Click on words to see what they mean.

नारायणगिरिं ते तु गर्जन्तो राक्षसाम्बुदाः ।अवर्षन्निषुवर्षेण वर्षेणाद्रिमिवाम्बुदाः ॥ १ ॥
श्यामावदातस्तैर्विष्णुर्नीलैर्नक्तंचरोत्तमैः ।वृतोऽञ्जनगिरीवासीद्वर्षमाणैः पयोधरैः ॥ २ ॥
शलभा इव केदारं मशका इव पर्वतम् ।यथामृतघटं जीवा मकरा इव चार्णवम् ॥ ३ ॥
तथा रक्षोधनुर्मुक्ता वज्रानिलमनोजवाः ।हरिं विशन्ति स्म शरा लोकास्तमिव पर्यये ॥ ४ ॥
स्यन्दनैः स्यन्दनगता गजैश्च गजधूर्गताः ।अश्वारोहाः सदश्वैश्च पादाताश्चाम्बरे चराः ॥ ५ ॥
राक्षसेन्द्रा गिरिनिभाः शरशक्त्यृष्टितोमरैः ।निरुच्छ्वासं हरिं चक्रुः प्राणायाम इव द्विजम् ॥ ६ ॥
निशाचरैस्तुद्यमानो मीनैरिव महातिमिः ।शार्ङ्गमायम्य गात्राणि राक्षसानां महाहवे ॥ ७ ॥
शरैः पूर्णायतोत्सृष्टैर्वज्रवक्त्रैर्मनोजवैः ।चिच्छेद तिलशो विष्णुः शतशोऽथ सहस्रशः ॥ ८ ॥
विद्राव्य शरवर्षं तं वर्षं वायुरिवोत्थितम् ।पाञ्चजन्यं महाशङ्खं प्रदध्मौ पुरुषोत्तमः ॥ ९ ॥
सोऽम्बुजो हरिणा ध्मातः सर्वप्राणेन शङ्खराट् ।ररास भीमनिह्रादो युगान्ते जलदो यथा ॥ १० ॥
शङ्खराजरवः सोऽथ त्रासयामास राक्षसान् ।मृगराज इवारण्ये समदानिव कुञ्जरान् ॥ ११ ॥
न शेकुरश्वाः संस्थातुं विमदाः कुञ्जराभवन् ।स्यन्दनेभ्यश्च्युता योधाः शङ्खरावितदुर्बलाः ॥ १२ ॥
शार्ङ्गचापविनिर्मुक्ता वज्रतुल्याननाः शराः ।विदार्य तानि रक्षांसि सुपुङ्खा विविशुः क्षितिम् ॥ १३ ॥
भिद्यमानाः शरैश्चान्ये नारायणधनुश्च्युतैः ।निपेतू राक्षसा भीमाः शैला वज्रहता इव ॥ १४ ॥
व्रणैर्व्रणकरारीणामधोक्षजशरोद्भवैः ।असृक्क्षरन्ति धाराभिः स्वर्णधारामिवाचलाः ॥ १५ ॥
शङ्खराजरवश्चापि शार्ङ्गचापरवस्तथा ।राक्षसानां रवांश्चापि ग्रसते वैष्णवो रवः ॥ १६ ॥
सूर्यादिव करा घोरा ऊर्मयः सागरादिव ।पर्वतादिव नागेन्द्रा वार्योघा इव चाम्बुदात् ॥ १७ ॥
तथा बाणा विनिर्मुक्ताः शार्ङ्गान्नरायणेरिताः ।निर्धावन्तीषवस्तूर्णं शतशोऽथ सहस्रशः ॥ १८ ॥
शरभेण यथा सिंहाः सिंहेन द्विरदा यथा ।द्विरदेन यथा व्याघ्रा व्याघ्रेण द्वीपिनो यथा ॥ १९ ॥
द्वीपिना च यथा श्वानः शुना मार्जारका यथा ।मार्जारेण यथा सर्पाः सर्पेण च यथाखवः ॥ २० ॥
तथा ते राक्षसा युद्धे विष्णुना प्रभविष्णुना ।द्रवन्ति द्राविताश्चैव शायिताश्च महीतले ॥ २१ ॥
राक्षसानां सहस्राणि निहत्य मधुसूदनः ।वारिजं नादयामास तोयदं सुरराडिव ॥ २२ ॥
नारायणशरग्रस्तं शङ्खनादसुविह्वलम् ।ययौ लङ्कामभिमुखं प्रभग्नं राक्षसं बलम् ॥ २३ ॥
प्रभग्ने राक्षसबले नारायणशराहते ।सुमाली शरवर्षेण आववार रणे हरिम् ॥ २४ ॥
उत्क्षिप्य हेमाभरणं करं करमिव द्विपः ।ररास राक्षसो हर्षात्सतडित्तोयदो यथा ॥ २५ ॥
सुमालेर्नर्दतस्तस्य शिरो ज्वलितकुण्डलम् ।चिच्छेद यन्तुरश्वाश्च भ्रान्तास्तस्य तु रक्षसः ॥ २६ ॥
