Click on words to see what they mean.

श्रुत्वा हनूमतो वाक्यं यथावदनुपूर्वशः ।ततोऽब्रवीन्महातेजा रामः सत्यपराक्रमः ॥ १ ॥
यां निवेदयसे लङ्कां पुरीं भीमस्य रक्षसः ।क्षिप्रमेनां वधिष्यामि सत्यमेतद्ब्रवीमि ते ॥ २ ॥
अस्मिन्मुहूर्ते सुग्रीव प्रयाणमभिरोचये ।युक्तो मुहूर्तो विजयः प्राप्तो मध्यं दिवाकरः ॥ ३ ॥
उत्तरा फल्गुनी ह्यद्य श्वस्तु हस्तेन योक्ष्यते ।अभिप्रयाम सुग्रीव सर्वानीकसमावृताः ॥ ४ ॥
निमित्तानि च धन्यानि यानि प्रादुर्भवन्ति मे ।निहत्य रावणं सीतामानयिष्यामि जानकीम् ॥ ५ ॥
उपरिष्टाद्धि नयनं स्फुरमाणमिदं मम ।विजयं समनुप्राप्तं शंसतीव मनोरथम् ॥ ६ ॥
अग्रे यातु बलस्यास्य नीलो मार्गमवेक्षितुम् ।वृतः शतसहस्रेण वानराणां तरस्विनाम् ॥ ७ ॥
फलमूलवता नील शीतकाननवारिणा ।पथा मधुमता चाशु सेनां सेनापते नय ॥ ८ ॥
दूषयेयुर्दुरात्मानः पथि मूलफलोदकम् ।राक्षसाः परिरक्षेथास्तेभ्यस्त्वं नित्यमुद्यतः ॥ ९ ॥
निम्नेषु वनदुर्गेषु वनेषु च वनौकसः ।अभिप्लुत्याभिपश्येयुः परेषां निहतं बलम् ॥ १० ॥
सागरौघनिभं भीममग्रानीकं महाबलाः ।कपिसिंहा प्रकर्षन्तु शतशोऽथ सहस्रशः ॥ ११ ॥
गजश्च गिरिसंकाशो गवयश्च महाबलः ।गवाक्षश्चाग्रतो यान्तु गवां दृप्ता इवर्षभाः ॥ १२ ॥
यातु वानरवाहिन्या वानरः प्लवतां पतिः ।पालयन्दक्षिणं पार्श्वमृषभो वानरर्षभः ॥ १३ ॥
गन्धहस्तीव दुर्धर्षस्तरस्वी गन्धमादनः ।यातु वानरवाहिन्याः सव्यं पार्श्वमधिष्ठितः ॥ १४ ॥
यास्यामि बलमध्येऽहं बलौघमभिहर्षयन् ।अधिरुह्य हनूमन्तमैरावतमिवेश्वरः ॥ १५ ॥
अङ्गदेनैष संयातु लक्ष्मणश्चान्तकोपमः ।सार्वभौमेण भूतेशो द्रविणाधिपतिर्यथा ॥ १६ ॥
जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः ।ऋक्षराजो महासत्त्वः कुक्षिं रक्षन्तु ते त्रयः ॥ १७ ॥
राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः ।व्यादिदेश महावीर्यान्वानरान्वानरर्षभः ॥ १८ ॥
ते वानरगणाः सर्वे समुत्पत्य युयुत्सवः ।गुहाभ्यः शिखरेभ्यश्च आशु पुप्लुविरे तदा ॥ १९ ॥
ततो वानरराजेन लक्ष्मणेन च पूजितः ।जगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम् ॥ २० ॥
शतैः शतसहस्रैश्च कोटीभिरयुतैरपि ।वारणाभिश्च हरिभिर्ययौ परिवृतस्तदा ॥ २१ ॥
तं यान्तमनुयाति स्म महती हरिवाहिनी ॥ २२ ॥
