Click on words to see what they mean.

ततो वित्रासयन्मर्त्यान्पृथिव्यां राक्षसाधिपः ।आससाद घने तस्मिन्नारदं मुनिसत्तमम् ॥ १ ॥
नारदस्तु महातेजा देवर्षिरमितप्रभः ।अब्रवीन्मेघपृष्ठस्थो रावणं पुष्पके स्थितम् ॥ २ ॥
राक्षसाधिपते सौम्य तिष्ठ विश्रवसः सुत ।प्रीतोऽस्म्यभिजनोपेत विक्रमैरूर्जितैस्तव ॥ ३ ॥
विष्णुना दैत्यघातैश्च तार्क्ष्यस्योरगधर्षणैः ।त्वया समरमर्दैश्च भृशं हि परितोषितः ॥ ४ ॥
किंचिद्वक्ष्यामि तावत्ते श्रोतव्यं श्रोष्यसे यदि ।श्रुत्वा चानन्तरं कार्यं त्वया राक्षसपुंगव ॥ ५ ॥
किमयं वध्यते लोकस्त्वयावध्येन दैवतैः ।हत एव ह्ययं लोको यदा मृत्युवशं गतः ॥ ६ ॥
पश्य तावन्महाबाहो राक्षसेश्वरमानुषम् ।लोकमेनं विचित्रार्थं यस्य न ज्ञायते गतिः ॥ ७ ॥
क्वचिद्वादित्रनृत्तानि सेव्यन्ते मुदितैर्जनैः ।रुद्यते चापरैरार्तैर्धाराश्रुनयनाननैः ॥ ८ ॥
माता पितृसुतस्नेहैर्भार्या बन्धुमनोरमैः ।मोहेनायं जनो ध्वस्तः क्लेशं स्वं नावबुध्यते ॥ ९ ॥
तत्किमेवं परिक्लिश्य लोकं मोहनिराकृतम् ।जित एव त्वया सौम्य मर्त्यलोको न संशयः ॥ १० ॥
एवमुक्तस्तु लङ्केशो दीप्यमान इवौजसा ।अब्रवीन्नारदं तत्र संप्रहस्याभिवाद्य च ॥ ११ ॥
महर्षे देवगन्धर्वविहार समरप्रिय ।अहं खलूद्यतो गन्तुं विजयार्थी रसातलम् ॥ १२ ॥
ततो लोकत्रयं जित्वा स्थाप्य नागान्सुरान्वशे ।समुद्रममृतार्थं वै मथिष्यामि रसालयम् ॥ १३ ॥
अथाब्रवीद्दशग्रीवं नारदो भगवानृषिः ।क्व खल्विदानीं मार्गेण त्वयानेन गमिष्यते ॥ १४ ॥
अयं खलु सुदुर्गम्यः पितृराज्ञः पुरं प्रति ।मार्गो गच्छति दुर्धर्षो यमस्यामित्रकर्शन ॥ १५ ॥
स तु शारदमेघाभं मुक्त्वा हासं दशाननः ।उवाच कृतमित्येव वचनं चेदमब्रवीत् ॥ १६ ॥
तस्मादेष महाब्रह्मन्वैवस्वतवधोद्यतः ।गच्छामि दक्षिणामाशां यत्र सूर्यात्मजो नृपः ॥ १७ ॥
मया हि भगवन्क्रोधात्प्रतिज्ञातं रणार्थिना ।अवजेष्यामि चतुरो लोकपालानिति प्रभो ॥ १८ ॥
तेनैष प्रस्थितोऽहं वै पितृराजपुरं प्रति ।प्राणिसंक्लेशकर्तारं योजयिष्यामि मृत्युना ॥ १९ ॥
एवमुक्त्वा दशग्रीवो मुनिं तमभिवाद्य च ।प्रययौ दक्षिणामाशां प्रहृष्टैः सह मन्त्रिभिः ॥ २० ॥
नारदस्तु महातेजा मुहूर्तं ध्यानमास्थितः ।चिन्तयामास विप्रेन्द्रो विधूम इव पावकः ॥ २१ ॥
येन लोकास्त्रयः सेन्द्राः क्लिश्यन्ते सचराचराः ।क्षीणे चायुषि धर्मे च स कालो हिंस्यते कथम् ॥ २२ ॥
यस्य नित्यं त्रयो लोका विद्रवन्ति भयार्दिताः ।तं कथं राक्षसेन्द्रोऽसौ स्वयमेवाभिगच्छति ॥ २३ ॥
यो विधाता च धाता च सुकृते दुष्कृते यथा ।त्रैलोक्यं विजितं येन तं कथं नु विजेष्यति ॥ २४ ॥
अपरं किं नु कृत्वैवं विधानं संविधास्यति ।कौतूहलसमुत्पन्नो यास्यामि यमसादनम् ॥ २५ ॥
« »