Click on words to see what they mean.

स विसृज्य ततो रामः पुष्पकं हेमभूषितम् ।प्रविवेश महाबाहुरशोकवनिकां तदा ॥ १ ॥
चन्दनागरुचूतैश्च तुङ्गकालेयकैरपि ।देवदारुवनैश्चापि समन्तादुपशोभिताम् ॥ २ ॥
प्रियङ्गुभिः कदम्बैश्च तथा कुरबकैरपि ।जम्बूभिः पाटलीभिश्च कोविदारैश्च संवृताम् ॥ ३ ॥
सर्वदा कुसुमै रम्यैः फलवद्भिर्मनोरमैः ।चारुपल्लवपुष्पाढ्यैर्मत्तभ्रमरसंकुलैः ॥ ४ ॥
कोकिलैर्भृङ्गराजैश्च नानावर्णैश्च पक्षिभिः ।शोभितां शतशश्चित्रैश्चूतवृक्षावतंसकैः ॥ ५ ॥
शातकुम्भनिभाः केचित्केचिदग्निशिखोपमाः ।नीलाञ्जननिभाश्चान्ये भान्ति तत्र स्म पादपाः ॥ ६ ॥
दीर्घिका विविधाकाराः पूर्णाः परमवारिणा ।महार्हमणिसोपानस्फटिकान्तरकुट्टिमाः ॥ ७ ॥
फुल्लपद्मोत्पलवनाश्चक्रवाकोपशोभिताः ।प्राकारैर्विविधाकारैः शोभिताश्च शिलातलैः ॥ ८ ॥
तत्र तत्र वनोद्देशे वैदूर्यमणिसंनिभैः ।शाद्वलैः परमोपेताः पुष्पितद्रुमसंयुताः ॥ ९ ॥
नन्दनं हि यथेन्द्रस्य ब्राह्मं चैत्ररथं यथा ।तथारूपं हि रामस्य काननं तन्निवेशितम् ॥ १० ॥
बह्वासनगृहोपेतां लतागृहसमावृताम् ।अशोकवनिकां स्फीतां प्रविश्य रघुनन्दनः ॥ ११ ॥
आसने तु शुभाकारे पुष्पस्तबकभूषिते ।कुथास्तरणसंवीते रामः संनिषसाद ह ॥ १२ ॥
सीतां संगृह्य बाहुभ्यां मधुमैरेयमुत्तमम् ।पाययामास काकुत्स्थः शचीमिन्द्रो यथामृतम् ॥ १३ ॥
मांसानि च विचित्राणि फलानि विविधानि च ।रामस्याभ्यवहारार्थं किंकरास्तूर्णमाहरन् ॥ १४ ॥
उपनृत्यन्ति राजानं नृत्यगीतविशारदाः ।बालाश्च रूपवत्यश्च स्त्रियः पानवशं गताः ॥ १५ ॥
एवं रामो मुदा युक्तः सीतां सुरुचिराननाम् ।रमयामास वैदेहीमहन्यहनि देववत् ॥ १६ ॥
तथा तु रममाणस्य तस्यैवं शिशिरः शुभः ।अत्यक्रामन्नरेन्द्रस्य राघवस्य महात्मनः ॥ १७ ॥
पूर्वाह्णे पौरकृत्यानि कृत्वा धर्मेण धर्मवित् ।शेषं दिवसभागार्धमन्तःपुरगतोऽभवत् ॥ १८ ॥
सीता च देवकार्याणि कृत्वा पौर्वाह्णिकानि तु ।श्वश्रूणामविशेषेण सर्वासां प्राञ्जलिः स्थिता ॥ १९ ॥
ततो राममुपागच्छद्विचित्रबहुभूषणा ।त्रिविष्टपे सहस्राक्षमुपविष्टं यथा शची ॥ २० ॥
दृष्ट्वा तु राघवः पत्नीं कल्याणेन समन्विताम् ।प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत् ॥ २१ ॥
अपत्यलाभो वैदेहि ममायं समुपस्थितः ।किमिच्छसि हि तद्ब्रूहि कः कामः क्रियतां तव ॥ २२ ॥
प्रहसन्ती तु वैदेही रामं वाक्यमथाब्रवीत् ।तपोवनानि पुण्यानि द्रष्टुमिच्छामि राघव ॥ २३ ॥
गङ्गातीरे निविष्टानि ऋषीणां पुण्यकर्मणाम् ।फलमूलाशिनां वीर पादमूलेषु वर्तितुम् ॥ २४ ॥
एष मे परमः कामो यन्मूलफलभोजिषु ।अप्येकरात्रं काकुत्स्थ वसेयं पुण्यशालिषु ॥ २५ ॥
तथेति च प्रतिज्ञातं रामेणाक्लिष्टकर्मणा ।विस्रब्धा भव वैदेहि श्वो गमिष्यस्यसंशयम् ॥ २६ ॥
एवमुक्त्वा तु काकुत्स्थो मैथिलीं जनकात्मजाम् ।मध्यकक्षान्तरं रामो निर्जगाम सुहृद्वृतः ॥ २७ ॥
« »