Click on words to see what they mean.

तथा स्म तेषां वसतामृक्षवानररक्षसाम् ।राघवस्तु महातेजाः सुग्रीवमिदमब्रवीत् ॥ १ ॥
गम्यतां सौम्य किष्किन्धां दुराधर्षां सुरासुरैः ।पालयस्व सहामात्यै राज्यं निहतकण्टकम् ॥ २ ॥
अङ्गदं च महाबाहो प्रीत्या परमयान्वितः ।पश्य त्वं हनुमन्तं च नलं च सुमहाबलम् ॥ ३ ॥
सुषेणं श्वशुरं शूरं तारं च बलिनां वरम् ।कुमुदं चैव दुर्धर्षं नीलं च सुमहाबलम् ॥ ४ ॥
वीरं शतबलिं चैव मैन्दं द्विविदमेव च ।गजं गवाक्षं गवयं शरभं च महाबलम् ॥ ५ ॥
ऋक्षराजं च दुर्धर्षं जाम्बवन्तं महाबलम् ।पश्य प्रीतिसमायुक्तो गन्धमादनमेव च ॥ ६ ॥
ये चान्ये सुमहात्मानो मदर्थे त्यक्तजीविताः ।पश्य त्वं प्रीतिसंयुक्तो मा चैषां विप्रियं कृथाः ॥ ७ ॥
एवमुक्त्वा च सुग्रीवं प्रशस्य च पुनः पुनः ।विभीषणमथोवाच रामो मधुरया गिरा ॥ ८ ॥
लङ्कां प्रशाधि धर्मेण संमतो ह्यसि पार्थिव ।पुरस्य राक्षसानां च भ्रातुर्वैश्वरणस्य च ॥ ९ ॥
मा च बुद्धिमधर्मे त्वं कुर्या राजन्कथंचन ।बुद्धिमन्तो हि राजानो ध्रुवमश्नन्ति मेदिनीम् ॥ १० ॥
अहं च नित्यशो राजन्सुग्रीवसहितस्त्वया ।स्मर्तव्यः परया प्रीत्या गच्छ त्वं विगतज्वरः ॥ ११ ॥
रामस्य भाषितं श्रुत्वा ऋक्षवानरराक्षसाः ।साधु साध्विति काकुत्स्थं प्रशशंसुः पुनः पुनः ॥ १२ ॥
तव बुद्धिर्महाबाहो वीर्यमद्भुतमेव च ।माधुर्यं परमं राम स्वयम्भोरिव नित्यदा ॥ १३ ॥
तेषामेवं ब्रुवाणानां वानराणां च रक्षसाम् ।हनूमान्प्रणतो भूत्वा राघवं वाक्यमब्रवीत् ॥ १४ ॥
स्नेहो मे परमो राजंस्त्वयि नित्यं प्रतिष्ठितः ।भक्तिश्च नियता वीर भावो नान्यत्र गच्छति ॥ १५ ॥
यावद्रामकथां वीर श्रोष्येऽहं पृथिवीतले ।तावच्छरीरे वत्स्यन्तु मम प्राणा न संशयः ॥ १६ ॥
एवं ब्रुवाणं राजेन्द्रो हनूमन्तमथासनात् ।उत्थाय च परिष्वज्य वाक्यमेतदुवाच ह ॥ १७ ॥
एवमेतत्कपिश्रेष्ठ भविता नात्र संशयः ।लोका हि यावत्स्थास्यन्ति तावत्स्थास्यति मे कथा ॥ १८ ॥
चरिष्यति कथा यावल्लोकानेषा हि मामिका ।तावच्छरीरे वत्स्यन्ति प्राणास्तव न संशयः ॥ १९ ॥
ततोऽस्य हारं चन्द्राभं मुच्य कण्ठात्स राघवः ।वैदूर्यतरलं स्नेहादाबबन्धे हनूमति ॥ २० ॥
तेनोरसि निबद्धेन हारेण स महाकपिः ।रराज हेमशैलेन्द्रश्चन्द्रेणाक्रान्तमस्तकः ॥ २१ ॥
श्रुत्वा तु राघवस्यैतदुत्थायोत्थाय वानराः ।प्रणम्य शिरसा पादौ प्रजग्मुस्ते महाबलाः ॥ २२ ॥
सुग्रीवश्चैव रामेण परिष्वक्तो महाभुजः ।विभीषणश्च धर्मात्मा निरन्तरमुरोगतः ॥ २३ ॥
सर्वे च ते बाष्पगलाः साश्रुनेत्रा विचेतसः ।संमूढा इव दुःखेन त्यजन्ते राघवं तदा ॥ २४ ॥
« »