Click on words to see what they mean.

अथाब्रवीद्द्विजं रामः कथं ते भ्रातरो वने ।कीदृशं तु तदा ब्रह्मंस्तपश्चेरुर्महाव्रताः ॥ १ ॥
अगस्त्यस्त्वब्रवीत्तत्र रामं प्रयत मानसं ।तांस्तान्धर्मविधींस्तत्र भ्रातरस्ते समाविशन् ॥ २ ॥
कुम्भकर्णस्तदा यत्तो नित्यं धर्मपरायणः ।तताप ग्रैष्मिके काले पञ्चस्वग्निष्ववस्थितः ॥ ३ ॥
वर्षे मेघोदकक्लिन्नो वीरासनमसेवत ।नित्यं च शैशिरे काले जलमध्यप्रतिश्रयः ॥ ४ ॥
एवं वर्षसहस्राणि दश तस्यातिचक्रमुः ।धर्मे प्रयतमानस्य सत्पथे निष्ठितस्य च ॥ ५ ॥
विभीषणस्तु धर्मात्मा नित्यं धर्मपरः शुचिः ।पञ्चवर्षसहस्राणि पादेनैकेन तस्थिवान् ॥ ६ ॥
समाप्ते नियमे तस्य ननृतुश्चाप्सरोगणाः ।पपात पुष्पवर्षं च क्षुभिताश्चापि देवताः ॥ ७ ॥
पञ्चवर्षसहस्राणि सूर्यं चैवान्ववर्तत ।तस्थौ चोर्ध्वशिरोबाहुः स्वाध्यायधृतमानसः ॥ ८ ॥
एवं विभीषणस्यापि गतानि नियतात्मनः ।दशवर्षसहस्राणि स्वर्गस्थस्येव नन्दने ॥ ९ ॥
दशवर्षसहस्रं तु निराहारो दशाननः ।पूर्णे वर्षसहस्रे तु शिरश्चाग्नौ जुहाव सः ॥ १० ॥
एवं वर्षसहस्राणि नव तस्यातिचक्रमुः ।शिरांसि नव चाप्यस्य प्रविष्टानि हुताशनम् ॥ ११ ॥
अथ वर्षसहस्रे तु दशमे दशमं शिरः ।छेत्तुकामः स धर्मात्मा प्राप्तश्चात्र पितामहः ॥ १२ ॥
पितामहस्तु सुप्रीतः सार्धं देवैरुपस्थितः ।वत्स वत्स दशग्रीव प्रीतोऽस्मीत्यभ्यभाषत ॥ १३ ॥
शीघ्रं वरय धर्मज्ञ वरो यस्तेऽभिकाङ्क्षितः ।किं ते कामं करोम्यद्य न वृथा ते परिश्रमः ॥ १४ ॥
ततोऽब्रवीद्दशग्रीवः प्रहृष्टेनान्तरात्मना ।प्रणम्य शिरसा देवं हर्षगद्गदया गिरा ॥ १५ ॥
भगवन्प्राणिनां नित्यं नान्यत्र मरणाद्भयम् ।नास्ति मृत्युसमः शत्रुरमरत्वमतो वृणे ॥ १६ ॥
सुपर्णनागयक्षाणां दैत्यदानवरक्षसाम् ।अवध्यः स्यां प्रजाध्यक्ष देवतानां च शाश्वतम् ॥ १७ ॥
न हि चिन्ता ममान्येषु प्राणिष्वमरपूजित ।तृणभूता हि मे सर्वे प्राणिनो मानुषादयः ॥ १८ ॥
एवमुक्तस्तु धर्मात्मा दशग्रीवेण रक्षसा ।उवाच वचनं राम सह देवैः पितामहः ॥ १९ ॥
भविष्यत्येवमेवैतत्तव राक्षसपुंगव ।शृणु चापि वचो भूयः प्रीतस्येह शुभं मम ॥ २० ॥
हुतानि यानि शीर्षाणि पूर्वमग्नौ त्वयानघ ।पुनस्तानि भविष्यन्ति तथैव तव राक्षस ॥ २१ ॥
