Click on words to see what they mean.

तद्दृष्ट्वा सुमहत्कर्म कृतं वानरसत्तमैः ।क्रोधमाहारयामास युधि तीव्रमकम्पनः ॥ १ ॥
क्रोधमूर्छितरूपस्तु ध्नुवन्परमकार्मुकम् ।दृष्ट्वा तु कर्म शत्रूणां सारथिं वाक्यमब्रवीत् ॥ २ ॥
तत्रैव तावत्त्वरितं रथं प्रापय सारथे ।एतेऽत्र बहवो घ्नन्ति सुबहून्राक्षसान्रणे ॥ ३ ॥
एतेऽत्र बलवन्तो हि भीमकायाश्च वानराः ।द्रुमशैलप्रहरणास्तिष्ठन्ति प्रमुखे मम ॥ ४ ॥
एतान्निहन्तुमिच्छामि समरश्लाघिनो ह्यहम् ।एतैः प्रमथितं सर्वं दृश्यते राक्षसं बलम् ॥ ५ ॥
ततः प्रजविताश्वेन रथेन रथिनां वरः ।हरीनभ्यहनत्क्रोधाच्छरजालैरकम्पनः ॥ ६ ॥
न स्थातुं वानराः शेकुः किं पुनर्योद्धुमाहवे ।अकम्पनशरैर्भग्नाः सर्व एव प्रदुद्रुवुः ॥ ७ ॥
तान्मृत्युवशमापन्नानकम्पनवशं गतान् ।समीक्ष्य हनुमाञ्ज्ञातीनुपतस्थे महाबलः ॥ ८ ॥
तं महाप्लवगं दृष्ट्वा सर्वे प्लवगयूथपाः ।समेत्य समरे वीराः सहिताः पर्यवारयन् ॥ ९ ॥
व्यवस्थितं हनूमन्तं ते दृष्ट्वा हरियूथपाः ।बभूवुर्बलवन्तो हि बलवन्तमुपाश्रिताः ॥ १० ॥
अकम्पनस्तु शैलाभं हनूमन्तमवस्थितम् ।महेन्द्र इव धाराभिः शरैरभिववर्ष ह ॥ ११ ॥
अचिन्तयित्वा बाणौघाञ्शरीरे पतिताञ्शितान् ।अकम्पनवधार्थाय मनो दध्रे महाबलः ॥ १२ ॥
स प्रहस्य महातेजा हनूमान्मारुतात्मजः ।अभिदुद्राव तद्रक्षः कम्पयन्निव मेदिनीम् ॥ १३ ॥
तस्याभिनर्दमानस्य दीप्यमानस्य तेजसा ।बभूव रूपं दुर्धर्षं दीप्तस्येव विभावसोः ॥ १४ ॥
आत्मानं त्वप्रहरणं ज्ञात्वा क्रोधसमन्वितः ।शैलमुत्पाटयामास वेगेन हरिपुंगवः ॥ १५ ॥
तं गृहीत्वा महाशैलं पाणिनैकेन मारुतिः ।विनद्य सुमहानादं भ्रामयामास वीर्यवान् ॥ १६ ॥
ततस्तमभिदुद्राव राक्षसेन्द्रमकम्पनम् ।यथा हि नमुचिं संख्ये वज्रेणेव पुरंदरः ॥ १७ ॥
अकम्पनस्तु तद्दृष्ट्वा गिरिशृङ्गं समुद्यतम् ।दूरादेव महाबाणैरर्धचन्द्रैर्व्यदारयत् ॥ १८ ॥
तत्पर्वताग्रमाकाशे रक्षोबाणविदारितम् ।विकीर्णं पतितं दृष्ट्वा हनूमान्क्रोधमूर्छितः ॥ १९ ॥
सोऽश्वकर्णं समासाद्य रोषदर्पान्वितो हरिः ।तूर्णमुत्पाटयामास महागिरिमिवोच्छ्रितम् ॥ २० ॥
तं गृहीत्वा महास्कन्धं सोऽश्वकर्णं महाद्युतिः ।प्रहस्य परया प्रीत्या भ्रामयामास संयुगे ॥ २१ ॥
प्रधावन्नुरुवेगेन प्रभञ्जंस्तरसा द्रुमान् ।हनूमान्परमक्रुद्धश्चरणैर्दारयत्क्षितिम् ॥ २२ ॥
गजांश्च सगजारोहान्सरथान्रथिनस्तथा ।जघान हनुमान्धीमान्राक्षसांश्च पदातिकान् ॥ २३ ॥
तमन्तकमिव क्रुद्धं समरे प्राणहारिणम् ।हनूमन्तमभिप्रेक्ष्य राक्षसा विप्रदुद्रुवुः ॥ २४ ॥
तमापतन्तं संक्रुद्धं राक्षसानां भयावहम् ।ददर्शाकम्पनो वीरश्चुक्रोध च ननाद च ॥ २५ ॥
स चतुर्दशभिर्बाणैः शितैर्देहविदारणैः ।निर्बिभेद हनूमन्तं महावीर्यमकम्पनः ॥ २६ ॥
स तथा प्रतिविद्धस्तु बह्वीभिः शरवृष्टिभिः ।हनूमान्ददृशे वीरः प्ररूढ इव सानुमान् ॥ २७ ॥
ततोऽन्यं वृक्षमुत्पाट्य कृत्वा वेगमनुत्तमम् ।शिरस्यभिजघानाशु राक्षसेन्द्रमकम्पनम् ॥ २८ ॥
स वृक्षेण हतस्तेन सक्रोधेन महात्मना ।राक्षसो वानरेन्द्रेण पपात स ममार च ॥ २९ ॥
तं दृष्ट्वा निहतं भूमौ राक्षसेन्द्रमकम्पनम् ।व्यथिता राक्षसाः सर्वे क्षितिकम्प इव द्रुमाः ॥ ३० ॥
त्यक्तप्रहरणाः सर्वे राक्षसास्ते पराजिताः ।लङ्कामभिययुस्त्रस्ता वानरैस्तैरभिद्रुताः ॥ ३१ ॥
ते मुक्तकेशाः संभ्रान्ता भग्नमानाः पराजिताः ।स्रवच्छ्रमजलैरङ्गैः श्वसन्तो विप्रदुद्रुवुः ॥ ३२ ॥
अन्योन्यं प्रममन्तुस्ते विविशुर्नगरं भयात् ।पृष्ठतस्ते सुसंमूढाः प्रेक्षमाणा मुहुर्मुहुः ॥ ३३ ॥
तेषु लङ्कां प्रविष्टेषु राक्षसेषु महाबलाः ।समेत्य हरयः सर्वे हनूमन्तमपूजयन् ॥ ३४ ॥
सोऽपि प्रहृष्टस्तान्सर्वान्हरीन्संप्रत्यपूजयत् ।हनूमान्सत्त्वसंपन्नो यथार्हमनुकूलतः ॥ ३५ ॥
विनेदुश्च यथा प्राणं हरयो जितकाशिनः ।चकर्षुश्च पुनस्तत्र सप्राणानेव राक्षसान् ॥ ३६ ॥
स वीरशोभामभजन्महाकपिः समेत्य रक्षांसि निहत्य मारुतिः ।महासुरं भीमममित्रनाशनं यथैव विष्णुर्बलिनं चमूमुखे ॥ ३७ ॥
अपूजयन्देवगणास्तदा कपिं स्वयं च रामोऽतिबलश्च लक्ष्मणः ।तथैव सुग्रीवमुखाः प्लवंगमा विभीषणश्चैव महाबलस्तदा ॥ ३८ ॥
« »