Click on words to see what they mean.

ततः शरं दाशरथिः संधायामित्रकर्शनः ।ससर्ज राक्षसेन्द्राय क्रुद्धः सर्प इव श्वसन् ॥ १ ॥
तस्य ज्यातलनिर्घोषं स श्रुत्वा रावणात्मजः ।विवर्णवदनो भूत्वा लक्ष्मणं समुदैक्षत ॥ २ ॥
तं विषण्णमुखं दृष्ट्वा राक्षसं रावणात्मजम् ।सौमित्रिं युद्धसंसक्तं प्रत्युवाच विभीषणः ॥ ३ ॥
निमित्तान्यनुपश्यामि यान्यस्मिन्रावणात्मजे ।त्वर तेन महाबाहो भग्न एष न संशयः ॥ ४ ॥
ततः संधाय सौमित्रिः शरानग्निशिखोपमान् ।मुमोच निशितांस्तस्मै सर्वानिव विषोल्बणान् ॥ ५ ॥
शक्राशनिसमस्पर्शैर्लक्ष्मणेनाहतः शरैः ।मुहूर्तमभवन्मूढः सर्वसंक्षुभितेन्द्रियः ॥ ६ ॥
उपलभ्य मुहूर्तेन संज्ञां प्रत्यागतेन्द्रियः ।ददर्शावस्थितं वीरं वीरो दशरथात्मजम् ॥ ७ ॥
सोऽभिचक्राम सौमित्रिं रोषात्संरक्तलोचनः ।अब्रवीच्चैनमासाद्य पुनः स परुषं वचः ॥ ८ ॥
किं न स्मरसि तद्युद्धे प्रथमे मत्पराक्रमम् ।निबद्धस्त्वं सह भ्रात्रा यदा युधि विचेष्टसे ॥ ९ ॥
युवा खलु महायुद्धे शक्राशनिसमैः शरैः ।शायिनौ प्रथमं भूमौ विसंज्ञौ सपुरःसरौ ॥ १० ॥
स्मृतिर्वा नास्ति ते मन्ये व्यक्तं वा यमसादनम् ।गन्तुमिच्छसि यस्मात्त्वं मां धर्षयितुमिच्छसि ॥ ११ ॥
यदि ते प्रथमे युद्धे न दृष्टो मत्पराक्रमः ।अद्य त्वां दर्शयिष्यामि तिष्ठेदानीं व्यवस्थितः ॥ १२ ॥
इत्युक्त्वा सप्तभिर्बाणैरभिविव्याध लक्ष्मणम् ।दशभिश्च हनूमन्तं तीक्ष्णधारैः शरोत्तमैः ॥ १३ ॥
ततः शरशतेनैव सुप्रयुक्तेन वीर्यवान् ।क्रोधाद्द्विगुणसंरब्धो निर्बिभेद विभीषणम् ॥ १४ ॥
तद्दृष्ट्वेन्द्रजितः कर्म कृतं रामानुजस्तदा ।अचिन्तयित्वा प्रहसन्नैतत्किंचिदिति ब्रुवन् ॥ १५ ॥
मुमोच स शरान्घोरान्संगृह्य नरपुंगवः ।अभीतवदनः क्रुद्धो रावणिं लक्ष्मणो युधि ॥ १६ ॥
नैवं रणगतः शूराः प्रहरन्ति निशाचर ।लघवश्चाल्पवीर्याश्च सुखा हीमे शरास्तव ॥ १७ ॥
नैवं शूरास्तु युध्यन्ते समरे जयकाङ्क्षिणः ।इत्येवं तं ब्रुवाणस्तु शरवर्षैरवाकिरत् ॥ १८ ॥
तस्य बाणैस्तु विध्वस्तं कवचं हेमभूषितम् ।व्यशीर्यत रथोपस्थे ताराजालमिवाम्बरात् ॥ १९ ॥
विधूतवर्मा नाराचैर्बभूव स कृतव्रणः ।इन्द्रजित्समरे शूरः प्ररूढ इव सानुमान् ॥ २० ॥
अभीक्ष्णं निश्वसन्तौ हि युध्येतां तुमुलं युधि ।शरसंकृत्तसर्वाङ्गो सर्वतो रुधिरोक्षितौ ॥ २१ ॥
अस्त्राण्यस्त्रविदां श्रेष्ठौ दर्शयन्तौ पुनः पुनः ।शरानुच्चावचाकारानन्तरिक्षे बबन्धतुः ॥ २२ ॥
व्यपेतदोषमस्यन्तौ लघुचित्रं च सुष्ठु च ।उभौ तु तुमुलं घोरं चक्रतुर्नरराक्षसौ ॥ २३ ॥
तयोः पृथक्पृथग्भीमः शुश्रुवे तलनिस्वनः ।सुघोरयोर्निष्टनतोर्गगने मेघयोरिव ॥ २४ ॥
ते गात्रयोर्निपतिता रुक्मपुङ्खाः शरा युधि ।असृग्दिग्धा विनिष्पेतुर्विविशुर्धरणीतलम् ॥ २५ ॥
अन्यैः सुनिशितैः शस्त्रैराकाशे संजघट्टिरे ।बभञ्जुश्चिच्छिदुश्चापि तयोर्बाणाः सहस्रशः ॥ २६ ॥
स बभूव रणे घोरस्तयोर्बाणमयश्चयः ।अग्निभ्यामिव दीप्ताभ्यां सत्रे कुशमयश्चयः ॥ २७ ॥
तयोः कृतव्रणौ देहौ शुशुभाते महात्मनोः ।सपुष्पाविव निष्पत्रौ वने शाल्मलिकुंशुकौ ॥ २८ ॥
चक्रतुस्तुमुलं घोरं संनिपातं मुहुर्मुहुः ।इन्द्रजिल्लक्ष्मणश्चैव परस्परजयैषिणौ ॥ २९ ॥
लक्ष्मणो रावणिं युद्धे रावणिश्चापि लक्ष्मणम् ।अन्योन्यं तावभिघ्नन्तौ न श्रमं प्रत्यपद्यताम् ॥ ३० ॥
बाणजालैः शरीरस्थैरवगाढैस्तरस्विनौ ।शुशुभाते महावीरौ विरूढाविव पर्वतौ ॥ ३१ ॥
तयो रुधिरसिक्तानि संवृतानि शरैर्भृशम् ।बभ्राजुः सर्वगात्राणि ज्वलन्त इव पावकाः ॥ ३२ ॥
तयोरथ महान्कालो व्यतीयाद्युध्यमानयोः ।न च तौ युद्धवैमुख्यं श्रमं वाप्युपजग्मतुः ॥ ३३ ॥
अथ समरपरिश्रमं निहन्तुं समरमुखेष्वजितस्य लक्ष्मणस्य ।प्रियहितमुपपादयन्महौजाः समरमुपेत्य विभीषणोऽवतस्थे ॥ ३४ ॥
« »