Click on words to see what they mean.

स मुहूर्तादुपश्रुत्य देवर्षिरमितप्रभः ।स्वमाश्रमं शिष्य वृतः क्षुधार्तः संन्यवर्तत ॥ १ ॥
सोऽपश्यदरजां दीनां रजसा समभिप्लुताम् ।ज्योत्स्नामिवारुणग्रस्तां प्रत्यूषे न विराजतीम् ॥ २ ॥
तस्य रोषः समभवत्क्षुधार्तस्य विशेषतः ।निर्दहन्निव लोकांस्त्रीञ्शिष्यांश्चेदमुवाच ह ॥ ३ ॥
पश्यध्वं विपरीतस्य दण्डस्याविदितात्मनः ।विपत्तिं घोरसंकाशां क्रुद्धामग्निशिखामिव ॥ ४ ॥
क्षयोऽस्य दुर्मतेः प्राप्तः सानुगस्य दुरात्मनः ।यः प्रदीप्तां हुताशस्य शिखां वै स्प्रष्टुमिच्छति ॥ ५ ॥
यस्मात्स कृतवान्पापमीदृशं घोरदर्शनम् ।तस्मात्प्राप्स्यति दुर्मेधाः फलं पापस्य कर्मणः ॥ ६ ॥
सप्तरात्रेण राजासौ सभृत्यबलवाहनः ।पापकर्मसमाचारो वधं प्राप्स्यति दुर्मतिः ॥ ७ ॥
समन्ताद्योजनशतं विषयं चास्य दुर्मतेः ।धक्ष्यते पांसुवर्षेण महता पाकशासनः ॥ ८ ॥
सर्वसत्त्वानि यानीह स्थावराणि चराणि च ।महता पांसुवर्षेण नाशं यास्यन्ति सर्वशः ॥ ९ ॥
दण्डस्य विषयो यावत्तावत्सर्वसमुच्छ्रयः ।पांसुभुत इवालक्ष्यः सप्तरात्राद्भविष्यति ॥ १० ॥
इत्युक्त्वा क्रोधसंतपस्तमाश्रमनिवासिनम् ।जनं जनपदान्तेषु स्थीयतामिति चाब्रवीत् ॥ ११ ॥
श्रुत्वा तूशसनो वाक्यं स आश्रमावसथो जनः ।निष्क्रान्तो विषयात्तस्य स्थानं चक्रेऽथ बाह्यतः ॥ १२ ॥
स तथोक्त्वा मुनिजनमरजामिदमब्रवीत् ।इहैव वस दुर्मेधे आश्रमे सुसमाहिता ॥ १३ ॥
इदं योजनपर्यन्तं सरः सुरुचिरप्रभम् ।अरजे विज्वरा भुङ्क्ष्व कालश्चात्र प्रतीक्ष्यताम् ॥ १४ ॥
त्वत्समीपे तु ये सत्त्वा वासमेष्यन्ति तां निशाम् ।अवध्याः पांसुवर्षेण ते भविष्यन्ति नित्यदा ॥ १५ ॥
इत्युक्त्वा भार्गवो वासमन्यत्र समुपाक्रमत् ।सप्ताहाद्भस्मसाद्भूतं यथोक्तं ब्रह्मवादिना ॥ १६ ॥
तस्यासौ दण्डविषयो विन्ध्यशैवलसानुषु ।शप्तो ब्रह्मर्षिणा तेन पुरा वैधर्मके कृते ॥ १७ ॥
ततः प्रभृति काकुत्स्थ दण्डकारण्यमुच्यते ।तपस्विनः स्थिता यत्र जनस्थानमथोऽभवत् ॥ १८ ॥
एतत्ते सर्वमाख्यातं यन्मां पृच्छसि राघव ।संध्यामुपासितुं वीर समयो ह्यतिवर्तते ॥ १९ ॥
एते महर्षयः सर्वे पूर्णकुम्भाः समन्ततः ।कृतोदको नरव्याघ्र आदित्यं पर्युपासते ॥ २० ॥
स तैरृषिभिरभ्यस्तः सहितैर्ब्रह्मसत्तमैः ।रविरस्तं गतो राम गच्छोदकमुपस्पृश ॥ २१ ॥
« »