एवं पितामहोक्तस्य दशग्रीवस्य रक्षसः ।अग्नौ हुतानि शीर्षाणि यानि तान्युत्थितानि वै ॥ २२ ॥
एवमुक्त्वा तु तं राम दशग्रीवं प्रजापतिः ।विभीषणमथोवाच वाक्यं लोकपितामहः ॥ २३ ॥
विभीषण त्वया वत्स धर्मसंहितबुद्धिना ।परितुष्टोऽस्मि धर्मज्ञ वरं वरय सुव्रत ॥ २४ ॥
विभीषणस्तु धर्मात्मा वचनं प्राह साञ्जलिः ।वृतः सर्वगुणैर्नित्यं चन्द्रमा इव रश्मिभिः ॥ २५ ॥
भगवन्कृतकृत्योऽहं यन्मे लोकगुरुः स्वयम् ।प्रीतो यदि त्वं दातव्यं वरं मे शृणु सुव्रत ॥ २६ ॥
या या मे जायते बुद्धिर्येषु येष्वाश्रमेष्विह ।सा सा भवतु धर्मिष्ठा तं तं धर्मं च पालये ॥ २७ ॥
एष मे परमोदार वरः परमको मतः ।न हि धर्माभिरक्तानां लोके किंचन दुर्लभम् ॥ २८ ॥
अथ प्रजापतिः प्रीतो विभीषणमुवाच ह ।धर्मिष्ठस्त्वं यथा वत्स तथा चैतद्भविष्यति ॥ २९ ॥
यस्माद्राक्षसयोनौ ते जातस्यामित्रकर्षण ।नाधर्मे जायते बुद्धिरमरत्वं ददामि ते ॥ ३० ॥
कुम्भकर्णाय तु वरं प्रयच्छन्तमरिंदम ।प्रजापतिं सुराः सर्वे वाक्यं प्राञ्जलयोऽब्रुवन् ॥ ३१ ॥
न तावत्कुम्भकर्णाय प्रदातव्यो वरस्त्वया ।जानीषे हि यथा लोकांस्त्रासयत्येष दुर्मतिः ॥ ३२ ॥
नन्दनेऽप्सरसः सप्त महेन्द्रानुचरा दश ।अनेन भक्षिता ब्रह्मन्नृषयो मानुषास्तथा ॥ ३३ ॥
वरव्याजेन मोहोऽस्मै दीयताममितप्रभ ।लोकानां स्वस्ति चैव स्याद्भवेदस्य च संनतिः ॥ ३४ ॥
एवमुक्तः सुरैर्ब्रह्माचिन्तयत्पद्मसंभवः ।चिन्तिता चोपतस्थेऽस्य पार्श्वं देवी सरस्वती ॥ ३५ ॥
प्राञ्जलिः सा तु पर्श्वस्था प्राह वाक्यं सरस्वती ।इयमस्म्यागता देव किं कार्यं करवाण्यहम् ॥ ३६ ॥
प्रजापतिस्तु तां प्राप्तां प्राह वाक्यं सरस्वतीम् ।वाणि त्वं राक्षसेन्द्रस्य भव या देवतेप्सिता ॥ ३७ ॥
तथेत्युक्त्वा प्रविष्टा सा प्रजापतिरथाब्रवीत् ।कुम्भकर्ण महाबाहो वरं वरय यो मतः ॥ ३८ ॥
कुम्भकर्णस्तु तद्वाक्यं श्रुत्वा वचनमब्रवीत् ।स्वप्तुं वर्षाण्यनेकानि देवदेव ममेप्सितम् ॥ ३९ ॥
एवमस्त्विति तं चोक्त्वा सह देवैः पितामहः ।देवी सरस्वती चैव मुक्त्वा तं प्रययौ दिवम् ॥ ४० ॥
कुम्भकर्णस्तु दुष्टात्मा चिन्तयामास दुःखितः ।कीदृशं किं न्विदं वाक्यं ममाद्य वदनाच्च्युतम् ॥ ४१ ॥
एवं लब्धवराः सर्वे भ्रातरो दीप्ततेजसः ।श्लेष्मातकवनं गत्वा तत्र ते न्यवसन्सुखम् ॥ ४२ ॥
« »