Click on words to see what they mean.

इत्युक्ता राक्षसेन्द्रेण राक्षसास्ते महाबलाः ।ऊचुः प्राञ्जलयः सर्वे रावणं राक्षसेश्वरम् ॥ १ ॥
राजन्परिघशक्त्यृष्टिशूलपट्टससंकुलम् ।सुमहन्नो बलं कस्माद्विषादं भजते भवान् ॥ २ ॥
कैलासशिखरावासी यक्षैर्बहुभिरावृतः ।सुमहत्कदनं कृत्वा वश्यस्ते धनदः कृतः ॥ ३ ॥
स महेश्वरसख्येन श्लाघमानस्त्वया विभो ।निर्जितः समरे रोषाल्लोकपालो महाबलः ॥ ४ ॥
विनिहत्य च यक्षौघान्विक्षोभ्य च विगृह्य च ।त्वया कैलासशिखराद्विमानमिदमाहृतम् ॥ ५ ॥
मयेन दानवेन्द्रेण त्वद्भयात्सख्यमिच्छता ।दुहिता तव भार्यार्थे दत्ता राक्षसपुंगव ॥ ६ ॥
दानवेन्द्रो मधुर्नाम वीर्योत्सिक्तो दुरासदः ।विगृह्य वशमानीतः कुम्भीनस्याः सुखावहः ॥ ७ ॥
निर्जितास्ते महाबाहो नागा गत्वा रसातलम् ।वासुकिस्तक्षकः शङ्खो जटी च वशमाहृताः ॥ ८ ॥
अक्षया बलवन्तश्च शूरा लब्धवराः पुनः ।त्वया संवत्सरं युद्ध्वा समरे दानवा विभो ॥ ९ ॥
स्वबलं समुपाश्रित्य नीता वशमरिंदम ।मायाश्चाधिगतास्तत्र बहवो राक्षसाधिप ॥ १० ॥
शूराश्च बलवन्तश्च वरुणस्य सुता रणे ।निर्जितास्ते महाबाहो चतुर्विधबलानुगाः ॥ ११ ॥
मृत्युदण्डमहाग्राहं शाल्मलिद्वीपमण्डितम् ।अवगाह्य त्वया राजन्यमस्य बलसागरम् ॥ १२ ॥
जयश्च विप्लुलः प्राप्तो मृत्युश्च प्रतिषेधितः ।सुयुद्धेन च ते सर्वे लोकास्तत्र सुतोषिताः ॥ १३ ॥
क्षत्रियैर्बहुभिर्वीरैः शक्रतुल्यपराक्रमैः ।आसीद्वसुमती पूर्णा महद्भिरिव पादपैः ॥ १४ ॥
तेषां वीर्यगुणोत्साहैर्न समो राघवो रणे ।प्रसह्य ते त्वया राजन्हताः परमदुर्जयाः ॥ १५ ॥
राजन्नापदयुक्तेयमागता प्राकृताज्जनात् ।हृदि नैव त्वया कार्या त्वं वधिष्यसि राघवम् ॥ १६ ॥
« »