Click on words to see what they mean.

निवर्तमानः संहृष्टो रावणः स दुरात्मवान् ।जह्रे पथि नरेन्द्रर्षिदेवगन्धर्वकन्यकाः ॥ १ ॥
दर्शनीयां हि यां रक्षः कन्यां स्त्रीं वाथ पश्यति ।हत्वा बन्धुजनं तस्या विमाने संन्यवेशयत् ॥ २ ॥
तत्र पन्नगयक्षाणां मानुषाणां च रक्षसाम् ।दैत्यानां दानवानां च कन्या जग्राह रावणः ॥ ३ ॥
दीर्घकेश्यः सुचार्वङ्ग्यः पूर्णचन्द्रनिभाननाः ।शोकायत्तास्तरुण्यश्च समस्ता स्तननम्रिताः ॥ ४ ॥
तुल्यमग्न्यर्चिषां तत्र शोकाग्निभयसंभवम् ।प्रवेपमाना दुःखार्ता मुमुचुर्बाष्पजं जलम् ॥ ५ ॥
तासां निश्वसमानानां निश्वसैः संप्रदीपितम् ।अग्निहोत्रमिवाभाति संनिरुद्धाग्निपुष्पकम् ॥ ६ ॥
काचिद्दध्यौ सुदुःखार्ता हन्यादपि हि मामयम् ।स्मृत्वा मातॄः पितॄन्भ्रातॄन्पुत्रान्वै श्वशुरानपि ।दुःखशोकसमाविष्टा विलेपुः सहिताः स्त्रियः ॥ ७ ॥
कथं नु खलु मे पुत्रः करिष्यति मया विना ।कथं माता कथं भ्राता निमग्नाः शोकसागरे ॥ ८ ॥
हा कथं नु करिष्यामि भर्तारं दैवतं विना ।मृत्यो प्रसीद याचे त्वां नय मां यमसादनम् ॥ ९ ॥
किं नु मे दुष्कृतं कर्म कृतं देहान्तरे पुरा ।ततोऽस्मि धर्षितानेन पतिता शोकसागरे ॥ १० ॥
न खल्विदानीं पश्यामि दुःखस्यान्तमिहात्मनः ।अहो धिन्मानुषाँल्लोकान्नास्ति खल्वधमः परः ॥ ११ ॥
यद्दुर्बला बलवता बान्धवा रावणेन मे ।उदितेनैव सूर्येण तारका इव नाशिताः ॥ १२ ॥
अहो सुबलवद्रक्षो वधोपायेषु रज्यते ।अहो दुर्वृत्तमात्मानं स्वयमेव न बुध्यते ॥ १३ ॥
सर्वथा सदृशस्तावद्विक्रमोऽस्य दुरात्मनः ।इदं त्वसदृशं कर्म परदाराभिमर्शनम् ॥ १४ ॥
यस्मादेष परख्यासु स्त्रीषु रज्यति दुर्मतिः ।तस्माद्धि स्त्रीकृतेनैव वधं प्राप्स्यति रावणः ॥ १५ ॥
शप्तः स्त्रीभिः स तु तदा हततेजाः सुनिष्प्रभ ।पतिव्रताभिः साध्वीभिः स्थिताभिः साधुवर्त्मनि ॥ १६ ॥
एवं विलपमानासु रावणो राक्षसाधिपः ।प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः ॥ १७ ॥
ततो राक्षसराजस्य स्वसा परमदुःखिता ।पादयोः पतिता तस्य वक्तुमेवोपचक्रमे ॥ १८ ॥
ततः स्वसारमुत्थाप्य रावणः परिसान्त्वयन् ।अब्रवीत्किमिदं भद्रे वक्तुमर्हसि मे द्रुतम् ॥ १९ ॥
सा बाष्पपरिरुद्धाक्षी राक्षसी वाक्यमब्रवीत् ।हतास्मि विधवा राजंस्त्वया बलवता कृता ॥ २० ॥
एते वीर्यात्त्वया राजन्दैत्या विनिहता रणे ।कालकेया इति ख्याता महाबलपराक्रमाः ॥ २१ ॥
तत्र मे निहतो भर्ता गरीयाञ्जीवितादपि ।स त्वया दयितस्तत्र भ्रात्रा शत्रुसमेन वै ॥ २२ ॥
या त्वयास्मि हता राजन्स्वयमेवेह बन्धुना ।दुःखं वैधव्यशब्दं च दत्तं भोक्ष्याम्यहं त्वया ॥ २३ ॥
ननु नाम त्वया रक्ष्यो जामाता समरेष्वपि ।तं निहत्य रणे राजन्स्वयमेव न लज्जसे ॥ २४ ॥
एवमुक्तस्तया रक्षो भगिन्या क्रोशमानया ।अब्रवीत्सान्त्वयित्वा तां सामपूर्वमिदं वचः ॥ २५ ॥
अलं वत्से विषादेन न भेतव्यं च सर्वशः ।मानदानविशेषैस्त्वां तोषयिष्यामि नित्यशः ॥ २६ ॥
युद्धे प्रमत्तो व्याक्षिप्तो जयकाङ्क्षी क्षिपञ्शरान् ।नावगच्छामि युद्धेषु स्वान्परान्वाप्यहं शुभे ।तेनासौ निहतः संख्ये मया भर्ता तव स्वसः ॥ २७ ॥
अस्मिन्काले तु यत्प्राप्तं तत्करिष्यामि ते हितम् ।भ्रातुरैश्वर्यसंस्थस्य खरस्य भव पार्श्वतः ॥ २८ ॥
चतुर्दशानां भ्राता ते सहस्राणां भविष्यति ।प्रभुः प्रयाणे दाने च राक्षसानां महौजसाम् ॥ २९ ॥
तत्र मातृष्वसुः पुत्रो भ्राता तव खरः प्रभुः ।भविष्यति सदा कुर्वन्यद्वक्ष्यसि वचः स्वयम् ॥ ३० ॥
शीघ्रं गच्छत्वयं शूरो दण्डकान्परिरक्षितुम् ।दूषणोऽस्य बलाध्यक्षो भविष्यति महाबलः ॥ ३१ ॥
स हि शप्तो वनोद्देशः क्रुद्धेनोशनसा पुरा ।राक्षसानामयं वासो भविष्यति न संशयः ॥ ३२ ॥
एवमुक्त्वा दशग्रीवः सैन्यं तस्यादिदेश ह ।चतुर्दश सहस्राणि रक्षसां कामरूपिणाम् ॥ ३३ ॥
स तैः सर्वैः परिवृतो राक्षसैर्घोरदर्शनैः ।खरः संप्रययौ शीघ्रं दण्डकानकुतोभयः ॥ ३४ ॥
स तत्र कारयामास राज्यं निहतकण्टकम् ।सा च शूर्पणखा प्रीता न्यवसद्दण्डकावने ॥ ३५ ॥
« »