तैरश्वैर्भ्राम्यते भ्रान्तैः सुमाली राक्षसेश्वरः ।इन्द्रियाश्वैर्यथा भ्रान्तैर्धृतिहीनो यथा नरः ॥ २७ ॥
माली चाभ्यद्रवद्युद्धे प्रगृह्य सशरं धनुः ।मालेर्धनुश्च्युता बाणाः कार्तस्वरविभूषिताः ।विविशुर्हरिमासाद्य क्रौञ्चं पत्ररथा इव ॥ २८ ॥
अर्द्यमानः शरैः सोऽथ मालिमुक्तैः सहस्रशः ।चुक्षुभे न रणे विष्णुर्जितेन्द्रिय इवाधिभिः ॥ २९ ॥
अथ मौर्वी स्वनं कृत्वा भगवान्भूतभावनः ।मालिनं प्रति बाणौघान्ससर्जासिगदाधरः ॥ ३० ॥
ते मालिदेहमासाद्य वज्रविद्युत्प्रभाः शराः ।पिबन्ति रुधिरं तस्य नागा इव पुरामृतम् ॥ ३१ ॥
मालिनं विमुखं कृत्वा मालिमौलिं हरिर्बलात् ।रथं च सध्वजं चापं वाजिनश्च न्यपातयत् ॥ ३२ ॥
विरथस्तु गदां गृह्य माली नक्तंचरोत्तमः ।आपुप्लुवे गदापाणिर्गिर्यग्रादिव केषरी ॥ ३३ ॥
स तया गरुडं संख्ये ईशानमिव चान्तकः ।ललाटदेशेऽभ्यहनद्वज्रेणेन्द्रो यथाचलम् ॥ ३४ ॥
गदयाभिहतस्तेन मालिना गरुडो भृशम् ।रणात्पराङ्मुखं देवं कृतवान्वेदनातुरः ॥ ३५ ॥
पराङ्मुखे कृते देवे मालिना गरुडेन वै ।उदतिष्ठन्महानादो रक्षसामभिनर्दताम् ॥ ३६ ॥
रक्षसां नदतां नादं श्रुत्वा हरिहयानुजः ।पराङ्मुखोऽप्युत्ससर्ज चक्रं मालिजिघांसया ॥ ३७ ॥
तत्सूर्यमण्डलाभासं स्वभासा भासयन्नभः ।कालचक्रनिभं चक्रं मालेः शीर्षमपातयत् ॥ ३८ ॥
तच्छिरो राक्षसेन्द्रस्य चक्रोत्कृत्तं विभीषणम् ।पपात रुधिरोद्गारि पुरा राहुशिरो यथा ॥ ३९ ॥
ततः सुरैः सुसंहृष्टैः सर्वप्राणसमीरितः ।सिंहनादरवो मुक्तः साधु देवेति वादिभिः ॥ ४० ॥
मालिनं निहतं दृष्ट्वा सुमाली मल्यवानपि ।सबलौ शोकसंतप्तौ लङ्कां प्रति विधावितौ ॥ ४१ ॥
गरुडस्तु समाश्वस्तः संनिवृत्य महामनाः ।राक्षसान्द्रावयामास पक्षवातेन कोपितः ॥ ४२ ॥
नारायणोऽपीषुवराशनीभिर्विदारयामास धनुःप्रमुक्तैः ।नक्तंचरान्मुक्तविधूतकेशान्यथाशनीभिः सतडिन्महेन्द्रः ॥ ४३ ॥
भिन्नातपत्रं पतमानशस्त्रं शरैरपध्वस्तविशीर्णदेहम् ।विनिःसृतान्त्रं भयलोलनेत्रं बलं तदुन्मत्तनिभं बभूव ॥ ४४ ॥
सिंहार्दितानामिव कुञ्जराणां निशाचराणां सह कुञ्जराणाम् ।रवाश्च वेगाश्च समं बभूवुः पुराणसिंहेन विमर्दितानाम् ॥ ४५ ॥
संछाद्यमाना हरिबाणजालैः स्वबाणजालानि समुत्सृजन्तः ।धावन्ति नक्तंचरकालमेघा वायुप्रणुन्ना इव कालमेघाः ॥ ४६ ॥
चक्रप्रहारैर्विनिकृत्तशीर्षाः संचूर्णिताङ्गाश्च गदाप्रहारैः ।असिप्रहारैर्बहुधा विभक्ताः पतन्ति शैला इव राक्षसेन्द्राः ॥ ४७ ॥
चक्रकृत्तास्यकमला गदासंचूर्णितोरसः ।लाङ्गलग्लपितग्रीवा मुसलैर्भिन्नमस्तकाः ॥ ४८ ॥
केचिच्चैवासिना छिन्नास्तथान्ये शरताडिताः ।निपेतुरम्बरात्तूर्णं राक्षसाः सागराम्भसि ॥ ४९ ॥
तदाम्बरं विगलितहारकुण्डलैर्निशाचरैर्नीलबलाहकोपमैः ।निपात्यमानैर्ददृशे निरन्तरं निपात्यमानैरिव नीलपर्वतैः ॥ ५० ॥
« »