Click on words to see what they mean.

स तु तत्र दशग्रीवः सह सैन्येन वीर्यवान् ।अस्तं प्राप्ते दिनकरे निवासं समरोचयत् ॥ १ ॥
उदिते विमले चन्द्रे तुल्यपर्वतवर्चसि ।स ददर्श गुणांस्तत्र चन्द्रपादोपशोभितान् ॥ २ ॥
कर्णिकारवनैर्दिव्यैः कदम्बगहनैस्तथा ।पद्मिनीभिश्च फुल्लाभिर्मन्दाकिन्या जलैरपि ॥ ३ ॥
घण्टानामिव संनादः शुश्रुवे मधुरस्वनः ।अप्सरोगणसंघनां गायतां धनदालये ॥ ४ ॥
पुष्पवर्षाणि मुञ्चन्तो नगाः पवनताडिताः ।शैलं तं वासयन्तीव मधुमाधवगन्धिनः ॥ ५ ॥
मधुपुष्परजःपृक्तं गन्धमादाय पुष्कलम् ।प्रववौ वर्धयन्कामं रावणस्य सुखोऽनिलः ॥ ६ ॥
गेयात्पुष्पसमृद्ध्या च शैत्याद्वायोर्गुणैर्गिरेः ।प्रवृत्तायां रजन्यां च चन्द्रस्योदयनेन च ॥ ७ ॥
रावणः सुमहावीर्यः कामबाणवशं गतः ।विनिश्वस्य विनिश्वस्य शशिनं समवैक्षत ॥ ८ ॥
एतस्मिन्नन्तरे तत्र दिव्यपुष्पविभूषिता ।सर्वाप्सरोवरा रम्भा पूर्णचन्द्रनिभानना ॥ ९ ॥
कृतैर्विशेषकैरार्द्रैः षडर्तुकुसुमोत्सवैः ।नीलं सतोयमेघाभं वस्त्रं समवगुण्ठिता ॥ १० ॥
यस्य वक्त्रं शशिनिभं भ्रुवौ चापनिभे शुभे ।ऊरू करिकराकारौ करौ पल्लवकोमलौ ।सैन्यमध्येन गच्छन्ती रावणेनोपलक्षिता ॥ ११ ॥
तां समुत्थाय रक्षेन्द्रः कामबाणबलार्दितः ।करे गृहीत्वा गच्छन्तीं स्मयमानोऽभ्यभाषत ॥ १२ ॥
क्व गच्छसि वरारोहे कां सिद्धिं भजसे स्वयम् ।कस्याभ्युदयकालोऽयं यस्त्वां समुपभोक्ष्यते ॥ १३ ॥
तवाननरसस्याद्य पद्मोत्पलसुगन्धिनः ।सुधामृतरसस्येव कोऽद्य तृप्तिं गमिष्यति ॥ १४ ॥
स्वर्णकुम्भनिभौ पीनौ शुभौ भीरु निरन्तरौ ।कस्योरस्थलसंस्पर्शं दास्यतस्ते कुचाविमौ ॥ १५ ॥
सुवर्णचक्रप्रतिमं स्वर्णदामचितं पृथु ।अध्यारोक्ष्यति कस्तेऽद्य स्वर्गं जघनरूपिणम् ॥ १६ ॥
मद्विशिष्टः पुमान्कोऽन्यः शक्रो विष्णुरथाश्विनौ ।मामतीत्य हि यस्य त्वं यासि भीरु न शोभनम् ॥ १७ ॥
विश्रम त्वं पृथुश्रोणि शिलातलमिदं शुभम् ।त्रैलोक्ये यः प्रभुश्चैव तुल्यो मम न विद्यते ॥ १८ ॥
तदेष प्राञ्जलिः प्रह्वो याचते त्वां दशाननः ।यः प्रभुश्चापि भर्ता च त्रैलोक्यस्य भजस्व माम् ॥ १९ ॥
एवमुक्ताब्रवीद्रम्भा वेपमाना कृताञ्जलिः ।प्रसीद नार्हसे वक्तुमीदृशं त्वं हि मे गुरुः ॥ २० ॥
अन्येभ्योऽपि त्वया रक्ष्या प्राप्नुयां धर्षणं यदि ।धर्मतश्च स्नुषा तेऽहं तत्त्वमेतद्ब्रवीमि ते ॥ २१ ॥
अब्रवीत्तां दशग्रीवश्चरणाधोमुखीं स्थिताम् ।सुतस्य यदि मे भार्या ततस्त्वं मे स्नुषा भवेः ॥ २२ ॥
बाढमित्येव सा रम्भा प्राह रावणमुत्तरम् ।धर्मतस्ते सुतस्याहं भार्या राक्षसपुंगव ॥ २३ ॥
पुत्रः प्रियतरः प्राणैर्भ्रातुर्वैश्रवणस्य ते ।ख्यातो यस्त्रिषु लोकेषु नलकूबर इत्यसौ ॥ २४ ॥
