Click on words to see what they mean.

तस्यां रजन्यां व्युष्टायां यज्ञवाटगतो नृपः ।ऋषीन्सर्वान्महातेजाः शब्दापयति राघवः ॥ १ ॥
वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः ।विश्वामित्रो दीर्घतपा दुर्वासाश्च महातपाः ॥ २ ॥
अगस्त्योऽथ तथाशक्तिर्भार्गवश्चैव वामनः ।मार्कण्डेयश्च दीर्घायुर्मौद्गल्यश्च महातपाः ॥ ३ ॥
भार्गवश्च्यवनश्चैव शतानन्दश्च धर्मवित् ।भरद्वाजश्च तेजस्वी अग्निपुत्रश्च सुप्रभः ॥ ४ ॥
एते चान्ये च मुनयो बहवः संशितव्रताः ।राजानश्च नरव्याघ्राः सर्व एव समागताः ॥ ५ ॥
राक्षसाश्च महावीर्या वानराश्च महाबलाः ।समाजग्मुर्महात्मानः सर्व एव कुतूहलात् ॥ ६ ॥
क्षत्रियाश्चैव वैश्याश्च शूद्राश्चैव सहस्रशः ।सीताशपथवीक्षार्थं सर्व एव समागताः ॥ ७ ॥
तथा समागतं सर्वमश्वभूतमिवाचलम् ।श्रुत्वा मुनिवरस्तूर्णं ससीतः समुपागमत् ॥ ८ ॥
तमृषिं पृष्ठतः सीता सान्वगच्छदवाङ्मुखी ।कृताञ्जलिर्बाष्पगला कृत्वा रामं मनोगतम् ॥ ९ ॥
तां दृष्ट्वा श्रीमिवायान्तीं ब्रह्माणमनुगामिनीम् ।वाल्मीकेः पृष्ठतः सीतां साधुकारो महानभूत् ॥ १० ॥
ततो हलहलाशब्दः सर्वेषामेवमाबभौ ।दुःखजेन विशालेन शोकेनाकुलितात्मनाम् ॥ ११ ॥
साधु सीतेति केचित्तु साधु रामेति चापरे ।उभावेव तु तत्रान्ये साधु साध्विति चाब्रुवन् ॥ १२ ॥
ततो मध्यं जनौघानां प्रविश्य मुनिपुंगवः ।सीतासहायो वाल्मीकिरिति होवाच राघवम् ॥ १३ ॥
इयं दाशरथे सीता सुव्रता धर्मचारिणी ।अपापा ते परित्यक्ता ममाश्रमसमीपतः ॥ १४ ॥
लोकापवादभीतस्य तव राम महाव्रत ।प्रत्ययं दास्यते सीता तामनुज्ञातुमर्हसि ॥ १५ ॥
इमौ च जानकीपुत्रावुभौ च यमजातकौ ।सुतौ तवैव दुर्धर्षौ सत्यमेतद्ब्रवीमि ते ॥ १६ ॥
प्रचेतसोऽहं दशमः पुत्रो राघवनन्दन ।न स्मराम्यनृतं वाक्यं तथेमौ तव पुत्रकौ ॥ १७ ॥
बहुवर्षसहस्राणि तपश्चर्या मया कृता ।तस्याः फलमुपाश्नीयामपापा मैथिली यथा ॥ १८ ॥
अहं पञ्चसु भूतेषु मनःषष्ठेषु राघव ।विचिन्त्य सीतां शुद्धेति न्यगृह्णां वननिर्झरे ॥ १९ ॥
इयं शुद्धसमाचारा अपापा पतिदेवता ।लोकापवादभीतस्य दास्यति प्रत्ययं तव ॥ २० ॥
« »