Click on words to see what they mean.

नर्मदा पुलिने यत्र राक्षसेन्द्रः स रावणः ।पुष्पोपहारं कुरुते तस्माद्देशाददूरतः ॥ १ ॥
अर्जुनो जयतां श्रेष्ठो माहिष्मत्याः पतिः प्रभुः ।क्रीडिते सह नारीभिर्नर्मदातोयमाश्रितः ॥ २ ॥
तासां मध्यगतो राज रराज स ततोऽर्जुनः ।करेणूनां सहस्रस्य मध्यस्थ इव कुञ्जरः ॥ ३ ॥
जिज्ञासुः स तु बाहूनां सहस्रस्योत्तमं बलम् ।रुरोध नर्मदा वेगं बाहुभिः स तदार्जुनः ॥ ४ ॥
कार्तवीर्यभुजासेतुं तज्जलं प्राप्य निर्मलम् ।कूलापहारं कुर्वाणं प्रतिस्रोतः प्रधावति ॥ ५ ॥
समीननक्रमकरः सपुष्पकुशसंस्तरः ।स नर्मदाम्भसो वेगः प्रावृट्काल इवाबभौ ॥ ६ ॥
स वेगः कार्तवीर्येण संप्रेषिट इवाम्भसः ।पुष्पोपहारं तत्सर्वं रावणस्य जहार ह ॥ ७ ॥
रावणोऽर्धसमाप्तं तु उत्सृज्य नियमं तदा ।नर्मदां पश्यते कान्तां प्रतिकूलां यथा प्रियाम् ॥ ८ ॥
पश्चिमेन तु तं दृष्ट्वा सागरोद्गारसंनिभम् ।वर्धन्तमम्भसो वेगं पूर्वामाशां प्रविश्य तु ॥ ९ ॥
ततोऽनुद्भ्रान्तशकुनां स्वाभाव्ये परमे स्थिताम् ।निर्विकाराङ्गनाभासां पश्यते रावणो नदीम् ॥ १० ॥
सव्येतरकराङ्गुल्या सशब्दं च दशाननः ।वेगप्रभवमन्वेष्टुं सोऽदिशच्छुकसारणौ ॥ ११ ॥
तौ तु रावणसंदिष्टौ भ्रातरौ शुकसारणौ ।व्योमान्तरचरौ वीरौ प्रस्थितौ पश्चिमोन्मुखौ ॥ १२ ॥
अर्धयोजनमात्रं तु गत्वा तौ तु निशाचरौ ।पश्येतां पुरुषं तोये क्रीडन्तं सहयोषितम् ॥ १३ ॥
बृहत्सालप्रतीकशं तोयव्याकुलमूर्धजम् ।मदरक्तान्तनयनं मदनाकारवर्चसं ॥ १४ ॥
नदीं बाहुसहस्रेण रुन्धन्तमरिमर्दनम् ।गिरिं पादसहस्रेण रुन्धन्तमिव मेदिनीम् ॥ १५ ॥
बालानां वरनारीणां सहस्रेणाभिसंवृतम् ।समदानां करेणूनां सहस्रेणेव कुञ्जरम् ॥ १६ ॥
तमद्भुततमं दृष्ट्वा राक्षसौ शुकसारणौ ।संनिवृत्तावुपागम्य रावणं तमथोचतुः ॥ १७ ॥
बृहत्सालप्रतीकाशः कोऽप्यसौ राक्षसेश्वर ।नर्मदां रोधवद्रुद्ध्वा क्रीडापयति योषितः ॥ १८ ॥
तेन बाहुसहस्रेण संनिरुद्धजला नदी ।सागरोद्गारसंकाशानुद्गारान्सृजते मुहुः ॥ १९ ॥
इत्येवं भाषमाणौ तौ निशम्य शुकसारणौ ।रावणोऽर्जुन इत्युक्त्वा उत्तस्थौ युद्धलालसः ॥ २० ॥
अर्जुनाभिमुखे तस्मिन्प्रस्थिते राक्षसेश्वरे ।सकृदेव कृतो रावः सरक्तः प्रेषितो घनैः ॥ २१ ॥
महोदरमहापार्श्वधूम्राक्षशुकसारणैः ।संवृतो राक्षसेन्द्रस्तु तत्रागाद्यत्र सोऽर्जुनः ॥ २२ ॥
नातिदीर्घेण कालेन स ततो राक्षसो बली ।तं नर्मदा ह्रदं भीममाजगामाञ्जनप्रभः ॥ २३ ॥
स तत्र स्त्रीपरिवृतं वाशिताभिरिव द्विपम् ।नरेन्द्रं पश्यते राजा राक्षसानां तदार्जुनम् ॥ २४ ॥
