Click on words to see what they mean.

तयोस्तदा सादितयो रणाग्रे मुमोह सैन्यं हरियूथपानाम् ।सुग्रीवनीलाङ्गदजाम्बवन्तो न चापि किंचित्प्रतिपेदिरे ते ॥ १ ॥
ततो विषण्णं समवेक्ष्य सैन्यं विभीषणो बुद्धिमतां वरिष्ठः ।उवाच शाखामृगराजवीरानाश्वासयन्नप्रतिमैर्वचोभिः ॥ २ ॥
मा भैष्ट नास्त्यत्र विषादकालो यदार्यपुत्राववशौ विषण्णौ ।स्वयम्भुवो वाक्यमथोद्वहन्तौ यत्सादिताविन्द्रजिदस्त्रजालैः ॥ ३ ॥
तस्मै तु दत्तं परमास्त्रमेतत्स्वयम्भुवा ब्राह्मममोघवेगम् ।तन्मानयन्तौ यदि राजपुत्रौ निपातितौ कोऽत्र विषादकालः ॥ ४ ॥
ब्राह्ममस्त्रं तदा धीमान्मानयित्वा तु मारुतिः ।विभीषणवचः श्रुत्वा हनूमांस्तमथाब्रवीत् ॥ ५ ॥
एतस्मिन्निहते सैन्ये वानराणां तरस्विनाम् ।यो यो धारयते प्राणांस्तं तमाश्वासयावहे ॥ ६ ॥
तावुभौ युगपद्वीरौ हनूमद्राक्षसोत्तमौ ।उल्काहस्तौ तदा रात्रौ रणशीर्षे विचेरतुः ॥ ७ ॥
छिन्नलाङ्गूलहस्तोरुपादाङ्गुलि शिरो धरैः ।स्रवद्भिः क्षतजं गात्रैः प्रस्रवद्भिः समन्ततः ॥ ८ ॥
पतितैः पर्वताकारैर्वानरैरभिसंकुलाम् ।शस्त्रैश्च पतितैर्दीप्तैर्ददृशाते वसुंधराम् ॥ ९ ॥
सुग्रीवमङ्गदं नीलं शरभं गन्धमादनम् ।जाम्बवन्तं सुषेणं च वेगदर्शनमाहुकम् ॥ १० ॥
मैन्दं नलं ज्योतिमुखं द्विविदं पनसं तथा ।विभीषणो हनूमांश्च ददृशाते हतान्रणे ॥ ११ ॥
सप्तषष्टिर्हताः कोट्यो वानराणां तरस्विनाम् ।अह्नः पञ्चमशेषेण वल्लभेन स्वयम्भुवः ॥ १२ ॥
सागरौघनिभं भीमं दृष्ट्वा बाणार्दितं बलम् ।मार्गते जाम्बवन्तं स्म हनूमान्सविभीषणः ॥ १३ ॥
स्वभावजरया युक्तं वृद्धं शरशतैश्चितम् ।प्रजापतिसुतं वीरं शाम्यन्तमिव पावकम् ॥ १४ ॥
दृष्ट्वा तमुपसंगम्य पौलस्त्यो वाक्यमब्रवीत् ।कच्चिदार्यशरैस्तीर्ष्णैर्न प्राणा ध्वंसितास्तव ॥ १५ ॥
विभीषणवचः श्रुत्वा जाम्बवानृक्षपुंगवः ।कृच्छ्रादभ्युद्गिरन्वाक्यमिदं वचनमब्रवीत् ॥ १६ ॥
नैरृतेन्द्रमहावीर्यस्वरेण त्वाभिलक्षये ।पीड्यमानः शितैर्बाणैर्न त्वां पश्यामि चक्षुषा ॥ १७ ॥
अञ्जना सुप्रजा येन मातरिश्वा च नैरृत ।हनूमान्वानरश्रेष्ठः प्राणान्धारयते क्वचित् ॥ १८ ॥
श्रुत्वा जाम्बवतो वाक्यमुवाचेदं विभीषणः ।आर्यपुत्रावतिक्रम्य कस्मात्पृच्छसि मारुतिम् ॥ १९ ॥
नैव राजनि सुग्रीवे नाङ्गदे नापि राघवे ।आर्य संदर्शितः स्नेहो यथा वायुसुते परः ॥ २० ॥
विभीषणवचः श्रुत्वा जाम्बवान्वाक्यमब्रवीत् ।शृणु नैरृतशार्दूल यस्मात्पृच्छामि मारुतिम् ॥ २१ ॥
तस्मिञ्जीवति वीरे तु हतमप्यहतं बलम् ।हनूमत्युज्झितप्राणे जीवन्तोऽपि वयं हताः ॥ २२ ॥
ध्रियते मारुतिस्तात मारुतप्रतिमो यदि ।वैश्वानरसमो वीर्ये जीविताशा ततो भवेत् ॥ २३ ॥
