Click on words to see what they mean.

जिते महेन्द्रेऽतिबले रावणस्य सुतेन वै ।प्रजापतिं पुरस्कृत्य गता लङ्कां सुरास्तदा ॥ १ ॥
तं रावणं समासाद्य पुत्रभ्रातृभिरावृतम् ।अब्रवीद्गगने तिष्ठन्सान्त्वपूर्वं प्रजापतिः ॥ २ ॥
वत्स रावण तुष्टोऽस्मि तव पुत्रस्य संयुगे ।अहोऽस्य विक्रमौदार्यं तव तुल्योऽधिकोऽपि वा ॥ ३ ॥
जितं हि भवता सर्वं त्रैलोक्यं स्वेन तेजसा ।कृता प्रतिज्ञा सफला प्रीतोऽस्मि स्वसुतेन वै ॥ ४ ॥
अयं च पुत्रोऽतिबलस्तव रावण रावणिः ।इन्द्रजित्त्विति विख्यातो जगत्येष भविष्यति ॥ ५ ॥
बलवाञ्शत्रुनिर्जेता भविष्यत्येष राक्षसः ।यमाश्रित्य त्वया राजन्स्थापितास्त्रिदशा वशे ॥ ६ ॥
तन्मुच्यतां महाबाहो महेन्द्रः पाकशासनः ।किं चास्य मोक्षणार्थाय प्रयच्छन्ति दिवौकसः ॥ ७ ॥
अथाब्रवीन्महातेजा इन्द्रजित्समितिंजयः ।अमरत्वमहं देव वृणोमीहास्य मोक्षणे ॥ ८ ॥
अब्रवीत्तु तदा देवो रावणिं कमलोद्भवः ।नास्ति सर्वामरत्वं हि केषांचित्प्राणिनां भुवि ॥ ९ ॥
अथाब्रवीत्स तत्रस्थमिन्द्रजित्पद्मसंभवम् ।श्रूयतां या भवेत्सिद्धिः शतक्रतुविमोक्षणे ॥ १० ॥
ममेष्टं नित्यशो देव हव्यैः संपूज्य पावकम् ।संग्राममवतर्तुं वै शत्रुनिर्जयकाङ्क्षिणः ॥ ११ ॥
तस्मिंश्चेदसमाप्ते तु जप्यहोमे विभावसोः ।युध्येयं देव संग्रामे तदा मे स्याद्विनाशनम् ॥ १२ ॥
सर्वो हि तपसा चैव वृणोत्यमरतां पुमान् ।विक्रमेण मया त्वेतदमरत्वं प्रवर्तितम् ॥ १३ ॥
एवमस्त्विति तं प्राह वाक्यं देवः प्रजापतिः ।मुक्तश्चेन्द्रजिता शक्रो गताश्च त्रिदिवं सुराः ॥ १४ ॥
एतस्मिन्नन्तरे शक्रो दीनो भ्रष्टाम्बरस्रजः ।राम चिन्तापरीतात्मा ध्यानतत्परतां गतः ॥ १५ ॥
तं तु दृष्ट्वा तथाभूतं प्राह देवः प्रजापतिः ।शतक्रतो किमुत्कण्ठां करोषि स्मर दुष्कृतम् ॥ १६ ॥
अमरेन्द्र मया बह्व्यः प्रजाः सृष्टाः पुरा प्रभो ।एकवर्णाः समाभाषा एकरूपाश्च सर्वशः ॥ १७ ॥
तासां नास्ति विशेषो हि दर्शने लक्षणेऽपि वा ।ततोऽहमेकाग्रमनास्ताः प्रजाः पर्यचिन्तयम् ॥ १८ ॥
सोऽहं तासां विशेषार्थं स्त्रियमेकां विनिर्ममे ।यद्यत्प्रजानां प्रत्यङ्गं विशिष्टं तत्तदुद्धृतम् ॥ १९ ॥
ततो मया रूपगुणैरहल्या स्त्री विनिर्मिता ।अहल्येत्येव च मया तस्या नाम प्रवर्तितम् ॥ २० ॥
निर्मितायां तु देवेन्द्र तस्यां नार्यां सुरर्षभ ।भविष्यतीति कस्यैषा मम चिन्ता ततोऽभवत् ॥ २१ ॥