स रोषाद्रक्तनयनो राक्षसेन्द्रो बलोद्धतः ।इत्येवमर्जुनामात्यानाह गम्भीरया गिरा ॥ २५ ॥
अमात्याः क्षिप्रमाख्यात हैहयस्य नृपस्य वै ।युद्धार्थं समनुप्राप्तो रावणो नाम नामतः ॥ २६ ॥
रावणस्य वचः श्रुत्वा मन्त्रिणोऽथार्जुनस्य ते ।उत्तस्थुः सायुधास्तं च रावणं वाक्यमब्रुवन् ॥ २७ ॥
युद्धस्य कालो विज्ञातः साधु भोः साधु रावण ।यः क्षीबं स्त्रीवृतं चैव योद्धुमिच्छसि नो नृपम् ।वाशितामध्यगं मत्तं शार्दूल इव कुञ्जरम् ॥ २८ ॥
क्षमस्वाद्य दशग्रीव उष्यतां रजनी त्वया ।युद्धश्रद्धा तु यद्यस्ति श्वस्तात समरेऽर्जुनम् ॥ २९ ॥
यदि वापि त्वरा तुभ्यं युद्धतृष्णासमावृता ।निहत्यास्मांस्ततो युद्धमर्जुनेनोपयास्यसि ॥ ३० ॥
ततस्ते रावणामात्यैरमात्याः पार्थिवस्य तु ।सूदिताश्चापि ते युद्धे भक्षिताश्च बुभुक्षितैः ॥ ३१ ॥
ततो हलहलाशब्दो नर्मदा तिर आबभौ ।अर्जुनस्यानुयात्राणां रावणस्य च मन्त्रिणाम् ॥ ३२ ॥
इषुभिस्तोमरैः शूलैर्वज्रकल्पैः सकर्षणैः ।सरावणानर्दयन्तः समन्तात्समभिद्रुताः ॥ ३३ ॥
हैहयाधिपयोधानां वेग आसीत्सुदारुणः ।सनक्रमीनमकरसमुद्रस्येव निस्वनः ॥ ३४ ॥
रावणस्य तु तेऽमात्याः प्रहस्तशुकसारणाः ।कार्तवीर्यबलं क्रुद्धा निर्दहन्त्यग्नितेजसः ॥ ३५ ॥
अर्जुनाय तु तत्कर्म रावणस्य समन्त्रिणः ।क्रीडमानाय कथितं पुरुषैर्द्वाररक्षिभिः ॥ ३६ ॥
उक्त्वा न भेतव्यमिति स्त्रीजनं स ततोऽर्जुनः ।उत्ततार जलात्तस्माद्गङ्गातोयादिवाञ्जनः ॥ ३७ ॥
क्रोधदूषितनेत्रस्तु स ततोऽर्जुन पावकः ।प्रजज्वाल महाघोरो युगान्त इव पावकः ॥ ३८ ॥
स तूर्णतरमादाय वरहेमाङ्गदो गदाम् ।अभिद्रवति रक्षांसि तमांसीव दिवाकरः ॥ ३९ ॥
बाहुविक्षेपकरणां समुद्यम्य महागदाम् ।गारुडं वेगमास्थाय आपपातैव सोऽर्जुनः ॥ ४० ॥
तस्य मर्गं समावृत्य विन्ध्योऽर्कस्येव पर्वतः ।स्थितो विन्ध्य इवाकम्प्यः प्रहस्तो मुसलायुधः ॥ ४१ ॥
ततोऽस्य मुसलं घोरं लोहबद्धं मदोद्धतः ।प्रहस्तः प्रेषयन्क्रुद्धो ररास च यथाम्बुदः ॥ ४२ ॥
तस्याग्रे मुसलस्याग्निरशोकापीडसंनिभः ।प्रहस्तकरमुक्तस्य बभूव प्रदहन्निव ॥ ४३ ॥
आधावमानं मुसलं कार्तवीर्यस्तदार्जुनः ।निपुणं वञ्चयामास सगदो गजविक्रमः ॥ ४४ ॥
ततस्तमभिदुद्राव प्रहस्तं हैहयाधिपः ।भ्रामयाणो गदां गुर्वीं पञ्चबाहुशतोच्छ्रयाम् ॥ ४५ ॥
तेनाहतोऽतिवेगेन प्रहस्तो गदया तदा ।निपपात स्थितः शैलो वज्रिवज्रहतो यथा ॥ ४६ ॥
प्रहस्तं पतितं दृष्ट्वा मारीचशुकसारणाः ।समहोदरधूम्राक्षा अपसृप्ता रणाजिरात् ॥ ४७ ॥
अपक्रान्तेष्वमात्येषु प्रहस्ते च निपातिते ।रावणोऽभ्यद्रवत्तूर्णमर्जुनं नृपसत्तमम् ॥ ४८ ॥
