Click on words to see what they mean.

कथां कथयतां तेषां जयं चाकाङ्क्षतां शुभम् ।व्यतीता रजनी शीघ्रं शत्रुघ्नस्य महात्मनः ॥ १ ॥
ततः प्रभाते विमले तस्मिन्काले स राक्षसः ।निर्गतस्तु पुराद्वीरो भक्षाहारप्रचोदितः ॥ २ ॥
एतस्मिन्नन्तरे शूरः शत्रुघ्नो यमुनां नदीम् ।तीर्त्वा मधुपुरद्वारि धनुष्पाणिरतिष्ठत ॥ ३ ॥
ततोऽर्धदिवसे प्राप्ते क्रूरकर्मा स राक्षसः ।आगच्छद्बहुसाहस्रं प्राणिनामुद्वहन्भरम् ॥ ४ ॥
ततो ददर्श शत्रुघ्नं स्थितं द्वारि धृतायुधम् ।तमुवाच ततो रक्षः किमनेन करिष्यसि ॥ ५ ॥
ईदृशानां सहस्राणि सायुधानां नराधम ।भक्षितानि मया रोषात्कालमाकाङ्क्षसे नु किम् ॥ ६ ॥
आहारश्चाप्यसंपूर्णो ममायं पुरुषाधम ।स्वयं प्रविष्टो नु मुखं कथमासाद्य दुर्मते ॥ ७ ॥
तस्यैवं भाषमाणस्य हसतश्च मुहुर्मुहुः ।शत्रुघ्नो वीर्यसंपन्नो रोषादश्रूण्यवर्तयत् ॥ ८ ॥
तस्य रोषाभिभूतस्य शत्रुघ्नस्य महात्मनः ।तेजोमया मरीच्यस्तु सर्वगात्रैर्विनिष्पतन् ॥ ९ ॥
उवाच च सुसंक्रुद्धः शत्रुघ्नस्तं निशाचरम् ।योद्धुमिच्छामि दुर्बुद्धे द्वन्द्वयुद्धं त्वया सह ॥ १० ॥
पुत्रो दशरथस्याहं भ्राता रामस्य धीमतः ।शत्रुघ्नो नाम शत्रुघ्नो वधाकाङ्क्षी तवागतः ॥ ११ ॥
तस्य मे युद्धकामस्य द्वन्द्वयुद्धं प्रदीयताम् ।शत्रुस्त्वं सर्वजीवानां न मे जीवन्गमिष्यसि ॥ १२ ॥
तस्मिंस्तथा ब्रुवाणे तु राक्षसः प्रहसन्निव ।प्रत्युवाच नरश्रेष्ठं दिष्ट्या प्राप्तोऽसि दुर्मते ॥ १३ ॥
मम मातृष्वसुर्भ्राता रावणो नाम राक्षसः ।हतो रामेण दुर्बुद्धे स्त्रीहेतोः पुरुषाधम ॥ १४ ॥
तच्च सर्वं मया क्षान्तं रावणस्य कुलक्षयम् ।अवज्ञां पुरतः कृत्वा मया यूयं विशेषतः ॥ १५ ॥
न हताश्च हि मे सर्वे परिभूतास्तृणं यथा ।भूताश्चैव भविष्याश्च यूयं च पुरुषाधमाः ॥ १६ ॥
तस्य ते युद्धकामस्य युद्धं दास्यामि दुर्मते ।ईप्सितं यादृशं तुभ्यं सज्जये यावदायुधम् ॥ १७ ॥
तमुवाचाथ शत्रुघ्नः क्व मे जीवन्गमिष्यसि ।दुर्बलोऽप्यागतः शत्रुर्न मोक्तव्यः कृतात्मना ॥ १८ ॥
यो हि विक्लवया बुद्ध्या प्रसरं शत्रवे ददौ ।स हतो मन्दबुद्धित्वाद्यथा कापुरुषस्तथा ॥ १९ ॥
« »