Click on words to see what they mean.

हन्यमाने बले तूर्णमन्योन्यं ते महामृधे ।सरसीव महाघर्मे सूपक्षीणे बभूवतुः ॥ १ ॥
स्वबलस्य विघातेन विरूपाक्षवधेन च ।बभूव द्विगुणं क्रुद्धो रावणो राक्षसाधिपः ॥ २ ॥
प्रक्षीणं तु बलं दृष्ट्वा वध्यमानं वलीमुखैः ।बभूवास्य व्यथा युद्धे प्रेक्ष्य दैवविपर्ययम् ॥ ३ ॥
उवाच च समीपस्थं महोदरमरिंदमम् ।अस्मिन्काले महाबाहो जयाशा त्वयि मे स्थिता ॥ ४ ॥
जहि शत्रुचमूं वीर दर्शयाद्य पराक्रमम् ।भर्तृपिण्डस्य कालोऽयं निर्वेष्टुं साधु युध्यताम् ॥ ५ ॥
एवमुक्तस्तथेत्युक्त्वा राक्षसेन्द्रं महोदरः ।प्रविवेशारिसेनां स पतंग इव पावकम् ॥ ६ ॥
ततः स कदनं चक्रे वानराणां महाबलः ।भर्तृवाक्येन तेजस्वी स्वेन वीर्येण चोदितः ॥ ७ ॥
प्रभग्नां समरे दृष्ट्वा वानराणां महाचमूम् ।अभिदुद्राव सुग्रीवो महोदरमनन्तरम् ॥ ८ ॥
प्रगृह्य विपुलां घोरां महीधरसमां शिलाम् ।चिक्षेप च महातेजास्तद्वधाय हरीश्वरः ॥ ९ ॥
तामापतन्तीं सहसा शिलां दृष्ट्वा महोदरः ।असंभ्रान्तस्ततो बाणैर्निर्बिभेद दुरासदाम् ॥ १० ॥
रक्षसा तेन बाणौघैर्निकृत्ता सा सहस्रधा ।निपपात शिला भूमौ गृध्रचक्रमिवाकुलम् ॥ ११ ॥
तां तु भिन्नां शिलां दृष्ट्वा सुग्रीवः क्रोधमूर्छितः ।सालमुत्पाट्य चिक्षेप रक्षसे रणमूर्धनि ।शरैश्च विददारैनं शूरः परपुरंजयः ॥ १२ ॥
स ददर्श ततः क्रुद्धः परिघं पतितं भुवि ।आविध्य तु स तं दीप्तं परिघं तस्य दर्शयन् ।परिघाग्रेण वेगेन जघानास्य हयोत्तमान् ॥ १३ ॥
तस्माद्धतहयाद्वीरः सोऽवप्लुत्य महारथात् ।गदां जग्राह संक्रुद्धो राक्षसोऽथ महोदरः ॥ १४ ॥
गदापरिघहस्तौ तौ युधि वीरौ समीयतुः ।नर्दन्तौ गोवृषप्रख्यौ घनाविव सविद्युतौ ॥ १५ ॥
आजघान गदां तस्य परिघेण हरीश्वरः ।पपात स गदोद्भिन्नः परिघस्तस्य भूतले ॥ १६ ॥
ततो जग्राह तेजस्वी सुग्रीवो वसुधातलात् ।आयसं मुसलं घोरं सर्वतो हेमभूषितम् ॥ १७ ॥
तं समुद्यम्य चिक्षेप सोऽप्यन्यां व्याक्षिपद्गदाम् ।भिन्नावन्योन्यमासाद्य पेततुर्धरणीतले ॥ १८ ॥
ततो भग्नप्रहरणौ मुष्टिभ्यां तौ समीयतुः ।तेजोबलसमाविष्टौ दीप्ताविव हुताशनौ ॥ १९ ॥
जघ्नतुस्तौ तदान्योन्यं नेदतुश्च पुनः पुनः ।तलैश्चान्योन्यमाहत्य पेततुर्धरणीतले ॥ २० ॥
उत्पेततुस्ततस्तूर्णं जघ्नतुश्च परस्परम् ।भुजैश्चिक्षेपतुर्वीरावन्योन्यमपराजितौ ॥ २१ ॥
आजहार तदा खड्गमदूरपरिवर्तिनम् ।राक्षसश्चर्मणा सार्धं महावेगो महोदरः ॥ २२ ॥
तथैव च महाखड्गं चर्मणा पतितं सह ।जग्राह वानरश्रेष्ठः सुग्रीवो वेगवत्तरः ॥ २३ ॥
तौ तु रोषपरीताङ्गौ नर्दन्तावभ्यधावताम् ।उद्यतासी रणे हृष्टौ युधि शस्त्रविशारदौ ॥ २४ ॥
दक्षिणं मण्डलं चोभौ तौ तूर्णं संपरीयतुः ।अन्योन्यमभिसंक्रुद्धौ जये प्रणिहितावुभौ ॥ २५ ॥
स तु शूरो महावेगो वीर्यश्लाघी महोदरः ।महाचर्मणि तं खड्गं पातयामास दुर्मतिः ॥ २६ ॥
लग्नमुत्कर्षतः खड्गं खड्गेन कपिकुञ्जरः ।जहार सशिरस्त्राणं कुण्डलोपहितं शिरः ॥ २७ ॥
निकृत्तशिरसस्तस्य पतितस्य महीतले ।तद्बलं राक्षसेन्द्रस्य दृष्ट्वा तत्र न तिष्ठति ॥ २८ ॥
हत्वा तं वानरैः सार्धं ननाद मुदितो हरिः ।चुक्रोध च दशग्रीवो बभौ हृष्टश्च राघवः ॥ २९ ॥
« »