धर्मतो यो भवेद्विप्रः क्षत्रियो वीर्यतो भवेत् ।क्रोधाद्यश्च भवेदग्निः क्षान्त्या च वसुधासमः ॥ २५ ॥
तस्यास्मि कृतसंकेता लोकपालसुतस्य वै ।तमुद्दिश्य च मे सर्वं विभूषणमिदं कृतम् ॥ २६ ॥
यस्य तस्य हि नान्यस्य भावो मां प्रति तिष्ठति ।तेन सत्येन मां राजन्मोक्तुमर्हस्यरिंदम ॥ २७ ॥
स हि तिष्ठति धर्मात्मा साम्प्रतं मत्समुत्सुकः ।तन्न विघ्नं सुतस्येह कर्तुमर्हसि मुञ्च माम् ॥ २८ ॥
सद्भिराचरितं मार्गं गच्छ राक्षसपुंगव ।माननीयो मया हि त्वं लालनीया तथास्मि ते ॥ २९ ॥
एवं ब्रुवाणां रम्भां तां धर्मार्थसहितं वचः ।निर्भर्त्स्य राक्षसो मोहात्प्रतिगृह्य बलाद्बली ।काममोहाभिसंरब्धो मैथुनायोपचक्रमे ॥ ३० ॥
सा विमुक्ता ततो रम्भा भ्रष्टमाल्यविभूषणा ।गजेन्द्राक्रीडमथिता नदीवाकुलतां गता ॥ ३१ ॥
सा वेपमाना लज्जन्ती भीता करकृताञ्जलिः ।नलकूबरमासाद्य पादयोर्निपपात ह ॥ ३२ ॥
तदवस्थां च तां दृष्ट्वा महात्मा नलकूबरः ।अब्रवीत्किमिदं भद्रे पादयोः पतितासि मे ॥ ३३ ॥
सा तु निश्वसमाना च वेपमानाथ साञ्जलिः ।तस्मै सर्वं यथातथ्यमाख्यातुमुपचक्रमे ॥ ३४ ॥
एष देव दशग्रीवः प्राप्तो गन्तुं त्रिविष्टपम् ।तेन सैन्यसहायेन निशेह परिणाम्यते ॥ ३५ ॥
आयान्ती तेन दृष्टास्मि त्वत्सकाशमरिंदम ।गृहीत्वा तेन पृष्टास्मि कस्य त्वमिति रक्षसा ॥ ३६ ॥
मया तु सर्वं यत्सत्यं तद्धि तस्मै निवेदितम् ।काममोहाभिभूतात्मा नाश्रौषीत्तद्वचो मम ॥ ३७ ॥
याच्यमानो मया देव स्नुषा तेऽहमिति प्रभो ।तत्सर्वं पृष्ठतः कृत्वा बलात्तेनास्मि धर्षिता ॥ ३८ ॥
एवं त्वमपराधं मे क्षन्तुमर्हसि मानद ।न हि तुल्यं बलं सौम्य स्त्रियाश्च पुरुषस्य च ॥ ३९ ॥
एवं श्रुत्वा तु संक्रुद्धस्तदा वैश्वरणात्मजः ।धर्षणां तां परां श्रुत्वा ध्यानं संप्रविवेश ह ॥ ४० ॥
तस्य तत्कर्म विज्ञाय तदा वैश्रवणात्मजः ।मुहूर्ताद्रोषताम्राक्षस्तोयं जग्राह पाणिना ॥ ४१ ॥
गृहीत्वा सलिलं दिव्यमुपस्पृश्य यथाविधि ।उत्ससर्ज तदा शापं राक्षसेन्द्राय दारुणम् ॥ ४२ ॥
अकामा तेन यस्मात्त्वं बलाद्भद्रे प्रधर्षिता ।तस्मात्स युवतीमन्यां नाकामामुपयास्यति ॥ ४३ ॥
यदा त्वकामां कामार्तो धर्षयिष्यति योषितम् ।मूर्धा तु सप्तधा तस्य शकलीभविता तदा ॥ ४४ ॥
तस्मिन्नुदाहृते शापे ज्वलिताग्निसमप्रभे ।देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्च्युता ॥ ४५ ॥
प्रजापतिमुखाश्चापि सर्वे देवाः प्रहर्षिताः ।ज्ञात्वा लोकगतिं सर्वां तस्य मृत्युं च रक्षसः ॥ ४६ ॥
श्रुत्वा तु स दशग्रीवस्तं शापं रोमहर्षणम् ।नारीषु मैथुनं भावं नाकामास्वभ्यरोचयत् ॥ ४७ ॥
« »