सुकेशं धार्मिकं दृष्ट्वा वरलब्धं च राक्षसम् ।ग्रामणीर्नाम गन्धर्वो विश्वावसुसमप्रभः ॥ १ ॥
तस्य देववती नाम द्वितीया श्रीरिवात्मजा ।तां सुकेशाय धर्मेण ददौ दक्षः श्रियं यथा ॥ २ ॥
वरदानकृतैश्वर्यं सा तं प्राप्य पतिं प्रियम् ।आसीद्देववती तुष्टा धनं प्राप्येव निर्धनः ॥ ३ ॥
स तया सह संयुक्तो रराज रजनीचरः ।अञ्जनादभिनिष्क्रान्तः करेण्वेव महागजः ॥ ४ ॥
देववत्यां सुकेशस्तु जनयामास राघव ।त्रींस्त्रिनेत्रसमान्पुत्रान्राक्षसान्राक्षसाधिपः ।माल्यवन्तं सुमालिं च मालिं च बलिनां वरम् ॥ ५ ॥
त्रयो लोका इवाव्यग्राः स्थितास्त्रय इवाग्नयः ।त्रयो मन्त्रा इवात्युग्रास्त्रयो घोरा इवामयाः ॥ ६ ॥
त्रयः सुकेशस्य सुतास्त्रेताग्निसमवर्चसः ।विवृद्धिमगमंस्तत्र व्याधयोपेक्षिता इव ॥ ७ ॥
वरप्राप्तिं पितुस्ते तु ज्ञात्वैश्वर्यं ततो महत् ।तपस्तप्तुं गता मेरुं भ्रातरः कृतनिश्चयाः ॥ ८ ॥
प्रगृह्य नियमान्घोरान्राक्षसा नृपसत्तम ।विचेरुस्ते तपो घोरं सर्वभूतभयावहम् ॥ ९ ॥
सत्यार्जवदमोपेतैस्तपोभिर्भुवि दुष्करैः ।संतापयन्तस्त्रीँल्लोकान्सदेवासुरमानुषान् ॥ १० ॥
ततो विभुश्चतुर्वक्त्रो विमानवरमास्थितः ।सुकेशपुत्रानामन्त्र्य वरदोऽस्मीत्यभाषत ॥ ११ ॥
ब्रह्माणं वरदं ज्ञात्वा सेन्द्रैर्देवगणैर्वृतम् ।ऊचुः प्राञ्जलयः सर्वे वेपमाना इव द्रुमाः ॥ १२ ॥
तपसाराधितो देव यदि नो दिशसे वरम् ।अजेयाः शत्रुहन्तारस्तथैव चिरजीविनः ।प्रभविष्णवो भवामेति परस्परमनुव्रताः ॥ १३ ॥
एवं भविष्यतीत्युक्त्वा सुकेशतनयान्प्रभुः ।प्रययौ ब्रह्मलोकाय ब्रह्मा ब्राह्मणवत्सलः ॥ १४ ॥
वरं लब्ध्वा ततः सर्वे राम रात्रिंचरास्तदा ।सुरासुरान्प्रबाधन्ते वरदानात्सुनिर्भयाः ॥ १५ ॥
तैर्वध्यमानास्त्रिदशाः सर्षिसंघाः सचारणाः ।त्रातारं नाधिगच्छन्ति निरयस्था यथा नराः ॥ १६ ॥
अथ ते विश्वकर्माणं शिल्पिनां वरमव्ययम् ।ऊचुः समेत्य संहृष्टा राक्षसा रघुसत्तम ॥ १७ ॥
गृहकर्ता भवानेव देवानां हृदयेप्सितम् ।अस्माकमपि तावत्त्वं गृहं कुरु महामते ॥ १८ ॥
हिमवन्तं समाश्रित्य मेरुं मन्दरमेव वा ।महेश्वरगृहप्रख्यं गृहं नः क्रियतां महत् ॥ १९ ॥
विश्वकर्मा ततस्तेषां राक्षसानां महाभुजः ।निवासं कथयामास शक्रस्येवामरावतीम् ॥ २० ॥
दक्षिणस्योदधेस्तीरे त्रिकूटो नाम पर्वतः ।शिखरे तस्य शैलस्य मध्यमेऽम्बुदसंनिभे ।शकुनैरपि दुष्प्रापे टङ्कच्छिन्नचतुर्दिशि ॥ २१ ॥
