्मिन्सज्वालकवलाः शिवाः ।क्रव्यादाश्चापसव्यानि मण्डलानि प्रचक्रिरे ॥ २३ ॥
ववर्ष रुधिरं देवो मेघाश्च खरनिस्वनाः ।प्रबभौ न च खे सूर्यो महोल्काश्चापतन्भुवि ॥ २४ ॥
अथ नामाकरोत्तस्य पितामहसमः पिता ।दशशीर्षः प्रसूतोऽयं दशग्रीवो भविष्यति ॥ २५ ॥
तस्य त्वनन्तरं जातः कुम्भकर्णो महाबलः ।प्रमाणाद्यस्य विपुलं प्रमाणं नेह विद्यते ॥ २६ ॥
ततः शूर्पणखा नाम संजज्ञे विकृतानना ।विभीषणश्च धर्मात्मा कैकस्याः पश्चिमः सुतः ॥ २७ ॥
ते तु तत्र महारण्ये ववृधुः सुमहौजसः ।तेषां क्रूरो दशग्रीवो लोकोद्वेगकरोऽभवत् ॥ २८ ॥
कुम्भकर्णः प्रमत्तस्तु महर्षीन्धर्मसंश्रितान् ।त्रैलोक्यं त्रासयन्दुष्टो भक्षयन्विचचार ह ॥ २९ ॥
विभीषणस्तु धर्मात्मा नित्यं धर्मपथे स्थितः ।स्वाध्यायनियताहार उवास नियतेन्द्रियः ॥ ३० ॥
अथ वित्तेश्वरो देवस्तत्र कालेन केनचित् ।आगच्छत्पितरं द्रष्टुं पुष्पकेण महौजसं ॥ ३१ ॥
तं दृष्ट्वा कैकसी तत्र ज्वलन्तमिव तेजसा ।आस्थाय राक्षसीं बुद्धिं दशग्रीवमुवाच ह ॥ ३२ ॥
पुत्र वैश्रवणं पश्य भ्रातरं तेजसा वृतम् ।भ्रातृभावे समे चापि पश्यात्मानं त्वमीदृशम् ॥ ३३ ॥
दशग्रीव तथा यत्नं कुरुष्वामितविक्रम ।यथा भवसि मे पुत्र शीघ्रं वैश्वरणोपमः ॥ ३४ ॥
मातुस्तद्वचनं श्रुत्वा दशग्रीवः प्रतापवान् ।अमर्षमतुलं लेभे प्रतिज्ञां चाकरोत्तदा ॥ ३५ ॥
सत्यं ते प्रतिजानामि तुल्यो भ्रात्राधिकोऽपि वा ।भविष्याम्यचिरान्मातः संतापं त्यज हृद्गतम् ॥ ३६ ॥
ततः क्रोधेन तेनैव दशग्रीवः सहानुजः ।प्राप्स्यामि तपसा काममिति कृत्वाध्यवस्य च ।आगच्छदात्मसिद्ध्यर्थं गोकर्णस्याश्रमं शुभम् ॥ ३७ ॥
« »