Click on words to see what they mean.

स तु दत्त्वा दशग्रीवो वनं घोरं खरस्य तत् ।भगिनीं च समाश्वास्य हृष्टः स्वस्थतरोऽभवत् ॥ १ ॥
ततो निकुम्भिला नाम लङ्कायाः काननं महत् ।महात्मा राक्षसेन्द्रस्तत्प्रविवेश सहानुगः ॥ २ ॥
तत्र यूपशताकीर्णं सौम्यचैत्योपशोभितम् ।ददर्श विष्ठितं यज्ञं संप्रदीप्तमिव श्रिया ॥ ३ ॥
ततः कृष्णाजिनधरं कमण्डलुशिखाध्वजम् ।ददर्श स्वसुतं तत्र मेघनादमरिंदमम् ॥ ४ ॥
रक्षःपतिः समासाद्य समाश्लिष्य च बाहुभिः ।अब्रवीत्किमिदं वत्स वर्तते तद्ब्रवीहि मे ॥ ५ ॥
उशना त्वब्रवीत्तत्र गुरुर्यज्ञसमृद्धये ।रावणं राक्षसश्रेष्ठं द्विजश्रेष्ठो महातपाः ॥ ६ ॥
अहमाख्यामि ते राजञ्श्रूयतां सर्वमेव च ।यज्ञास्ते सप्त पुत्रेण प्राप्ताः सुबहुविस्तराः ॥ ७ ॥
अग्निष्टोमोऽश्वमेधश्च यज्ञो बहुसुवर्णकः ।राजसूयस्तथा यज्ञो गोमेधो वैष्णवस्तथा ॥ ८ ॥
माहेश्वरे प्रवृत्ते तु यज्ञे पुम्भिः सुदुर्लभे ।वरांस्ते लब्धवान्पुत्रः साक्षात्पशुपतेरिह ॥ ९ ॥
कामगं स्यन्दनं दिव्यमन्तरिक्षचरं ध्रुवम् ।मायां च तामसीं नाम यया संपद्यते तमः ॥ १० ॥
एतया किल संग्रामे मायया राक्षसेश्वर ।प्रयुद्धस्य गतिः शक्या न हि ज्ञातुं सुरासुरैः ॥ ११ ॥
अक्षयाविषुधी बाणैश्चापं चापि सुदुर्जयम् ।अस्त्रं च बलवत्सौम्य शत्रुविध्वंसनं रणे ॥ १२ ॥
एतान्सर्वान्वराँल्लब्ध्वा पुत्रस्तेऽयं दशानन ।अद्य यज्ञसमाप्तौ च त्वत्प्रतीक्षः स्थितो अहम् ॥ १३ ॥
ततोऽब्रवीद्दशग्रीवो न शोभनमिदं कृतम् ।पूजिताः शत्रवो यस्माद्द्रव्यैरिन्द्रपुरोगमाः ॥ १४ ॥
एहीदानीं कृतं यद्धि तदकर्तुं न शक्यते ।आगच्छ सौम्य गच्छामः स्वमेव भवनं प्रति ॥ १५ ॥
ततो गत्वा दशग्रीवः सपुत्रः सविभीषणः ।स्त्रियोऽवतारयामास सर्वास्ता बाष्पविक्लवाः ॥ १६ ॥
लक्षिण्यो रत्नबूताश्च देवदानवरक्षसाम् ।नानाभूषणसंपन्ना ज्वलन्त्यः स्वेन तेजसा ॥ १७ ॥
विभीषणस्तु ता नारीर्दृष्ट्वा शोकसमाकुलाः ।तस्य तां च मतिं ज्ञात्वा धर्मात्मा वाक्यमब्रवीत् ॥ १८ ॥
ईदृशैस्तैः समाचारैर्यशोऽर्थकुलनाशनैः ।धर्षणं प्राणिनां दत्त्वा स्वमतेन विचेष्टसे ॥ १९ ॥
ज्ञातीन्वै धर्षयित्वेमास्त्वयानीता वराङ्गनाः ।त्वामतिक्रम्य मधुना राजन्कुम्भीनसी हृता ॥ २० ॥
रावणस्त्वब्रवीद्वाक्यं नावगच्छामि किं त्विदम् ।को वायं यस्त्वयाख्यातो मधुरित्येव नामतः ॥ २१ ॥
विभीषणस्तु संक्रुद्धो भ्रातरं वाक्यमब्रवीत् ।श्रूयतामस्य पापस्य कर्मणः फलमागतम् ॥ २२ ॥
मातामहस्य योऽस्माकं ज्येष्ठो भ्राता सुमालिनः ।माल्यवानिति विख्यातो वृद्धप्राज्ञो निशाचरः ॥ २३ ॥
पितुर्ज्येष्ठो जनन्याश्च अस्माकं त्वार्यकोऽभवत् ।तस्य कुम्भीनसी नाम दुहितुर्दुहिताभवत् ॥ २४ ॥
मातृष्वसुरथास्माकं सा कन्या चानलोद्भवा ।भवत्यस्माकमेषा वै भ्रातॄणां धर्मतः स्वसा ॥ २५ ॥
