Click on words to see what they mean.

सुमाली वरलब्धांस्तु ज्ञात्वा तान्वै निशाचरान् ।उदतिष्ठद्भयं त्यक्त्वा सानुगः स रसातलात् ॥ १ ॥
मारीचश्च प्रहस्तश्च विरूपाक्षो महोदरः ।उदतिष्ठन्सुसंरब्धाः सचिवास्तस्य रक्षसः ॥ २ ॥
सुमाली चैव तैः सर्वैर्वृतो राक्षसपुंगवैः ।अभिगम्य दशग्रीवं परिष्वज्येदमब्रवीत् ॥ ३ ॥
दिष्ट्या ते पुत्र संप्राप्तश्चिन्तितोऽयं मनोरथः ।यस्त्वं त्रिभुवणश्रेष्ठाल्लब्धवान्वरमीदृशम् ॥ ४ ॥
यत्कृते च वयं लङ्कां त्यक्त्वा याता रसातलम् ।तद्गतं नो महाबाहो महद्विष्णुकृतं भयम् ॥ ५ ॥
असकृत्तेन भग्ना हि परित्यज्य स्वमालयम् ।विद्रुताः सहिताः सर्वे प्रविष्टाः स्म रसातलम् ॥ ६ ॥
अस्मदीया च लङ्केयं नगरी राक्षसोषिता ।निवेशिता तव भ्रात्रा धनाध्यक्षेण धीमता ॥ ७ ॥
यदि नामात्र शक्यं स्यात्साम्ना दानेन वानघ ।तरसा वा महाबाहो प्रत्यानेतुं कृतं भवेत् ॥ ८ ॥
त्वं च लङ्केश्वरस्तात भविष्यसि न संशयः ।सर्वेषां नः प्रभुश्चैव भविष्यसि महाबल ॥ ९ ॥
अथाब्रवीद्दशग्रीवो मातामहमुपस्थितम् ।वित्तेशो गुरुरस्माकं नार्हस्येवं प्रभाषितुम् ॥ १० ॥
उक्तवन्तं तथा वाक्यं दशग्रीवं निशाचरः ।प्रहस्तः प्रश्रितं वाक्यमिदमाह सकारणम् ॥ ११ ॥
दशग्रीव महाबाहो नार्हस्त्वं वक्तुमीदृशम् ।सौभ्रात्रं नास्ति शूराणां शृणु चेदं वचो मम ॥ १२ ॥
अदितिश्च दितिश्चैव भगिन्यौ सहिते किल ।भार्ये परमरूपिण्यौ कश्यपस्य प्रजापतेः ॥ १३ ॥
अदितिर्जनयामास देवांस्त्रिभुवणेश्वरान् ।दितिस्त्वजनयद्दैत्यान्कश्यपस्यात्मसंभवान् ॥ १४ ॥
दैत्यानां किल धर्मज्ञ पुरेयं सवनार्णवा ।सपर्वता मही वीर तेऽभवन्प्रभविष्णवः ॥ १५ ॥
निहत्य तांस्तु समरे विष्णुना प्रभविष्णुना ।देवानां वशमानीतं त्रैलोक्यमिदमव्ययम् ॥ १६ ॥
नैतदेको भवानेव करिष्यति विपर्ययम् ।सुरैराचरितं पूर्वं कुरुष्वैतद्वचो मम ॥ १७ ॥
एवमुक्तो दशग्रीवः प्रहस्तेन दुरात्मना ।चिन्तयित्वा मुहूर्तं वै बाढमित्येव सोऽब्रवीत् ॥ १८ ॥
स तु तेनैव हर्षेण तस्मिन्नहनि वीर्यवान् ।वनं गतो दशग्रीवः सह तैः क्षणदाचरैः ॥ १९ ॥
त्रिकूटस्थः स तु तदा दशग्रीवो निशाचरः ।प्रेषयामास दौत्येन प्रहस्तं वाक्यकोविदम् ॥ २० ॥
प्रहस्त शीघ्रं गत्वा त्वं ब्रूहि नैरृतपुंगवम् ।वचनान्मम वित्तेशं सामपूर्वमिदं वचः ॥ २१ ॥
