Click on words to see what they mean.

एवं संचिन्त्य विप्रेन्द्रो जगाम लघुविक्रमः ।आख्यातुं तद्यथावृत्तं यमस्य सदनं प्रति ॥ १ ॥
अपश्यत्स यमं तत्र देवमग्निपुरस्कृतम् ।विधानमुपतिष्ठन्तं प्राणिनो यस्य यादृशम् ॥ २ ॥
स तु दृष्ट्वा यमः प्राप्तं महर्षिं तत्र नारदम् ।अब्रवीत्सुखमासीनमर्घ्यमावेद्य धर्मतः ॥ ३ ॥
कच्चित्क्षेमं नु देवर्षे कच्चिद्धर्मो न नश्यति ।किमागमनकृत्यं ते देवगन्धर्वसेवित ॥ ४ ॥
अब्रवीत्तु तदा वाक्यं नारदो भगवानृषिः ।श्रूयतामभिधास्यामि विधानं च विधीयताम् ॥ ५ ॥
एष नाम्ना दशग्रीवः पितृराज निशाचरः ।उपयाति वशं नेतुं विक्रमैस्त्वां सुदुर्जयम् ॥ ६ ॥
एतेन कारणेनाहं त्वरितोऽस्म्यागतः प्रभो ।दण्डप्रहरणस्याद्य तव किं नु करिष्यति ॥ ७ ॥
एतस्मिन्नन्तरे दूरादंशुमन्तमिवोदितम् ।ददृशे दिव्यमायान्तं विमानं तस्य रक्षसः ॥ ८ ॥
तं देशं प्रभया तस्य पुष्पकस्य महाबलः ।कृत्वा वितिमिरं सर्वं समीपं समवर्तत ॥ ९ ॥
स त्वपश्यन्महाबाहुर्दशग्रीवस्ततस्ततः ।प्राणिनः सुकृतं कर्म भुञ्जानांश्चैव दुष्कृतम् ॥ १० ॥
ततस्तान्वध्यमानांस्तु कर्मभिर्दुष्कृतैः स्वकैः ।रावणो मोचयामास विक्रमेण बलाद्बली ॥ ११ ॥
प्रेतेषु मुच्यमानेषु राक्षसेन बलीयसा ।प्रेतगोपाः सुसंरब्धा राक्षसेन्द्रमभिद्रवन् ॥ १२ ॥
ते प्रासैः परिघैः शूलैर्मुद्गरैः शक्तितोमरैः ।पुष्पकं समवर्षन्त शूराः शतसहस्रशः ॥ १३ ॥
तस्यासनानि प्रासादान्वेदिकास्तरणानि च ।पुष्पकस्य बभञ्जुस्ते शीघ्रं मधुकरा इव ॥ १४ ॥
देवनिष्ठानभूतं तद्विमानं पुष्पकं मृधे ।भज्यमानं तथैवासीदक्षयं ब्रह्मतेजसा ॥ १५ ॥
ततस्ते रावणामात्या यथाकामं यथाबलम् ।अयुध्यन्त महावीर्याः स च राजा दशाननः ॥ १६ ॥
ते तु शोणितदिग्धाङ्गाः सर्वशस्त्रसमाहताः ।अमात्या राक्षसेन्द्रस्य चक्रुरायोधनं महत् ॥ १७ ॥
अन्योन्यं च महाभागा जघ्नुः प्रहरणैर्युधि ।यमस्य च महत्सैन्यं राक्षसस्य च मन्त्रिणः ॥ १८ ॥
अमात्यांस्तांस्तु संत्यज्य राक्षसस्य महौजसः ।तमेव समधावन्त शूलवर्षैर्दशाननम् ॥ १९ ॥
ततः शोणितदिग्धाङ्गः प्रहारैर्जर्जरीकृतः ।विमाने राक्षसश्रेष्ठः फुल्लाशोक इवाबभौ ॥ २० ॥
स शूलानि गदाः प्रासाञ्शक्तितोमरसायकान् ।मुसलानि शिलावृक्षान्मुमोचास्त्रबलाद्बली ॥ २१ ॥
तांस्तु सर्वान्समाक्षिप्य तदस्त्रमपहत्य च ।जघ्नुस्ते राक्षसं घोरमेकं शतसहस्रकः ॥ २२ ॥
परिवार्य च तं सर्वे शैलं मेघोत्करा इव ।भिन्दिपालैश्च शूलैश्च निरुच्छ्वासमकारयन् ॥ २३ ॥
विमुक्तकवचः क्रुद्धो सिक्तः शोणितविस्रवैः ।स पुष्पकं परित्यज्य पृथिव्यामवतिष्ठत ॥ २४ ॥
ततः स कार्मुकी बाणी पृथिव्यां राक्षसाधिपः ।लब्धसंज्ञो मुहूर्तेन क्रुद्धस्तस्थौ यथान्तकः ॥ २५ ॥
ततः पाशुपतं दिव्यमस्त्रं संधाय कार्मुके ।तिष्ठ तिष्ठेति तानुक्त्वा तच्चापं व्यपकर्षत ॥ २६ ॥
ज्वालामाली स तु शरः क्रव्यादानुगतो रणे ।मुक्तो गुल्मान्द्रुमांश्चैव भस्मकृत्वा प्रधावति ॥ २७ ॥
ते तस्य तेजसा दग्धाः सैन्या वैवस्वतस्य तु ।रणे तस्मिन्निपतिता दावदग्धा नगा इव ॥ २८ ॥
ततः स सचिवैः सार्धं राक्षसो भीमविक्रमः ।ननाद सुमहानादं कम्पयन्निव मेदिनीम् ॥ २९ ॥
« »