हृष्टाः प्रमुदिताः सर्वे सुग्रीवेणाभिपालिताः ।आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवंगमाः ।क्ष्वेलन्तो निनदन्तश्च जग्मुर्वै दक्षिणां दिशम् ॥ २३ ॥
भक्षयन्तः सुगन्धीनि मधूनि च फलानि च ।उद्वहन्तो महावृक्षान्मञ्जरीपुञ्जधारिणः ॥ २४ ॥
अन्योन्यं सहसा दृष्टा निर्वहन्ति क्षिपन्ति च ।पतन्तश्चोत्पतन्त्यन्ये पातयन्त्यपरे परान् ॥ २५ ॥
रावणो नो निहन्तव्यः सर्वे च रजनीचराः ।इति गर्जन्ति हरयो राघवस्य समीपतः ॥ २६ ॥
पुरस्तादृषभो वीरो नीलः कुमुद एव च ।पथानं शोधयन्ति स्म वानरैर्बहुभिः सह ॥ २७ ॥
मध्ये तु राजा सुग्रीवो रामो लक्ष्मण एव च ।बहुभिर्बलिभिर्भीमैर्वृताः शत्रुनिबर्हणः ॥ २८ ॥
हरिः शतबलिर्वीरः कोटीभिर्दशभिर्वृतः ।सर्वामेको ह्यवष्टभ्य ररक्ष हरिवाहिनीम् ॥ २९ ॥
कोटीशतपरीवारः केसरी पनसो गजः ।अर्कश्चातिबलः पार्श्वमेकं तस्याभिरक्षति ॥ ३० ॥
सुषेणो जाम्बवांश्चैव ऋक्षैर्बहुभिरावृतः ।सुग्रीवं पुरतः कृत्वा जघनं संररक्षतुः ॥ ३१ ॥
तेषां सेनापतिर्वीरो नीलो वानरपुंगवः ।संपतन्पततां श्रेष्ठस्तद्बलं पर्यपालयत् ॥ ३२ ॥
दरीमिखः प्रजङ्घश्च जम्भोऽथ रभसः कपिः ।सर्वतश्च ययुर्वीरास्त्वरयन्तः प्लवंगमान् ॥ ३३ ॥
एवं ते हरिशार्दूला गच्छन्तो बलदर्पिताः ।अपश्यंस्ते गिरिश्रेष्ठं सह्यं द्रुमलतायुतम् ॥ ३४ ॥
सागरौघनिभं भीमं तद्वानरबलं महत् ।निःससर्प महाघोषं भीमवेग इवार्णवः ॥ ३५ ॥
तस्य दाशरथेः पार्श्वे शूरास्ते कपिकुञ्जराः ।तूर्णमापुप्लुवुः सर्वे सदश्वा इव चोदिताः ॥ ३६ ॥
कपिभ्यामुह्यमानौ तौ शुशुभते नरर्षभौ ।महद्भ्यामिव संस्पृष्टौ ग्राहाभ्यां चन्द्रभास्करौ ॥ ३७ ॥
तमङ्गदगतो रामं लक्ष्मणः शुभया गिरा ।उवाच प्रतिपूर्णार्थः स्मृतिमान्प्रतिभानवान् ॥ ३८ ॥
हृतामवाप्य वैदेहीं क्षिप्रं हत्वा च रावणम् ।समृद्धार्थः समृद्धार्थामयोध्यां प्रतियास्यसि ॥ ३९ ॥
महान्ति च निमित्तानि दिवि भूमौ च राघव ।शुभान्ति तव पश्यामि सर्वाण्येवार्थसिद्धये ॥ ४० ॥
अनु वाति शुभो वायुः सेनां मृदुहितः सुखः ।पूर्णवल्गुस्वराश्चेमे प्रवदन्ति मृगद्विजाः ॥ ४१ ॥
प्रसन्नाश्च दिशः सर्वा विमलश्च दिवाकरः ।उशना च प्रसन्नार्चिरनु त्वां भार्गवो गतः ॥ ४२ ॥
ब्रह्मराशिर्विशुद्धश्च शुद्धाश्च परमर्षयः ।अर्चिष्मन्तः प्रकाशन्ते ध्रुवं सर्वे प्रदक्षिणम् ॥ ४३ ॥