इयं लङ्का पुरी राजन्राक्षसानां महात्मनाम् ।त्वया निवेशिता सौम्य नैतद्युक्तं तवानघ ॥ २२ ॥
तद्भवान्यदि साम्नैतां दद्यादतुलविक्रम ।कृता भवेन्मम प्रीतिर्धर्मश्चैवानुपालितः ॥ २३ ॥
इत्युक्तः स तदा गत्वा प्रहस्तो वाक्यकोविदः ।दशग्रीववचः सर्वं वित्तेशाय न्यवेदयत् ॥ २४ ॥
प्रहस्तादपि संश्रुत्य देवो वैश्रवणो वचः ।प्रत्युवाच प्रहस्तं तं वाक्यं वाक्यविशारदः ॥ २५ ॥
ब्रूहि गच्छ दशग्रीवं पुरी राज्यं च यन्मम ।तवाप्येतन्महाबाहो भुङ्क्ष्वैतद्धतकण्टकम् ॥ २६ ॥
सर्वं कर्तास्मि भद्रं ते राक्षसेश वचोऽचिरात् ।किं तु तावत्प्रतीक्षस्व पितुर्यावन्निवेदये ॥ २७ ॥
एवमुक्त्वा धनाध्यक्षो जगाम पितुरन्तिकम् ।अभिवाद्य गुरुं प्राह रावणस्य यदीप्सितम् ॥ २८ ॥
एष तात दशग्रीवो दूतं प्रेषितवान्मम ।दीयतां नगरी लङ्का पूर्वं रक्षोगणोषिता ।मयात्र यदनुष्ठेयं तन्ममाचक्ष्व सुव्रत ॥ २९ ॥
ब्रह्मर्षिस्त्वेवमुक्तोऽसौ विश्रवा मुनिपुंगवः ।उवाच धनदं वाक्यं शृणु पुत्र वचो मम ॥ ३० ॥
दशग्रीवो महाबाहुरुक्तवान्मम संनिधौ ।मया निर्भर्त्सितश्चासीद्बहुधोक्तः सुदुर्मतिः ॥ ३१ ॥
स क्रोधेन मया चोक्तो ध्वंसस्वेति पुनः पुनः ।श्रेयोऽभियुक्तं धर्म्यं च शृणु पुत्र वचो मम ॥ ३२ ॥
वरप्रदानसंमूढो मान्यामान्यं सुदुर्मतिः ।न वेत्ति मम शापाच्च प्रकृतिं दारुणां गतः ॥ ३३ ॥
तस्माद्गच्छ महाबाहो कैलासं धरणीधरम् ।निवेशय निवासार्थं त्यज लङ्कां सहानुगः ॥ ३४ ॥
तत्र मन्दाकिनी रम्या नदीनां प्रवरा नदी ।काञ्चनैः सूर्यसंकाशैः पङ्कजैः संवृतोदका ॥ ३५ ॥
न हि क्षमं त्वया तेन वैरं धनद रक्षसा ।जानीषे हि यथानेन लब्धः परमको वरः ॥ ३६ ॥
एवमुक्तो गृहीत्वा तु तद्वचः पितृगौरवात् ।सदारपौरः सामात्यः सवाहनधनो गतः ॥ ३७ ॥
प्रहस्तस्तु दशग्रीवं गत्वा सर्वं न्यवेदयत् ।शून्या सा नगरी लङ्का त्रिंशद्योजनमायता ।प्रविश्य तां सहास्माभिः स्वधर्मं तत्र पालय ॥ ३८ ॥
एवमुक्तः प्रहस्तेन रावणो राक्षसस्तदा ।विवेश नगरीं लङ्कां सभ्राता सबलानुगः ॥ ३९ ॥
स चाभिषिक्तः क्षणदाचरैस्तदा निवेशयामास पुरीं दशाननः ।निकामपूर्णा च बभूव सा पुरी निशाचरैर्नीलबलाहकोपमैः ॥ ४० ॥
धनेश्वरस्त्वथ पितृवाक्यगौरवान्न्यवेशयच्छशिविमले गिरौ पुरीम् ।स्वलंकृतैर्भवनवरैर्विभूषितां पुरंदरस्येव तदामरावतीम् ॥ ४१ ॥
« »