ततो वृद्धमुपागम्य नियमेनाभ्यवादयत् ।गृह्य जाम्बवतः पादौ हनूमान्मारुतात्मजः ॥ २४ ॥
श्रुत्वा हनुमतो वाक्यं तथापि व्यथितेन्द्रियः ।पुनर्जातमिवात्मानं स मेने ऋक्षपुंगवः ॥ २५ ॥
ततोऽब्रवीन्महातेजा हनूमन्तं स जाम्बवान् ।आगच्छ हरिशार्दूलवानरांस्त्रातुमर्हसि ॥ २६ ॥
नान्यो विक्रमपर्याप्तस्त्वमेषां परमः सखा ।त्वत्पराक्रमकालोऽयं नान्यं पश्यामि कञ्चन ॥ २७ ॥
ऋक्षवानरवीराणामनीकानि प्रहर्षय ।विशल्यौ कुरु चाप्येतौ सादितौ रामलक्ष्मणौ ॥ २८ ॥
गत्वा परममध्वानमुपर्युपरि सागरम् ।हिमवन्तं नगश्रेष्ठं हनूमन्गन्तुमर्हसि ॥ २९ ॥
ततः काञ्चनमत्युग्रमृषभं पर्वतोत्तमम् ।कैलासशिखरं चापि द्रक्ष्यस्यरिनिषूदन ॥ ३० ॥
तयोः शिखरयोर्मध्ये प्रदीप्तमतुलप्रभम् ।सर्वौषधियुतं वीर द्रक्ष्यस्यौषधिपर्वतम् ॥ ३१ ॥
तस्य वानरशार्दूलचतस्रो मूर्ध्नि संभवाः ।द्रक्ष्यस्योषधयो दीप्ता दीपयन्त्यो दिशो दश ॥ ३२ ॥
मृतसंजीवनीं चैव विशल्यकरणीमपि ।सौवर्णकरणीं चैव संधानीं च महौषधीम् ॥ ३३ ॥
ताः सर्वा हनुमन्गृह्य क्षिप्रमागन्तुमर्हसि ।आश्वासय हरीन्प्राणैर्योज्य गन्धवहात्मजः ॥ ३४ ॥
श्रुत्वा जाम्बवतो वाक्यं हनूमान्हरिपुंगवः ।आपूर्यत बलोद्धर्षैस्तोयवेगैरिवार्णवः ॥ ३५ ॥
स पर्वततटाग्रस्थः पीडयन्पर्वतोत्तरम् ।हनूमान्दृश्यते वीरो द्वितीय इव पर्वतः ॥ ३६ ॥
हरिपादविनिर्भिन्नो निषसाद स पर्वतः ।न शशाक तदात्मानं सोढुं भृशनिपीडितः ॥ ३७ ॥
तस्य पेतुर्नगा भूमौ हरिवेगाच्च जज्वलुः ।शृङ्गाणि च व्यकीर्यन्त पीडितस्य हनूमता ॥ ३८ ॥
तस्मिन्संपीड्यमाने तु भग्नद्रुमशिलातले ।न शेकुर्वानराः स्थातुं घूर्णमाने नगोत्तमे ॥ ३९ ॥
स घूर्णितमहाद्वारा प्रभग्नगृहगोपुरा ।लङ्का त्रासाकुला रात्रौ प्रनृत्तेवाभवत्तदा ॥ ४० ॥
पृथिवीधरसंकाशो निपीड्य धरणीधरम् ।पृथिवीं क्षोभयामास सार्णवां मारुतात्मजः ॥ ४१ ॥
पद्भ्यां तु शैलमापीड्य वडवामुखवन्मुखम् ।विवृत्योग्रं ननादोच्चैस्त्रासयन्निव राक्षसान् ॥ ४२ ॥
तस्य नानद्यमानस्य श्रुत्वा निनदमद्भुतम् ।लङ्कास्था राक्षसाः सर्वे न शेकुः स्पन्दितुं भयात् ॥ ४३ ॥
नमस्कृत्वाथ रामाय मारुतिर्भीमविक्रमः ।राघवार्थे परं कर्म समैहत परंतपः ॥ ४४ ॥
स पुच्छमुद्यम्य भुजंगकल्पं विनम्य पृष्ठं श्रवणे निकुञ्च्य ।विवृत्य वक्त्रं वडवामुखाभमापुप्लुवे व्योम्नि स चण्डवेगः ॥ ४५ ॥
स वृक्षषण्डांस्तरसा जहार शैलाञ्शिलाः प्राकृतवानरांश्च ।बाहूरुवेगोद्धतसंप्रणुन्नास्ते क्षीणवेगाः सलिले निपेतुः ॥ ४६ ॥
स तौ प्रसार्योरगभोगकल्पौ भुजौ भुजंगारिनिकाशवीर्यः ।जगाम मेरुं नगराजमग्र्यं दिशः प्रकर्षन्निव वायुसूनुः ॥ ४७ ॥