त्रिंशद्योजनविस्तीर्णा स्वर्णप्राकारतोरणा ।मया लङ्केति नगरी शक्राज्ञप्तेन निर्मिता ॥ २२ ॥
तस्यां वसत दुर्धर्षाः पुर्यां राक्षससत्तमाः ।अमरावतीं समासाद्य सेन्द्रा इव दिवौकसः ॥ २३ ॥
लङ्कादुर्गं समासाद्य राक्षसैर्बहुभिर्वृताः ।भविष्यथ दुराधर्षाः शत्रूणां शत्रुसूदनाः ॥ २४ ॥
विश्वकर्मवचः श्रुत्वा ततस्ते राम राक्षसाः ।सहस्रानुचरा गत्वा लङ्कां तामवसन्पुरीम् ॥ २५ ॥
दृढप्राकारपरिखां हैमैर्गृहशतैर्वृताम् ।लङ्कामवाप्य ते हृष्टा विहरन्ति निशाचराः ॥ २६ ॥
नर्मदा नाम गन्धर्वी नानाधर्मसमेधिता ।तस्याः कन्यात्रयं ह्यासीद्धीश्रीकीर्तिसमद्युति ॥ २७ ॥
ज्येष्ठक्रमेण सा तेषां राक्षसानामराक्षसी ।कन्यास्ताः प्रददौ हृष्टा पूर्णचन्द्रनिभाननाः ॥ २८ ॥
त्रयाणां राक्षसेन्द्राणां तिस्रो गन्धर्वकन्यकाः ।मात्रा दत्ता महाभागा नक्षत्रे भगदैवते ॥ २९ ॥
कृतदारास्तु ते राम सुकेशतनयाः प्रभो ।भार्याभिः सह चिक्रीडुरप्सरोभिरिवामराः ॥ ३० ॥
तत्र माल्यवतो भार्या सुन्दरी नाम सुन्दरी ।स तस्यां जनयामास यदपत्यं निबोध तत् ॥ ३१ ॥
वज्रमुष्टिर्विरूपाक्षो दुर्मुखश्चैव राक्षसः ।सुप्तघ्नो यज्ञकोपश्च मत्तोन्मत्तौ तथैव च ।अनला चाभवत्कन्या सुन्दर्यां राम सुन्दरी ॥ ३२ ॥
सुमालिनोऽपि भार्यासीत्पूर्णचन्द्रनिभानना ।नाम्ना केतुमती नाम प्राणेभ्योऽपि गरीयसी ॥ ३३ ॥
सुमाली जनयामास यदपत्यं निशाचरः ।केतुमत्यां महाराज तन्निबोधानुपूर्वशः ॥ ३४ ॥
प्रहस्तोऽकम्पनैश्चैव विकटः कालकार्मुकः ।धूम्राक्शश्चाथ दण्डश्च सुपार्श्वश्च महाबलः ॥ ३५ ॥
संह्रादिः प्रघसश्चैव भासकर्णश्च राक्षसः ।राका पुष्पोत्कटा चैव कैकसी च शुचिस्मिता ।कुम्भीनसी च इत्येते सुमालेः प्रसवाः स्मृताः ॥ ३६ ॥
मालेस्तु वसुदा नाम गन्धर्वी रूपशालिनी ।भार्यासीत्पद्मपत्राक्षी स्वक्षी यक्षीवरोपमा ॥ ३७ ॥
सुमालेरनुजस्तस्यां जनयामास यत्प्रभो ।अपत्यं कथ्यमानं तन्मया त्वं शृणु राघव ॥ ३८ ॥
अनलश्चानिलश्चैव हरः संपातिरेव च ।एते विभीषणामात्या मालेयास्ते निशाचराः ॥ ३९ ॥
ततस्तु ते राक्षसपुंगवास्त्रयो निशाचरैः पुत्रशतैश्च संवृताः ।सुरान्सहेन्द्रानृषिनागदानवान्बबाधिरे ते बलवीर्यदर्पिताः ॥ ४० ॥
जगद्भ्रमन्तोऽनिलवद्दुरासदा रणे च मृत्युप्रतिमाः समाहिताः ।वरप्रदानादभिगर्विता भृशं क्रतुक्रियाणां प्रशमंकराः सदा ॥ ४१ ॥