त्वं तु शक्र तदा नारीं जानीषे मनसा प्रभो ।स्थानाधिकतया पत्नी ममैषेति पुरंदर ॥ २२ ॥
सा मया न्यासभूता तु गौतमस्य महात्मनः ।न्यस्ता बहूनि वर्षाणि तेन निर्यातिता च सा ॥ २३ ॥
ततस्तस्य परिज्ञाय मया स्थैर्यं महामुनेः ।ज्ञात्वा तपसि सिद्धिं च पत्न्यर्थं स्पर्शिता तदा ॥ २४ ॥
स तया सह धर्मात्मा रमते स्म महामुनिः ।आसन्निराशा देवास्तु गौतमे दत्तया तया ॥ २५ ॥
त्वं क्रुद्धस्त्विह कामात्मा गत्वा तस्याश्रमं मुनेः ।दृष्टवांश्च तदा तां स्त्रीं दीप्तामग्निशिखामिव ॥ २६ ॥
सा त्वया धर्षिता शक्र कामार्तेन समन्युना ।दृष्टस्त्वं च तदा तेन आश्रमे परमर्षिणा ॥ २७ ॥
ततः क्रुद्धेन तेनासि शप्तः परमतेजसा ।गतोऽसि येन देवेन्द्र दशाभागविपर्ययम् ॥ २८ ॥
यस्मान्मे धर्षिता पत्नी त्वया वासव निर्भयम् ।तस्मात्त्वं समरे राजञ्शत्रुहस्तं गमिष्यसि ॥ २९ ॥
अयं तु भावो दुर्बुद्धे यस्त्वयेह प्रवर्तितः ।मानुषेष्वपि सर्वेषु भविष्यति न संशयः ॥ ३० ॥
तत्राधर्मः सुबलवान्समुत्थास्यति यो महान् ।तत्रार्धं तस्य यः कर्ता त्वय्यर्धं निपतिष्यति ॥ ३१ ॥
न च ते स्थावरं स्थानं भविष्यति पुरंदर ।एतेनाधर्मयोगेन यस्त्वयेह प्रवर्तितः ॥ ३२ ॥
यश्च यश्च सुरेन्द्रः स्याद्ध्रुवः स न भविष्यति ।एष शापो मया मुक्त इत्यसौ त्वां तदाब्रवीत् ॥ ३३ ॥
तां तु भार्यां विनिर्भर्त्स्य सोऽब्रवीत्सुमहातपाः ।दुर्विनीते विनिध्वंस ममाश्रमसमीपतः ॥ ३४ ॥
रूपयौवनसंपन्ना यस्मात्त्वमनवस्थिता ।तस्माद्रूपवती लोके न त्वमेका भविष्यसि ॥ ३५ ॥
रूपं च तत्प्रजाः सर्वा गमिष्यन्ति सुदुर्लभम् ।यत्तवेदं समाश्रित्य विभ्रमेऽयमुपस्थितः ॥ ३६ ॥
तदा प्रभृति भूयिष्ठं प्रजा रूपसमन्विताः ।शापोत्सर्गाद्धि तस्येदं मुनेः सर्वमुपागतम् ॥ ३७ ॥
तत्स्मर त्वं महाबाहो दुष्कृतं यत्त्वया कृतम् ।येन त्वं ग्रहणं शत्रोर्गतो नान्येन वासव ॥ ३८ ॥
शीघ्रं यजस्व यज्ञं त्वं वैष्णवं सुसमाहितः ।पावितस्तेन यज्ञेन यास्यसि त्रिदिवं ततः ॥ ३९ ॥
पुत्रश्च तव देवेन्द्र न विनष्टो महारणे ।नीतः संनिहितश्चैव अर्यकेण महोदधौ ॥ ४० ॥
एतच्छ्रुत्वा महेन्द्रस्तु यज्ञमिष्ट्वा च वैष्णवम् ।पुनस्त्रिदिवमाक्रामदन्वशासच्च देवताः ॥ ४१ ॥
एतदिन्द्रजितो राम बलं यत्कीर्तितं मया ।निर्जितस्तेन देवेन्द्रः प्राणिनोऽन्ये च किं पुनः ॥ ४२ ॥
« »