Click on words to see what they mean.

तैर्वध्यमाना देवाश्च ऋषयश्च तपोधनाः ।भयार्ताः शरणं जग्मुर्देवदेवं महेश्वरम् ॥ १ ॥
ते समेत्य तु कामारिं त्रिपुरारिं त्रिलोचनम् ।ऊचुः प्राञ्जलयो देवा भयगद्गदभाषिणः ॥ २ ॥
सुकेशपुत्रैर्भगवन्पितामहवरोद्धतैः ।प्रजाध्यक्ष प्रजाः सर्वा बाध्यन्ते रिपुबाधन ॥ ३ ॥
शरण्यान्यशरण्यानि आश्रमाणि कृतानि नः ।स्वर्गाच्च च्यावितः शक्रः स्वर्गे क्रीडन्ति शक्रवत् ॥ ४ ॥
अहं विष्णुरहं रुद्रो ब्रह्माहं देवराडहम् ।अहं यमोऽहं वरुणश्चन्द्रोऽहं रविरप्यहम् ॥ ५ ॥
इति ते राक्षसा देव वरदानेन दर्पिताः ।बाधन्ते समरोद्धर्षा ये च तेषां पुरःसराः ॥ ६ ॥
तन्नो देवभयार्तानामभयं दातुमर्हसि ।अशिवं वपुरास्थाय जहि दैवतकण्टकान् ॥ ७ ॥
इत्युक्तस्तु सुरैः सर्वैः कपर्दी नीललोहितः ।सुकेशं प्रति सापेक्ष आह देवगणान्प्रभुः ॥ ८ ॥
नाहं तान्निहनिष्यामि अवध्या मम तेऽसुराः ।किं तु मन्त्रं प्रदास्यामि यो वै तान्निहनिष्यति ॥ ९ ॥
एवमेव समुद्योगं पुरस्कृत्य सुरर्षभाः ।गच्छन्तु शरणं विष्णुं हनिष्यति स तान्प्रभुः ॥ १० ॥
ततस्ते जयशब्देन प्रतिनन्द्य महेश्वरम् ।विष्णोः समीपमाजग्मुर्निशाचरभयार्दिताः ॥ ११ ॥
शङ्खचक्रधरं देवं प्रणम्य बहुमान्य च ।ऊचुः संभ्रान्तवद्वाक्यं सुकेशतनयार्दिताः ॥ १२ ॥
सुकेशतनयैर्देव त्रिभिस्त्रेताग्निसंनिभैः ।आक्रम्य वरदानेन स्थानान्यपहृतानि नः ॥ १३ ॥
लङ्का नाम पुरी दुर्गा त्रिकूटशिखरे स्थिता ।तत्र स्थिताः प्रबाधन्ते सर्वान्नः क्षणदाचराः ॥ १४ ॥
स त्वमस्मत्प्रियार्थं तु जहि तान्मधुसूदन ।चक्रकृत्तास्यकमलान्निवेदय यमाय वै ॥ १५ ॥
भयेष्वभयदोऽस्माकं नान्योऽस्ति भवता समः ।नुद त्वं नो भयं देव नीहारमिव भास्करः ॥ १६ ॥
इत्येवं दैवतैरुक्तो देवदेवो जनार्दनः ।अभयं भयदोऽरीणां दत्त्वा देवानुवाच ह ॥ १७ ॥
सुकेशं राक्षसं जाने ईशानवरदर्पितम् ।तांश्चास्य तनयाञ्जाने येषां ज्येष्ठः स माल्यवान् ॥ १८ ॥
तानहं समतिक्रान्तमर्यादान्राक्षसाधमान् ।सूदयिष्यामि संग्रामे सुरा भवत विज्वराः ॥ १९ ॥
इत्युक्तास्ते सुराः सर्वे विष्णुना प्रभविष्णुना ।यथा वासं ययुर्हृष्टाः प्रशमन्तो जनार्दनम् ॥ २० ॥
विबुधानां समुद्योगं माल्यवान्स निशाचरः ।श्रुत्वा तौ भ्रातरौ वीराविदं वचनमब्रवीत् ॥ २१ ॥
अमरा ऋषयश्चैव संहत्य किल शंकरम् ।अस्मद्वधं परीप्सन्त इदमूचुस्त्रिलोचनम् ॥ २२ ॥
सुकेशतनया देव वरदानबलोद्धताः ।बाधन्तेऽस्मान्समुद्युक्ता घोररूपाः पदे पदे ॥ २३ ॥
राक्षसैरभिभूताः स्म न शक्ताः स्म उमापते ।स्वेषु वेश्मसु संस्थातुं भयात्तेषां दुरात्मनाम् ॥ २४ ॥
तदस्माकं हितार्थे त्वं जहि तांस्तांस्त्रिलोचन ।राक्षसान्हुंकृतेनैव दह प्रदहतां वर ॥ २५ ॥
इत्येवं त्रिदशैरुक्तो निशम्यान्धकसूदनः ।शिरः करं च धुन्वान इदं वचनमब्रवीत् ॥ २६ ॥
अवध्या मम ते देवाः सुकेशतनया रणे ।मन्त्रं तु वः प्रदास्यामि यो वै तान्निहनिष्यति ॥ २७ ॥
यः स चक्रगदापाणिः पीतवासा जनार्दनः ।हनिष्यति स तान्युद्धे शरणं तं प्रपद्यथ ॥ २८ ॥
