Click on words to see what they mean.

तौ रजन्यां प्रभातायां स्नातौ हुतहुताशनौ ।यथोक्तमृषिणा पूर्वं तत्र तत्राभ्यगायताम् ॥ १ ॥
तां स शुश्राव काकुत्स्थः पूर्वचर्यां ततस्ततः ।अपूर्वां पाठ्य जातिं च गेयेन समलंकृताम् ॥ २ ॥
प्रमाणैर्बहुभिर्बद्धां तन्त्रीलयसमन्विताम् ।बालाभ्यां राघवः श्रुत्वा कौतूहलपरोऽभवत् ॥ ३ ॥
अथ कर्मान्तरे राजा समानीय महामुनीन् ।पार्थिवांश्च नरव्याघ्रः पण्डितान्नैगमांस्तथा ॥ ४ ॥
पौराणिकाञ्शब्दवितो ये च वृद्धा द्विजातयः ।एतान्सर्वान्समानीय गातारौ समवेशयत् ॥ ५ ॥
हृष्टा ऋषिगणास्तत्र पार्थिवाश्च महौजसः ।पिबन्त इव चक्षुर्भ्यां राजानं गायकौ च तौ ॥ ६ ॥
परस्परमथोचुस्ते सर्व एव समं ततः ।उभौ रामस्य सदृशौ बिम्बाद्बिम्बमिवोद्धृतौ ॥ ७ ॥
जटिलौ यदि न स्यातां न वल्कलधरौ यदि ।विशेषं नाधिगच्छामो गायतो राघवस्य च ॥ ८ ॥
तेषां संवदतामेवं श्रोतॄणां हर्षवर्धनम् ।गेयं प्रचक्रतुस्तत्र तावुभौ मुनिदारकौ ॥ ९ ॥
ततः प्रवृत्तं मधुरं गान्धर्वमतिमानुषम् ।न च तृप्तिं ययुः सर्वे श्रोतारो गेयसम्पदा ॥ १० ॥
प्रवृत्तमादितः पूर्वं सर्गान्नारददर्शनात् ।ततः प्रभृति सर्गांश्च यावद्विंशत्यगायताम् ॥ ११ ॥
ततोऽपराह्णसमये राघवः समभाषत ।श्रुत्वा विंशतिसर्गांस्तान्भरतं भ्रातृवत्सलः ॥ १२ ॥
अष्टादश सहस्राणि सुवर्णस्य महात्मनोः ।ददस्व शीघ्रं काकुत्स्थ बालयोर्मा वृथा श्रमः ॥ १३ ॥
दीयमानं सुवर्णं तन्नागृह्णीतां कुशीलवौ ।ऊचतुश्च महात्मानौ किमनेनेति विस्मितौ ॥ १४ ॥
वन्येन फलमूलेन निरतु स्वो वनौकसौ ।सुवर्णेन हिरण्येन किं करिष्यावहे वने ॥ १५ ॥
तथा तयोः प्रब्रुवतोः कौतूहलसमन्विताः ।श्रोतारश्चैव रामश्च सर्व एव सुविस्मिताः ॥ १६ ॥
तस्य चैवागमं रामः काव्यस्य श्रोतुमुत्सुकः ।पप्रच्छ तौ महातेजास्तावुभौ मुनिदारकौ ॥ १७ ॥
किंप्रमाणमिदं काव्यं का प्रतिष्ठा महात्मनः ।कर्ता काव्यस्य महतः को वासौ मुनिपुंगवः ॥ १८ ॥
पृच्छन्तं राघवं वाक्यमूचतुर्मुनिदारकौ ।वाल्मीकिर्भगवान्कर्ता संप्राप्तो यज्ञसंनिधिम् ।येनेदं चरितं तुभ्यमशेषं संप्रदर्शितम् ॥ १९ ॥
आदिप्रभृति राजेन्द्र पञ्चसर्ग शतानि च ।प्रतिष्ठा जीवितं यावत्तावद्राजञ्शुभाशुभम् ॥ २० ॥
यदि बुद्धिः कृता राजञ्श्रवणाय महारथ ।कर्मान्तरे क्षणी हूतस्तच्छृणुष्व सहानुजः ॥ २१ ॥
बाढमित्यब्रवीद्रामस्तौ चानुज्ञाप्य राघवम् ।प्रहृष्टौ जग्मतुर्वासं यत्रासौ मुनिपुंगवः ॥ २२ ॥
रामोऽपि मुनिभिः सार्धं पार्थिवैश्च महात्मभिः ।श्रुत्वा तद्गीतमाधुर्यं कर्मशालामुपागमत् ॥ २३ ॥
« »