सा हृता मधुना राजन्राक्षसेन बलीयसा ।यज्ञप्रवृत्ते पुत्रे ते मयि चान्तर्जलोषिते ॥ २६ ॥
निहत्य राक्षसश्रेष्ठानमात्यांस्तव संमतान् ।धर्षयित्वा हृता राजन्गुप्ता ह्यन्तःपुरे तव ॥ २७ ॥
श्रुत्वा त्वेतन्महाराज क्षान्तमेव हतो न सः ।यस्मादवश्यं दातव्या कन्या भर्त्रे हि दातृभिः ।अस्मिन्नेवाभिसंप्राप्तं लोके विदितमस्तु ते ॥ २८ ॥
ततोऽब्रवीद्दशग्रीवः क्रुद्धः संरक्तलोचनः ।कल्प्यतां मे रथः शीघ्रं शूराः सज्जीभवन्तु च ॥ २९ ॥
भ्राता मे कुम्भकर्णश्च ये च मुख्या निशाचराः ।वाहनान्यधिरोहन्तु नानाप्रहरणायुधाः ॥ ३० ॥
अद्य तं समरे हत्वा मधुं रावणनिर्भयम् ।इन्द्रलोकं गमिष्यामि युद्धकाङ्क्षी सुहृद्वृतः ॥ ३१ ॥
ततो विजित्य त्रिदिवं वशे स्थाप्य पुरंदरम् ।निर्वृतो विहरिष्यामि त्रैलोक्यैश्वर्यशोभितः ॥ ३२ ॥
अक्षौहिणीसहस्राणि चत्वार्युग्राणि रक्षसाम् ।नानाप्रहरणान्याशु निर्ययुर्युद्धकाङ्क्षिणाम् ॥ ३३ ॥
इन्द्रजित्त्वग्रतः सैन्यं सैनिकान्परिगृह्य च ।रावणो मध्यतः शूरः कुम्भकर्णश्च पृष्ठतः ॥ ३४ ॥
विभीषणस्तु धर्मात्मा लङ्कायां धर्ममाचरत् ।ते तु सर्वे महाभागा ययुर्मधुपुरं प्रति ॥ ३५ ॥
रथैर्नागैः खरैरुष्ट्रैर्हयैर्दीप्तैर्महोरगैः ।राक्षसाः प्रययुः सर्वे कृत्वाकाशं निरन्तरम् ॥ ३६ ॥
दैत्याश्च शतशस्तत्र कृतवैराः सुरैः सह ।रावणं प्रेक्ष्य गच्छन्तमन्वगच्छन्त पृष्ठतः ॥ ३७ ॥
स तु गत्वा मधुपुरं प्रविश्य च दशाननः ।न ददर्श मधुं तत्र भगिनीं तत्र दृष्टवान् ॥ ३८ ॥
सा प्रह्वा प्राञ्जलिर्भूत्वा शिरसा पादयोर्गता ।तस्य राक्षसराजस्य त्रस्ता कुम्भीनसी स्वसा ॥ ३९ ॥
तां समुत्थापयामास न भेतव्यमिति ब्रुवन् ।रावणो राक्षसश्रेष्ठः किं चापि करवाणि ते ॥ ४० ॥
साब्रवीद्यदि मे राजन्प्रसन्नस्त्वं महाबल ।भर्तारं न ममेहाद्य हन्तुमर्हसि मानद ॥ ४१ ॥
सत्यवाग्भव राजेन्द्र मामवेक्षस्व याचतीम् ।त्वया ह्युक्तं महाबाहो न भेतव्यमिति स्वयम् ॥ ४२ ॥
रावणस्त्वब्रवीद्धृष्टः स्वसारं तत्र संस्थिताम् ।क्व चासौ तव भर्ता वै मम शीघ्रं निवेद्यताम् ॥ ४३ ॥
सह तेन गमिष्यामि सुरलोकं जयाय वै ।तव कारुण्यसौहार्दान्निवृत्तोऽस्मि मधोर्वधात् ॥ ४४ ॥
इत्युक्ता सा प्रसुप्तं तं समुत्थाप्य निशाचरम् ।अब्रवीत्संप्रहृष्टेव राक्षसी सुविपश्चितम् ॥ ४५ ॥
एष प्राप्तो दशग्रीवो मम भ्राता निशाचरः ।सुरलोकजयाकाङ्क्षी साहाय्ये त्वां वृणोति च ॥ ४६ ॥
तदस्य त्वं सहायार्थं सबन्धुर्गच्छ राक्षस ।स्निग्धस्य भजमानस्य युक्तमर्थाय कल्पितुम् ॥ ४७ ॥
तस्यास्तद्वचनं श्रुत्वा तथेत्याह मधुर्वचः ।ददर्श राक्षसश्रेष्ठं यथान्यायमुपेत्य सः ॥ ४८ ॥
पूजयामास धर्मेण रावणं राक्षसाधिपम् ।प्राप्तपूजो दशग्रीवो मधुवेश्मनि वीर्यवान् ।तत्र चैकां निशामुष्य गमनायोपचक्रमे ॥ ४९ ॥
ततः कैलासमासाद्य शैलं वैश्रवणालयम् ।राक्षसेन्द्रो महेन्द्राभः सेनामुपनिवेशयत् ॥ ५० ॥
« »