त्रिशङ्कुर्विमलो भाति राजर्षिः सपुरोहितः ।पितामहवरोऽस्माकमिष्क्वाकूणां महात्मनाम् ॥ ४४ ॥
विमले च प्रकाशेते विशाखे निरुपद्रवे ।नक्षत्रं परमस्माकमिक्ष्वाकूणां महात्मनाम् ॥ ४५ ॥
नैरृतं नैरृतानां च नक्षत्रमभिपीड्यते ।मूलं मूलवता स्पृष्टं धूप्यते धूमकेतुना ॥ ४६ ॥
सरं चैतद्विनाशाय राक्षसानामुपस्थितम् ।काले कालगृहीतानां नकत्रं ग्रहपीडितम् ॥ ४७ ॥
प्रसन्नाः सुरसाश्चापो वनानि फलवन्ति च ।प्रवान्त्यभ्यधिकं गन्धा यथर्तुकुसुमा द्रुमाः ॥ ४८ ॥
व्यूढानि कपिसैन्यानि प्रकाशन्तेऽधिकं प्रभो ।देवानामिव सैन्यानि संग्रामे तारकामये ॥ ४९ ॥
एवमार्य समीक्ष्यैतान्प्रीतो भवितुमर्हसि ।इति भ्रातरमाश्वास्य हृष्टः सौमित्रिरब्रवीत् ॥ ५० ॥
अथावृत्य महीं कृत्स्नां जगाम महती चमूः ।ऋक्षवानरशार्दूलैर्नखदंष्ट्रायुधैर्वृता ॥ ५१ ॥
कराग्रैश्चरणाग्रैश्च वानरैरुद्धतं रजः ।भौममन्तर्दधे लोकं निवार्य सवितुः प्रभाम् ॥ ५२ ॥
सा स्म याति दिवारात्रं महती हरिवाहिनी ।हृष्टप्रमुदिता सेना सुग्रीवेणाभिरक्षिता ॥ ५३ ॥
वनरास्त्वरितं यान्ति सर्वे युद्धाभिनन्दनः ।मुमोक्षयिषवः सीतां मुहूर्तं क्वापि नासत ॥ ५४ ॥
ततः पादपसंबाधं नानामृगसमाकुलम् ।सह्यपर्वतमासेदुर्मलयं च मही धरम् ॥ ५५ ॥
काननानि विचित्राणि नदीप्रस्रवणानि च ।पश्यन्नपि ययौ रामः सह्यस्य मलयस्य च ॥ ५६ ॥
चम्पकांस्तिलकांश्चूतानशोकान्सिन्दुवारकान् ।करवीरांश्च तिमिशान्भञ्जन्ति स्म प्लवंगमाः ॥ ५७ ॥
फलान्यमृतगन्धीनि मूलानि कुसुमानि च ।बुभुजुर्वानरास्तत्र पादपानां बलोत्कटाः ॥ ५८ ॥
द्रोणमात्रप्रमाणानि लम्बमानानि वानराः ।ययुः पिबन्तो हृष्टास्ते मधूनि मधुपिङ्गलाः ॥ ५९ ॥
पादपानवभञ्जन्तो विकर्षन्तस्तथा लताः ।विधमन्तो गिरिवरान्प्रययुः प्लवगर्षभाः ॥ ६० ॥
वृक्षेभ्योऽन्ये तु कपयो नर्दन्तो मधुदर्पिताः ।अन्ये वृक्षान्प्रपद्यन्ते प्रपतन्त्यपि चापरे ॥ ६१ ॥
बभूव वसुधा तैस्तु संपूर्णा हरिपुंगवैः ।यथा कमलकेदारैः पक्वैरिव वसुंधरा ॥ ६२ ॥
महेन्द्रमथ संप्राप्य रामो राजीवलोचनः ।अध्यारोहन्महाबाहुः शिखरं द्रुमभूषितम् ॥ ६३ ॥
ततः शिखरमारुह्य रामो दशरथात्मजः ।कूर्ममीनसमाकीर्णमपश्यत्सलिलाशयम् ॥ ६४ ॥
ते सह्यं समतिक्रम्य मलयं च महागिरिम् ।आसेदुरानुपूर्व्येण समुद्रं भीमनिःस्वनम् ॥ ६५ ॥
अवरुह्य जगामाशु वेलावनमनुत्तमम् ।रामो रमयतां श्रेष्ठः ससुग्रीवः सलक्ष्मणः ॥ ६६ ॥