स सागरं घूर्णितवीचिमालं तदा भृशं भ्रामितसर्वसत्त्वम् ।समीक्षमाणः सहसा जगाम चक्रं यथा विष्णुकराग्रमुक्तम् ॥ ४८ ॥
स पर्वतान्वृक्षगणान्सरांसि नदीस्तटाकानि पुरोत्तमानि ।स्फीताञ्जनांस्तानपि संप्रपश्यञ्जगाम वेगात्पितृतुल्यवेगः ॥ ४९ ॥
आदित्यपथमाश्रित्य जगाम स गतश्रमः ।स ददर्श हरिश्रेष्ठो हिमवन्तं नगोत्तमम् ॥ ५० ॥
नानाप्रस्रवणोपेतं बहुकंदरनिर्झरम् ।श्वेताभ्रचयसंकाशैः शिखरैश्चारुदर्शनैः ॥ ५१ ॥
स तं समासाद्य महानगेन्द्रमतिप्रवृद्धोत्तमघोरशृङ्गम् ।ददर्श पुण्यानि महाश्रमाणि सुरर्षिसंघोत्तमसेवितानि ॥ ५२ ॥
स ब्रह्मकोशं रजतालयं च शक्रालयं रुद्रशरप्रमोक्षम् ।हयाननं ब्रह्मशिरश्च दीप्तं ददर्श वैवस्वत किंकरांश्च ॥ ५३ ॥
वज्रालयं वैश्वरणालयं च सूर्यप्रभं सूर्यनिबन्धनं च ।ब्रह्मासनं शंकरकार्मुकं च ददर्श नाभिं च वसुंधरायाः ॥ ५४ ॥
कैलासमग्र्यं हिमवच्छिलां च तथर्षभं काञ्चनशैलमग्र्यम् ।स दीप्तसर्वौषधिसंप्रदीप्तं ददर्श सर्वौषधिपर्वतेन्द्रम् ॥ ५५ ॥
स तं समीक्ष्यानलरश्मिदीप्तं विसिष्मिये वासवदूतसूनुः ।आप्लुत्य तं चौषधिपर्वतेन्द्रं तत्रौषधीनां विचयं चकार ॥ ५६ ॥
स योजनसहस्राणि समतीत्य महाकपिः ।दिव्यौषधिधरं शैलं व्यचरन्मारुतात्मजः ॥ ५७ ॥
महौषध्यस्तु ताः सर्वास्तस्मिन्पर्वतसत्तमे ।विज्ञायार्थिनमायान्तं ततो जग्मुरदर्शनम् ॥ ५८ ॥
स ता महात्मा हनुमानपश्यंश्चुकोप कोपाच्च भृशं ननाद ।अमृष्यमाणोऽग्निनिकाशचक्षुर्महीधरेन्द्रं तमुवाच वाक्यम् ॥ ५९ ॥
किमेतदेवं सुविनिश्चितं ते यद्राघवे नासि कृतानुकम्पः ।पश्याद्य मद्बाहुबलाभिभूतो विकीर्णमात्मानमथो नगेन्द्र ॥ ६० ॥
स तस्य शृङ्गं सनगं सनागं सकाञ्चनं धातुसहस्रजुष्टम् ।विकीर्णकूटं चलिताग्रसानुं प्रगृह्य वेगात्सहसोन्ममाथ ॥ ६१ ॥
स तं समुत्पाट्य खमुत्पपात वित्रास्य लोकान्ससुरान्सुरेन्द्रान् ।संस्तूयमानः खचरैरनेकैर्जगाम वेगाद्गरुडोग्रवीर्यः ॥ ६२ ॥
स भास्कराध्वानमनुप्रपन्नस्तद्भास्कराभं शिखरं प्रगृह्य ।बभौ तदा भास्करसंनिकाशो रवेः समीपे प्रतिभास्कराभः ॥ ६३ ॥
स तेन शैलेन भृशं रराज शैलोपमो गन्धवहात्मजस्तु ।सहस्रधारेण सपावकेन चक्रेण खे विष्णुरिवोद्धृतेन ॥ ६४ ॥
तं वानराः प्रेक्ष्य तदा विनेदुः स तानपि प्रेक्ष्य मुदा ननाद ।तेषां समुद्घुष्टरवं निशम्य लङ्कालया भीमतरं विनेदुः ॥ ६५ ॥
ततो महात्मा निपपात तस्मिञ्शैलोत्तमे वानरसैन्यमध्ये ।हर्युत्तमेभ्यः शिरसाभिवाद्य विभीषणं तत्र च सस्वजे सः ॥ ६६ ॥
तावप्युभौ मानुषराजपुत्रौ तं गन्धमाघ्राय महौषधीनाम् ।बभूवतुस्तत्र तदा विशल्यावुत्तस्थुरन्ये च हरिप्रवीराः ॥ ६७ ॥
ततो हरिर्गन्धवहात्मजस्तु तमोषधीशैलमुदग्रवीर्यः ।निनाय वेगाद्धिमवन्तमेव पुनश्च रामेण समाजगाम ॥ ६८ ॥
« »