Click on words to see what they mean.

स तु तस्य महानादं श्रुत्वा वैवस्वतो यमः ।शत्रुं विजयिनं मेने स्वबलस्य च संक्षयम् ॥ १ ॥
स तु योधान्हतान्मत्वा क्रोधपर्याकुलेक्षणः ।अब्रवीत्त्वरितं सूतं रथः समुपनीयताम् ॥ २ ॥
तस्य सूतो रथं दिव्यमुपस्थाप्य महास्वनम् ।स्थितः स च महातेजा आरुरोह महारथम् ॥ ३ ॥
पाशमुद्गरहस्तश्च मृत्युस्तस्याग्रतो स्थितः ।येन संक्षिप्यते सर्वं त्रैलोक्यं सचराचरम् ॥ ४ ॥
कालदण्डश्च पार्श्वस्थो मूर्तिमान्स्यन्दने स्थितः ।यमप्रहरणं दिव्यं प्रज्वलन्निव तेजसा ॥ ५ ॥
ततो लोकास्त्रयस्त्रस्ताः कम्पन्ते च दिवौकसः ।कालं क्रुद्धं तदा दृष्ट्वा लोकत्रयभयावहम् ॥ ६ ॥
दृष्ट्वा तु ते तं विकृतं रथं मृत्युसमन्वितम् ।सचिवा राक्षसेन्द्रस्य सर्वलोकभयावहम् ॥ ७ ॥
लघुसत्त्वतया सर्वे नष्टसंज्ञा भयार्दिताः ।नात्र योद्धुं समर्थाः स्म इत्युक्त्वा विप्रदुद्रुवुः ॥ ८ ॥
स तु तं तादृशं दृष्ट्वा रथं लोकभयावहम् ।नाक्षुभ्यत तदा रक्षो व्यथा चैवास्य नाभवत् ॥ ९ ॥
स तु रावणमासाद्य विसृजञ्शक्तितोमरान् ।यमो मर्माणि संक्रुद्धो राक्षसस्य न्यकृन्तत ॥ १० ॥
रावणस्तु स्थितः स्वस्थः शरवर्षं मुमोच ह ।तस्मिन्वैवस्वतरथे तोयवर्षमिवाम्बुदः ॥ ११ ॥
ततो महाशक्तिशतैः पात्यमानैर्महोरसि ।प्रतिकर्तुं स नाशक्नोद्राक्षसः शल्यपीडितः ॥ १२ ॥
नानाप्रहरणैरेवं यमेनामित्रकर्शिना ।सप्तरात्रं कृते संख्ये न भग्नो विजितोऽपि वा ॥ १३ ॥
ततोऽभवत्पुनर्युद्धं यमराक्षसयोस्तदा ।विजयाकाङ्क्षिणोस्तत्र समरेष्वनिवर्तिनोः ॥ १४ ॥
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।प्रजापतिं पुरस्कृत्य ददृशुस्तद्रणाजिरम् ॥ १५ ॥
संवर्त इव लोकानामभवद्युध्यतोस्तयोः ।राक्षसानां च मुख्यस्य प्रेतानामीश्वरस्य च ॥ १६ ॥
राक्षसेन्द्रस्ततः क्रुद्धश्चापमायम्य संयुगे ।निरन्तरमिवाकाशं कुर्वन्बाणान्मुमोच ह ॥ १७ ॥
मृत्युं चतुर्भिर्विशिखैः सूतं सप्तभिरर्दयत् ।यमं शरसहस्रेण शीघ्रं मर्मस्वताडयत् ॥ १८ ॥
ततः क्रुद्धस्य सहसा यमस्याभिविनिःसृतः ।ज्वालामालो विनिश्वासो वदनात्क्रोधपावकः ॥ १९ ॥
ततोऽपश्यंस्तदाश्चर्यं देवदानवराक्षसाः ।क्रोधजं पावकं दीप्तं दिधक्षन्तं रिपोर्बलम् ॥ २० ॥
मृत्युस्तु परमक्रुद्धो वैवस्वतमथाब्रवीत् ।मुञ्च मां देव शीघ्रं त्वं निहन्मि समरे रिपुम् ॥ २१ ॥
