Click on words to see what they mean.

अथ पुत्रः पुलस्त्यस्य विश्रवा मुनिपुंगवः ।अचिरेणैव कालेन पितेव तपसि स्थितः ॥ १ ॥
सत्यवाञ्शीलवान्दक्षः स्वाध्यायनिरतः शुचिः ।सर्वभोगेष्वसंसक्तो नित्यं धर्मपरायणः ॥ २ ॥
ज्ञात्वा तस्य तु तद्वृत्तं भरद्वाजो महानृषिः ।ददौ विश्रवसे भार्यां स्वां सुतां देववर्णिनीम् ॥ ३ ॥
प्रतिगृह्य तु धर्मेण भरद्वाजसुतां तदा ।मुदा परमया युक्तो विश्रवा मुनिपुंगवः ॥ ४ ॥
स तस्यां वीर्यसंपन्नमपत्यं परमाद्भुतम् ।जनयामास धर्मात्मा सर्वैर्ब्रह्मगुणैर्युतम् ॥ ५ ॥
तस्मिञ्जाते तु संहृष्टः स बभूव पितामहः ।नाम चास्याकरोत्प्रीतः सार्धं देवर्षिभिस्तदा ॥ ६ ॥
यस्माद्विश्रवसोऽपत्यं सादृश्याद्विश्रवा इव ।तस्माद्वैश्रवणो नाम भविष्यत्येष विश्रुतः ॥ ७ ॥
स तु वैश्रवणस्तत्र तपोवनगतस्तदा ।अवर्धत महातेजा हुताहुतिरिवानलः ॥ ८ ॥
तस्याश्रमपदस्थस्य बुद्धिर्जज्ञे महात्मनः ।चरिष्ये नियतो धर्मं धर्मो हि परमा गतिः ॥ ९ ॥
स तु वर्षसहस्राणि तपस्तप्त्वा महावने ।पूर्णे वर्षसहस्रे तु तं तं विधिमवर्तत ॥ १० ॥
जलाशी मारुताहारो निराहारस्तथैव च ।एवं वर्षसहस्राणि जग्मुस्तान्येव वर्षवत् ॥ ११ ॥
अथ प्रीतो महातेजाः सेन्द्रैः सुरगणैः सह ।गत्वा तस्याश्रमपदं ब्रह्मेदं वाक्यमब्रवीत् ॥ १२ ॥
परितुष्टोऽस्मि ते वत्स कर्मणानेन सुव्रत ।वरं वृणीष्व भद्रं ते वरार्हस्त्वं हि मे मतः ॥ १३ ॥
अथाब्रवीद्वैश्रवणः पितामहमुपस्थितम् ।भगवँल्लोकपालत्वमिच्छेयं वित्तरक्षणम् ॥ १४ ॥
ततोऽब्रवीद्वैश्रवणं परितुष्टेन चेतसा ।ब्रह्मा सुरगणैः सार्धं बाढमित्येव हृष्टवत् ॥ १५ ॥
अहं हि लोकपालानां चतुर्थं स्रष्टुमुद्यतः ।यमेन्द्रवरुणानां हि पदं यत्तव चेप्सितम् ॥ १६ ॥
तत्कृतं गच्छ धर्मज्ञ धनेशत्वमवाप्नुहि ।यमेन्द्रवरुणानां हि चतुर्थोऽद्य भविष्यसि ॥ १७ ॥
एतच्च पुष्पकं नाम विमानं सूर्यसंनिभम् ।प्रतिगृह्णीष्व यानार्थं त्रिदशैः समतां व्रज ॥ १८ ॥
स्वस्ति तेऽस्तु गमिष्यामः सर्व एव यथागतम् ।कृतकृत्या वयं तात दत्त्वा तव महावरम् ॥ १९ ॥
गतेषु ब्रह्मपूर्वेषु देवेष्वथ नभस्तलम् ।धनेशः पितरं प्राह विनयात्प्रणतो वचः ॥ २० ॥
भगवँल्लब्धवानस्मि वरं कमलयोनितः ।निवासं न तु मे देवो विदधे स प्रजापतिः ॥ २१ ॥
तत्पश्य भगवन्कंचिद्देशं वासाय नः प्रभो ।न च पीडा भवेद्यत्र प्राणिनो यस्य कस्यचित् ॥ २२ ॥
एवमुक्तस्तु पुत्रेण विश्रवा मुनिपुंगवः ।वचनं प्राह धर्मज्ञ श्रूयतामिति धर्मवित् ॥ २३ ॥
लङ्का नाम पुरी रम्या निर्मिता विश्वकर्मणा ।राक्षसानां निवासार्थं यथेन्द्रस्यामरावती ॥ २४ ॥
रमणीया पुरी सा हि रुक्मवैदूर्यतोरणा ।राक्षसैः सा परित्यक्ता पुरा विष्णुभयार्दितैः ।शून्या रक्षोगणैः सर्वै रसातलतलं गतैः ॥ २५ ॥
स त्वं तत्र निवासाय रोचयस्व मतिं स्वकाम् ।निर्दोषस्तत्र ते वासो न च बाधास्ति कस्यचित् ॥ २६ ॥
एतच्छ्रुत्वा तु धर्मात्मा धर्मिष्ठं वचनं पितुः ।निवेशयामास तदा लङ्कां पर्वतमूर्धनि ॥ २७ ॥
नैरृतानां सहस्रैस्तु हृष्टैः प्रमुदितैः सदा ।अचिरेणैककालेन संपूर्णा तस्य शासनात् ॥ २८ ॥
अथ तत्रावसत्प्रीतो धर्मात्मा नैरृताधिपः ।समुद्रपरिधानायां लङ्कायां विश्रवात्मजः ॥ २९ ॥
काले काले विनीतात्मा पुष्पकेण धनेश्वरः ।अभ्यगच्छत्सुसंहृष्टः पितरं मातरं च सः ॥ ३० ॥
स देवगन्धर्वगणैरभिष्टुतस्तथैव सिद्धैः सह चारणैरपि ।गभस्तिभिः सूर्य इवौजसा वृतः पितुः समीपं प्रययौ श्रिया वृतः ॥ ३१ ॥
« »