हरान्नावाप्य ते कामं कामारिमभिवाद्य च ।नारायणालयं प्राप्तास्तस्मै सर्वं न्यवेदयन् ॥ २९ ॥
ततो नारायणेनोक्ता देवा इन्द्रपुरोगमाः ।सुरारीन्सूदयिष्यामि सुरा भवत विज्वराः ॥ ३० ॥
देवानां भयभीतानां हरिणा राक्षसर्षभौ ।प्रतिज्ञातो वधोऽस्माकं तच्चिन्तयथ यत्क्षमम् ॥ ३१ ॥
हिरण्यकशिपोर्मृत्युरन्येषां च सुरद्विषाम् ।दुःखं नारायणं जेतुं यो नो हन्तुमभीप्सति ॥ ३२ ॥
ततः सुमाली माली च श्रुत्वा माल्यवतो वचः ।ऊचतुर्भ्रातरं ज्येष्ठं भगांशाविव वासवम् ॥ ३३ ॥
स्वधीतं दत्तमिष्टं च ऐश्वर्यं परिपालितम् ।आयुर्निरामयं प्राप्तं स्वधर्मः स्थापितश्च नः ॥ ३४ ॥
देवसागरमक्षोभ्यं शस्त्रौघैः प्रविगाह्य च ।जिता देवा रणे नित्यं न नो मृत्युकृतं भयम् ॥ ३५ ॥
नारायणश्च रुद्रश्च शक्रश्चापि यमस्तथा ।अस्माकं प्रमुखे स्थातुं सर्व एव हि बिभ्यति ॥ ३६ ॥
विष्णोर्दोषश्च नास्त्यत्र कारणं राक्षसेश्वर ।देवानामेव दोषेण विष्णोः प्रचलितं मनः ॥ ३७ ॥
तस्मादद्य समुद्युक्ताः सर्वसैन्यसमावृताः ।देवानेव जिघांसामो येभ्यो दोषः समुत्थितः ॥ ३८ ॥
इति माली सुमाली च माल्यवानग्रजः प्रभुः ।उद्योगं घोषयित्वाथ राक्षसाः सर्व एव ते ।युद्धाय निर्ययुः क्रुद्धा जम्भवृत्रबला इव ॥ ३९ ॥
स्यन्दनैर्वारणेन्द्रैश्च हयैश्च गिरिसंनिभैः ।खरैर्गोभिरथोष्ट्रैश्च शिंशुमारैर्भुजंगमैः ॥ ४० ॥
मकरैः कच्छपैर्मीनैर्विहंगैर्गरुडोपमैः ।सिंहैर्व्याघ्रैर्वराहैश्च सृमरैश्चमरैरपि ॥ ४१ ॥
त्यक्त्वा लङ्कां ततः सर्वे राक्षसा बलगर्विताः ।प्रयाता देवलोकाय योद्धुं दैवतशत्रवः ॥ ४२ ॥
लङ्काविपर्ययं दृष्ट्वा यानि लङ्कालयान्यथ ।भूतानि भयदर्शीनि विमनस्कानि सर्वशः ॥ ४३ ॥
भौमास्तथान्तरिक्षाश्च कालाज्ञप्ता भयावहाः ।उत्पाता राक्षसेन्द्राणामभावायोत्थिता द्रुतम् ॥ ४४ ॥
अस्थीनि मेघा वर्षन्ति उष्णं शोणितमेव च ।वेलां समुद्रोऽप्युत्क्रान्तश्चलन्ते चाचलोत्तमाः ॥ ४५ ॥
अट्टहासान्विमुञ्चन्तो घननादसमस्वनान् ।भूताः परिपतन्ति स्म नृत्यमानाः सहस्रशः ॥ ४६ ॥
गृध्रचक्रं महच्चापि ज्वलनोद्गारिभिर्मुखैः ।राक्षसानामुपरि वै भ्रमते कालचक्रवत् ॥ ४७ ॥
तानचिन्त्य महोत्पातान्राक्षसा बलगर्विताः ।यन्त्येव न निवर्तन्ते मृत्युपाशावपाशिताः ॥ ४८ ॥
माल्यवांश्च सुमाली च माली च रजनीचराः ।आसन्पुरःसरास्तेषां क्रतूनामिव पावकाः ॥ ४९ ॥
माल्यवन्तं तु ते सर्वे माल्यवन्तमिवाचलम् ।निशाचरा आश्रयन्ते धातारमिव देहिनः ॥ ५० ॥
तद्बलं राक्षसेन्द्राणां महाभ्रघननादितम् ।जयेप्सया देवलोकं ययौ माली वशे स्थितम् ॥ ५१ ॥
राक्षसानां समुद्योगं तं तु नारायणः प्रभुः ।देवदूतादुपश्रुत्य दध्रे युद्धे ततो मनः ॥ ५२ ॥
स देवसिद्धर्षिमहोरगैश्च गन्धर्वमुख्याप्सरसोपगीतः ।समाससादामरशत्रुसैन्यं चक्रासिसीरप्रवरादिधारी ॥ ५३ ॥
सुपर्णपक्षानिलनुन्नपक्षं भ्रमत्पताकं प्रविकीर्णशस्त्रम् ।चचाल तद्राक्षसराजसैन्यं चलोपलो नील इवाचलेन्द्रः ॥ ५४ ॥
ततः शितैः शोणितमांसरूषितैर्युगान्तवैश्वानरतुल्यविग्रहैः ।निशाचराः संपरिवार्य माधवं वरायुधैर्निर्बिभिदुः सहस्रशः ॥ ५५ ॥
« »