Click on words to see what they mean.

तथा वृत्रवधं सर्वमखिलेन स लक्ष्मणः ।कथयित्वा नरश्रेष्ठः कथाशेषमुपाक्रमत् ॥ १ ॥
ततो हते महावीर्ये वृत्रे देवभयंकरे ।ब्रह्महत्यावृतः शक्रः संज्ञां लेभे न वृत्रहा ॥ २ ॥
सोऽन्तमाश्रित्य लोकानां नष्टसंज्ञो विचेतनः ।कालं तत्रावसत्कंचिद्वेष्टमानो यथोरगः ॥ ३ ॥
अथ नष्टे सहस्राक्षे उद्विग्नमभवज्जगत् ।भूमिश्च ध्वस्तसंकाशा निःस्नेहा शुष्ककानना ॥ ४ ॥
निःस्रोतसश्चाम्बुवाहा ह्रदाश्च सरितस्तथा ।संक्षोभश्चैव सत्त्वानामनावृष्टिकृतोऽभवत् ॥ ५ ॥
क्षीयमाणे तु लोकेऽस्मिन्संभ्रान्तमनसः सुराः ।यदुक्तं विष्णुना पूर्वं तं यज्ञं समुपानयन् ॥ ६ ॥
ततः सर्वे सुरगणाः सोपाध्यायाः सहर्षिभिः ।तं देशं सहिता जग्मुर्यत्रेन्द्रो भयमोहितः ॥ ७ ॥
ते तु दृष्ट्वा सहस्राक्षं मोहितं ब्रह्महत्यया ।तं पुरस्कृत्य देवेशमश्वमेधं प्रचक्रिरे ॥ ८ ॥
ततोऽश्वमेधः सुमहान्महेन्द्रस्य महात्मनः ।ववृधे ब्रह्महत्यायाः पावनार्थं नरेश्वर ॥ ९ ॥
ततो यज्ञसमाप्तौ तु ब्रह्महत्या महात्मनः ।अभिगम्याब्रवीद्वाक्यं क्व मे स्थानं विधास्यथ ॥ १० ॥
ते तामूचुस्ततो देवास्तुष्टाः प्रीतिसमन्विताः ।चतुर्धा विभजात्मानमात्मनैव दुरासदे ॥ ११ ॥
देवानां भाषितं श्रुत्वा ब्रह्महत्या महात्मनाम् ।संनिधौ स्थानमन्यत्र वरयामास दुर्वसा ॥ १२ ॥
एकेनांशेन वत्स्यामि पूर्णोदासु नदीषु वै ।द्वितीयेन तु वृक्षेषु सत्यमेतद्ब्रवीमि वः ॥ १३ ॥
योऽयमंशस्तृतीयो मे स्त्रीषु यौवनशालिषु ।त्रिरात्रं दर्पपर्णासु वसिष्ये दर्पघातिनी ॥ १४ ॥
हन्तारो ब्राह्मणान्ये तु प्रेक्षापूर्वमदूषकान् ।तांश्चतुर्थेन भागेन संश्रयिष्ये सुरर्षभाः ॥ १५ ॥
प्रत्यूचुस्तां ततो देवा यथा वदसि दुर्वसे ।तथा भवतु तत्सर्वं साधयस्व यथेप्सितम् ॥ १६ ॥
ततः प्रीत्यान्विता देवाः सहस्राक्षं ववन्दिरे ।विज्वरः पूतपाप्मा च वासवः समपद्यत ॥ १७ ॥
प्रशान्तं च जगत्सर्वं सहस्राक्षे प्रतिष्ठते ।यज्ञं चाद्भुतसंकाशं तदा शक्रोऽभ्यपूजयत् ॥ १८ ॥
ईदृशो ह्यश्वमेधस्य प्रभावो रघुनन्दन ।यजस्व सुमहाभाग हयमेधेन पार्थिव ॥ १९ ॥
« »