अथ धौतोपलतलां तोयौघैः सहसोत्थितैः ।वेलामासाद्य विपुलां रामो वचनमब्रवीत् ॥ ६७ ॥
एते वयमनुप्राप्ताः सुग्रीव वरुणालयम् ।इहेदानीं विचिन्ता सा या न पूर्वं समुत्थिता ॥ ६८ ॥
अतः परमतीरोऽयं सागरः सरितां पति ।न चायमनुपायेन शक्यस्तरितुमर्णवः ॥ ६९ ॥
तदिहैव निवेशोऽस्तु मन्त्रः प्रस्तूयतामिह ।यथेदं वानरबलं परं पारमवाप्नुयात् ॥ ७० ॥
इतीव स महाबाहुः सीताहरणकर्शितः ।रामः सागरमासाद्य वासमाज्ञापयत्तदा ॥ ७१ ॥
संप्राप्तो मन्त्रकालो नः सागरस्येह लङ्घने ।स्वां स्वां सेनां समुत्सृज्य मा च कश्चित्कुतो व्रजेत् ।गच्छन्तु वानराः शूरा ज्ञेयं छन्नं भयं च नः ॥ ७२ ॥
रामस्य वचनं श्रुत्वा सुग्रीवः सहलक्ष्मणः ।सेनां न्यवेशयत्तीरे सागरस्य द्रुमायुते ॥ ७३ ॥
विरराज समीपस्थं सागरस्य तु तद्बलम् ।मधुपाण्डुजलः श्रीमान्द्वितीय इव सागरः ॥ ७४ ॥
वेलावनमुपागम्य ततस्ते हरिपुंगवाः ।विनिविष्टाः परं पारं काङ्क्षमाणा महोदधेः ॥ ७५ ॥
सा महार्णवमासाद्य हृष्टा वानरवाहिनी ।वायुवेगसमाधूतं पश्यमाना महार्णवम् ॥ ७६ ॥
दूरपारमसंबाधं रक्षोगणनिषेवितम् ।पश्यन्तो वरुणावासं निषेदुर्हरियूथपाः ॥ ७७ ॥
चण्डनक्रग्रहं घोरं क्षपादौ दिवसक्षये ।चन्द्रोदये समाधूतं प्रतिचन्द्रसमाकुलम् ॥ ७८ ॥
चण्डानिलमहाग्राहैः कीर्णं तिमितिमिंगिलैः ।दीप्तभोगैरिवाक्रीर्णं भुजंगैर्वरुणालयम् ॥ ७९ ॥
अवगाढं महासत्तैर्नानाशैलसमाकुलम् ।दुर्गं द्रुगममार्गं तमगाधमसुरालयम् ॥ ८० ॥
मकरैर्नागभोगैश्च विगाढा वातलोहिताः ।उत्पेतुश्च निपेतुश्च प्रवृद्धा जलराशयः ॥ ८१ ॥
अग्निचूर्णमिवाविद्धं भास्कराम्बुमनोरगम् ।सुरारिविषयं घोरं पातालविषमं सदा ॥ ८२ ॥
सागरं चाम्बरप्रख्यमम्बरं सागरोपमम् ।सागरं चाम्बरं चेति निर्विशेषमदृश्यत ॥ ८३ ॥
संपृक्तं नभसा ह्यम्भः संपृक्तं च नभोऽम्भसा ।तादृग्रूपे स्म दृश्येते तारा रत्नसमाकुले ॥ ८४ ॥
समुत्पतितमेघस्य वीच्चि मालाकुलस्य च ।विशेषो न द्वयोरासीत्सागरस्याम्बरस्य च ॥ ८५ ॥
अन्योन्यैराहताः सक्ताः सस्वनुर्भीमनिःस्वनाः ।ऊर्मयः सिन्धुराजस्य महाभेर्य इवाहवे ॥ ८६ ॥
रत्नौघजलसंनादं विषक्तमिव वायुना ।उत्पतन्तमिव क्रुद्धं यादोगणसमाकुलम् ॥ ८७ ॥
ददृशुस्ते महात्मानो वाताहतजलाशयम् ।अनिलोद्धूतमाकाशे प्रवल्गतमिवोर्मिभिः ।भ्रान्तोर्मिजलसंनादं प्रलोलमिव सागरम् ॥ ८८ ॥
« »