Click on words to see what they mean.

महोदरे तु निहते महापार्श्वो महाबलः ।अङ्गदस्य चमूं भीमां क्षोभयामास सायकैः ॥ १ ॥
स वानराणां मुख्यानामुत्तमाङ्गानि सर्वशः ।पातयामास कायेभ्यः फलं वृन्तादिवानिलः ॥ २ ॥
केषांचिदिषुभिर्बाहून्स्कन्धांश्चिछेद राक्षसः ।वानराणां सुसंक्रुद्धः पार्श्वं केषां व्यदारयत् ॥ ३ ॥
तेऽर्दिता बाणवर्षेण महापार्श्वेन वानराः ।विषादविमुखाः सर्वे बभूवुर्गतचेतसः ॥ ४ ॥
निरीक्ष्य बलमुद्विग्नमङ्गदो राक्षसार्दितम् ।वेगं चक्रे महाबाहुः समुद्र इव पर्वणि ॥ ५ ॥
आयसं परिघं गृह्य सूर्यरश्मिसमप्रभम् ।समरे वानरश्रेष्ठो महापार्श्वे न्यपातयत् ॥ ६ ॥
स तु तेन प्रहारेण महापार्श्वो विचेतनः ।ससूतः स्यन्दनात्तस्माद्विसंज्ञः प्रापतद्भुवि ॥ ७ ॥
सर्क्षराजस्तु तेजस्वी नीलाञ्जनचयोपमः ।निष्पत्य सुमहावीर्यः स्वाद्यूथान्मेघसंनिभात् ॥ ८ ॥
प्रगृह्य गिरिशृङ्गाभां क्रुद्धः स विपुलां शिलाम् ।अश्वाञ्जघान तरसा स्यन्दनं च बभञ्ज तम् ॥ ९ ॥
मुहूर्ताल्लब्धसंज्ञस्तु महापार्श्वो महाबलः ।अङ्गदं बहुभिर्बाणैर्भूयस्तं प्रत्यविध्यत ॥ १० ॥
जाम्बवन्तं त्रिभिर्बाणैराजघान स्तनान्तरे ।ऋक्षराजं गवाक्षं च जघान बहुभिः शरैः ॥ ११ ॥
गवाक्षं जाम्बवन्तं च स दृष्ट्वा शरपीडितौ ।जग्राह परिघं घोरमङ्गदः क्रोधमूर्छितः ॥ १२ ॥
तस्याङ्गदः प्रकुपितो राक्षसस्य तमायसं ।दूरस्थितस्य परिघं रविरश्मिसमप्रभम् ॥ १३ ॥
द्वाभ्यां भुजाभ्यां संगृह्य भ्रामयित्वा च वेगवान् ।महापार्श्वाय चिक्षेप वधार्थं वालिनः सुतः ॥ १४ ॥
स तु क्षिप्तो बलवता परिघस्तस्य रक्षसः ।धनुश्च सशरं हस्ताच्छिरस्त्रं चाप्यपातयत् ॥ १५ ॥
तं समासाद्य वेगेन वालिपुत्रः प्रतापवान् ।तलेनाभ्यहनत्क्रुद्धः कर्णमूले सकुण्डले ॥ १६ ॥
स तु क्रुद्धो महावेगो महापार्श्वो महाद्युतिः ।करेणैकेन जग्राह सुमहान्तं परश्वधम् ॥ १७ ॥
तं तैलधौतं विमलं शैलसारमयं दृढम् ।राक्षसः परमक्रुद्धो वालिपुत्रे न्यपातयत् ॥ १८ ॥
तेन वामांसफलके भृशं प्रत्यवपातितम् ।अङ्गदो मोक्षयामास सरोषः स परश्वधम् ॥ १९ ॥
स वीरो वज्रसंकाशमङ्गदो मुष्टिमात्मनः ।संवर्तयन्सुसंक्रुद्धः पितुस्तुल्यपराक्रमः ॥ २० ॥
राक्षसस्य स्तनाभ्याशे मर्मज्ञो हृदयं प्रति ।इन्द्राशनिसमस्पर्शं स मुष्टिं विन्यपातयत् ॥ २१ ॥
तेन तस्य निपातेन राक्षसस्य महामृधे ।पफाल हृदयं चाशु स पपात हतो भुवि ॥ २२ ॥
तस्मिन्निपतिते भूमौ तत्सैन्यं संप्रचुक्षुभे ।अभवच्च महान्क्रोधः समरे रावणस्य तु ॥ २३ ॥
« »