सहस्रबाहोस्तद्युद्धं विंशद्बाहोश्च दारुणम् ।नृपराक्षसयोस्तत्र आरब्धं लोमहर्षणम् ॥ ४९ ॥
सागराविव संक्षुब्धौ चलमूलाविवाचलौ ।तेजोयुक्ताविवादित्यौ प्रदहन्ताविवानलौ ॥ ५० ॥
बलोद्धतौ यथा नागौ वाशितार्थे यथा वृषौ ।मेघाविव विनर्दन्तौ सिंहाविव बलोत्कटौ ॥ ५१ ॥
रुद्रकालाविव क्रुद्धौ तौ तथा राक्षसार्जुनौ ।परस्परं गदाभ्यां तौ ताडयामासतुर्भृशम् ॥ ५२ ॥
वज्रप्रहारानचला यथा घोरान्विषेहिरे ।गदाप्रहारांस्तद्वत्तौ सहेते नरराक्षसौ ॥ ५३ ॥
यथाशनिरवेभ्यस्तु जायते वै प्रतिश्रुतिः ।तथा ताभ्यां गदापातैर्दिशः सर्वाः प्रतिश्रुताः ॥ ५४ ॥
अर्जुनस्य गदा सा तु पात्यमानाहितोरसि ।काञ्चनाभं नभश्चक्रे विद्युत्सौदामनी यथा ॥ ५५ ॥
तथैव रावणेनापि पात्यमाना मुहुर्मुहुः ।अर्जुनोरसि निर्भाति गदोल्केव महागिरौ ॥ ५६ ॥
नार्जुनः खेदमाप्नोति न राक्षसगणेश्वरः ।सममासीत्तयोर्युद्धं यथा पूर्वं बलीन्द्रयोः ॥ ५७ ॥
शृङ्गैर्महर्षभौ यद्वद्दन्ताग्रैरिव कुञ्जरौ ।परस्परं विनिघ्नन्तौ नरराक्षससत्तमौ ॥ ५८ ॥
ततोऽर्जुनेन क्रुद्धेन सर्वप्राणेन सा गदा ।स्तनयोरन्तरे मुक्ता रावणस्य महाहवे ॥ ५९ ॥
वरदानकृतत्राणे सा गदा रावणोरसि ।दुर्बलेव यथा सेना द्विधाभूतापतत्क्षितौ ॥ ६० ॥
स त्वर्जुनप्रमुक्तेन गदापातेन रावणः ।अपासर्पद्धनुर्मात्रं निषसाद च निष्टनन् ॥ ६१ ॥
स विह्वलं तदालक्ष्य दशग्रीवं ततोऽर्जुनः ।सहसा प्रतिजग्राह गरुत्मानिव पन्नगम् ॥ ६२ ॥
स तं बाहुसहस्रेण बलाद्गृह्य दशाननम् ।बबन्ध बलवान्राजा बलिं नारायणो यथा ॥ ६३ ॥
बध्यमाने दशग्रीवे सिद्धचारणदेवताः ।साध्वीति वादिनः पुष्पैः किरन्त्यर्जुनमूर्धनि ॥ ६४ ॥
व्याघ्रो मृगमिवादाय सिंहराडिव दन्तिनम् ।ररास हैहयो राजा हर्षादम्बुदवन्मुहुः ॥ ६५ ॥
प्रहस्तस्तु समाश्वस्तो दृष्ट्वा बद्धं दशाननम् ।सह तै राकसैः क्रुद्ध अभिदुद्राव पार्थिवम् ॥ ६६ ॥
नक्तंचराणां वेगस्तु तेषामापततां बभौ ।उद्धृत आतपापाये समुद्राणामिवाद्भुतः ॥ ६७ ॥
मुञ्च मुञ्चेति भाषन्तस्तिष्ठ तिष्ठेति चासकृत् ।मुसलानि च शूलानि उत्ससर्जुस्तदार्जुने ॥ ६८ ॥
अप्राप्तान्येव तान्याशु असंभ्रान्तस्तदार्जुनः ।आयुधान्यमरारीणां जग्राह रिपुसूदनः ॥ ६९ ॥
ततस्तैरेव रक्षांसि दुर्धरैः प्रवरायुधैः ।भित्त्वा विद्रावयामास वायुरम्बुधरानिव ॥ ७० ॥
राक्षसांस्त्रासयित्वा तु कार्तवीर्यार्जुनस्तदा ।रावणं गृह्य नगरं प्रविवेश सुहृद्वृतः ॥ ७१ ॥
स कीर्यमाणः कुसुमाक्षतोत्करैर्द्विजैः सपौरैः पुरुहूतसंनिभः ।तदार्जुनः संप्रविवेश तां पुरीं बलिं निगृह्यैव सहस्रलोचनः ॥ ७२ ॥
« »