नरकः शम्बरो वृत्रः शम्भुः कार्तस्वरो बली ।नमुचिर्विरोचनश्चैव तावुभौ मधुकैटभौ ॥ २२ ॥
एते चान्ये च बहवो बलवन्तो दुरासदाः ।विनिपन्ना मया दृष्टाः का चिन्तास्मिन्निशाचरे ॥ २३ ॥
मुञ्च मां साधु धर्मज्ञ यावदेनं निहन्म्यहम् ।न हि कश्चिन्मया दृष्टो मुहूर्तमपि जीवति ॥ २४ ॥
बलं मम न खल्वेतन्मर्यादैषा निसर्गतः ।संस्पृष्टो हि मया कश्चिन्न जीवेदिति निश्चयः ॥ २५ ॥
एतत्तु वचनं श्रुत्वा धर्मराजः प्रतापवान् ।अब्रवीत्तत्र तं मृत्युमयमेनं निहन्म्यहम् ॥ २६ ॥
ततः संरक्तनयनः क्रुद्धो वैवस्वतः प्रभुः ।कालदण्डममोघं तं तोलयामास पाणिना ॥ २७ ॥
यस्य पार्श्वेषु निश्छिद्राः कालपाशाः प्रतिष्ठिताः ।पावकस्पर्शसंकाशो मुद्गरो मूर्तिमान्स्थितः ॥ २८ ॥
दर्शनादेव यः प्राणान्प्राणिनामुपरुध्यति ।किं पुनस्ताडनाद्वापि पीडनाद्वापि देहिनः ॥ २९ ॥
स ज्वालापरिवारस्तु पिबन्निव निशाचरम् ।करस्पृष्टो बलवता दण्डः क्रुद्धः सुदारुणः ॥ ३० ॥
ततो विदुद्रुवुः सर्वे सत्त्वास्तस्माद्रणाजिरात् ।सुराश्च क्षुभिता दृष्ट्वा कालदण्डोद्यतं यमम् ॥ ३१ ॥
तस्मिन्प्रहर्तुकामे तु दण्डमुद्यम्य रावणम् ।यमं पितामहः साक्षाद्दर्शयित्वेदमब्रवीत् ॥ ३२ ॥
वैवस्वत महाबाहो न खल्वतुलविक्रम ।प्रहर्तव्यं त्वयैतेन दण्डेनास्मिन्निशाचरे ॥ ३३ ॥
वरः खलु मया दत्तस्तस्य त्रिदशपुंगव ।तत्त्वया नानृतं कार्यं यन्मया व्याहृतं वचः ॥ ३४ ॥
अमोघो ह्येष सर्वासां प्रजानां विनिपातने ।कालदण्डो मया सृष्टः पूर्वं मृत्युपुरस्कृतः ॥ ३५ ॥
तन्न खल्वेष ते सौम्य पात्यो राक्षसमूर्धनि ।न ह्यस्मिन्पतिते कश्चिन्मुहूर्तमपि जीवति ॥ ३६ ॥
यदि ह्यस्मिन्निपतिते न म्रियेतैष राक्षसः ।म्रियेत वा दशग्रीवस्तथाप्युभयतोऽनृतम् ॥ ३७ ॥
राक्षसेन्द्रान्नियच्छाद्य दण्डमेनं वधोद्यतम् ।सत्यं मम कुरुष्वेदं लोकांस्त्वं समवेक्ष्य च ॥ ३८ ॥
एवमुक्तस्तु धर्मात्मा प्रत्युवाच यमस्तदा ।एष व्यावर्तितो दण्डः प्रभविष्णुर्भवान्हि नः ॥ ३९ ॥
किं त्विदानीं मया शक्यं कर्तुं रणगतेन हि ।यन्मया यन्न हन्तव्यो राक्षसो वरदर्पितः ॥ ४० ॥
एष तस्मात्प्रणश्यामि दर्शनादस्य रक्षसः ।इत्युक्त्वा सरथः साश्वस्तत्रैवान्तरधीयत ॥ ४१ ॥
दशग्रीवस्तु तं जित्वा नाम विश्राव्य चात्मनः ।पुष्पकेण तु संहृष्टो निष्क्रान्तो यमसादनात् ॥ ४२ ॥
ततो वैवस्वतो देवैः सह ब्रह्मपुरोगमैः ।जगाम त्रिदिवं हृष्टो नारदश्च महामुनिः ॥ ४३ ॥
« »